॥ श्रीशिवपादादिकेशान्तस्तुतिः ॥

कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः । तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी- कैलासश्शर्वनिर्वृत्यभिजनकपदस्सर्वदा पर्वतेन्द्रः ॥ १॥ यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यत्येषुश्शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ २॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधारात्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन् घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ ३॥ कालारातेः कराग्रे कृतवसतिरुरश्शाणशातो रिपूणां काले काले कुलाद्रि प्रवरतनयया कल्पितस्नेहलेपः । पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं शूलश्श्रीपादसेवाभजनपरहृदां पालनैकान्तशीलः ॥ ४॥ भजनरसजुषां देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार- प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण । आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५॥ कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः । चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः कण्ठे कालस्य वाहः शमयतु दुरितं शाश्वतः शाक्करेन्द्रः ॥ ६॥ शमयति शमलं निर्यद्दानाम्बुधारापरिमलतरलीभूतलोलम्बपाली झङ्गारैः शङ्कराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः । शार्वस्सौवर्णशैलप्रतिमपृथुवपुस्सर्वविघ्नोपहर्ता शर्वाण्याः पूर्वसूनुस्स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ ७॥ यः पुण्यैर्देवतानां समजनि शिवयोश्श्लाघ्यवीरैकमत्यात् var वीर्यैकमत्यात्] यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते । भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैल- स्संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८॥ आरूढप्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥ ९॥ अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै- र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् । अम्भोदेनापि सम्पादितमुपजनिताडम्बरं शम्बरारेः शम्भोस्सम्भोगयोग्यं किमपि धनमिदं सम्भवेत्सम्पदे नः ॥ १०॥ वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा- न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् । एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे शोणान् प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलैः ॥ ११॥ नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै- श्चित्तानन्दं विधत्ते सदसि भगवतस्सन्ततं यस्स नन्दी । चण्डीशाद्यास्तथान्ये चतुरगुणगणप्राणितस्वामिसत्का- रोत्कर्षोद्यत्प्रतापाः प्रमथपरिवृढास्सन्तु सन्तोषिणो नः ॥ १२॥ var रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं प्रत्युप्तानर्घरत्नैर्दिशि भवनैः कल्पितैर्दिक्पतीनाम् । उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं हृद्यं स्तुत्यं सुराणां मम भुवनपतेर्धाम सोमार्धमौलेः ॥ १३॥ var हृद्यं हृद्यस्तु नित्यं स्तम्भैर्जम्भारिरत्नप्रवरविरचितैस्सम्भृतोपान्तभागं शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् । कुम्भैस्सम्पूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कै- श्शम्भोस्सम्भावनीयं सकलमुनिजनैस्सर्वदा सुप्रसन्नः ॥ १४॥ जनैः स्वस्तिदं स्यात्सदो नः न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा । वासोरत्नेन केनाप्यधिकमृदुकरेणास्त्रतो विस्मृतश्रीः- var तरेणास्तृतो पीठः पीडाधरं नः शमयतु शिवयोस्स्वैरसंवासयोग्यः ॥ १५॥ पीडाभरं आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्माभिलेखौ । पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर्- श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ १६॥ यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु- र्लक्ष्मीसम्भोगसौख्यं विरचयति ययोश्चापदे रूपभेदे । शम्भोस्सम्भावनीये पदकमलसमासङ्गतस्तुङ्गशोभे माङ्गल्यं नस्समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ १७॥ अङ्गे शृङ्गारयोनेस्सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् । शङ्कामित्थं नतानाममरपरिषदामन्तरं कूरयत्त- त्सङ्घातं चारुजङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८॥ जानुद्वन्द्वेन मीनध्वजनृपरसमुद्रोपमानेन साकं राजन्तौ राजरम्भाकरिकरकनकस्तम्भसम्भावनीयौ । ऊरू गौरी कराम्भोरुहसरससमामर्दनानन्दभाजौ- चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ १९॥ आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची- दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण । संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनस्सोममौलेः ॥ २०॥ सन्ध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाधं व्यानद्धस्स्निग्धवर्णस्सरसमुदरबन्धेन पीतोपमेन । var स्निग्धमुग्धः उद्दीप्रैस्स्वप्रकाशैरूपचितमहिमा मन्मथारेरुदारो मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा सङ्गतिं मङ्गलानाम् ॥ २१॥ नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता- दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती । श्यमा कामागमार्थप्रकथनलिपिवद्भासते या निकामं सा मा सोमार्धमौलेस्सुखयतु सततं रोमवल्लीमतल्ली ॥ २२॥ आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क- व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतन्नः ॥ २३॥ वामाङ्के विष्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् । अन्यांस्त्रीनप्युदारान्वरपरशुमृगालङ्कृतान्सिन्धुमौले- var तानिन्दुमौले- र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४॥ सन्भ्रान्तायाश्शिवायाः पतिविलयभयात्सर्वलोकोपतापा- var भिया सर्वलोकोपतापा त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् । मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ २५॥ हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री- रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या । मुक्तामाणिक्यपूरव्वतिकरसदृशा तेजसा भासमान- var माणिक्यजाल स्सद्योजातस्य दद्यादधरमणिरसौ सम्पदां सञ्चयन्नः ॥ २६॥ कर्णालङ्कारनानामणिनिकररुचां सञ्चयैरञ्चितायां वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासन्निभायाम् । पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवानस्यशम्भो- र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ २७॥ अत्यन्तं भासमाने रुचिरतररुचां सङ्गमात्सन्मणीना- मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥ २८॥ याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुस्स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् । रुद्राणीवक्त्रपङ्केरुहसततविहारोस्तुकेन्दिन्दिरेभ्य- स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९॥ वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया व्यानम्नेष्वन्यदन्यत्पुनरलिकभवं वीतनिश्शेषरौक्ष्यम् । भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयन्नः ॥ ३०॥ यस्मिन्नधेन्दुमुग्धद्युतितिमिरतिरस्कारनिस्तन्द्रकान्तौ var धुतिनिचय काश्मीरक्षोदसङ्कल्पितमिव रुचिरं चित्रकं भाति नेत्रम् । तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे कालारेर्भालदेशे विहरतु हृदयं वीतचिन्तान्तरन्नः ॥ ३१॥ स्वामिन् गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं धन्यां कन्यां खरांशोश्शिरसि वहति किन्वेष कारुण्यशाली । इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ- च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसेनः ॥ ३२॥ शृङ्गाराकल्पयोग्यैश्शिखरिवरसुतासत्सखीहस्तलूनै- स्सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् । तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं सङ्घन्नः सङ्कटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ ३३॥ वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा- दुत्तंसत्वं प्रयातस्सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः । तत्सेवन्तां जनौघाश्शिवमिति निजयावस्थयापि ब्रुवाणं var निजयावस्थयैव वन्दे देवस्य शम्भो र्मकुटसुघटितं मुग्धपीयूषभानुम् ॥ ३४॥ कान्त्या सम्फुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराजन् वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् । सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५॥ दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां रुद्राणीसत्सखीनामतितरलकटाक्षाञ्चलैरञ्चितानाम् । var सखीनां मदतरल उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना- मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ ३६॥ स्वर्गौकस्सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां वल्गद्भूषाणि वक्त्राम्बुजपरिविगलन्मुग्धगीतामृतानि । नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक- प्रत्युद्यत्प्रीतिमाद्यत्प्रथमनटनटीदत्तसम्भावनानि ॥ ३७॥ स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा- स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् । नानारागादिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतान्नः ॥ ३८॥ चेतो जातप्रमोदं सपदि विदधति प्राणिनां वाणिनीनां पाणिद्वन्द्वाग्रकूजत्सुललितविलसत्स्वर्णतालानुकूला । var पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्ण स्वीयारावेण पाथोधररवपटुना नादयन्तीं मयूरीं मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ ३९॥ देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्य- स्साध्येभ्यश्चारणेभ्यो मनुजपशुलसज्जातिकीटादिकेभ्यः । var पशुपतज्जाति श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्य- स्सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ४०॥ इत्थं ध्यायन् प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः var ध्यन्नित्थं किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामस्समासात् । सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं सम्प्राप्यायुश्शतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥ ४१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीशिवपादादिकेशान्तवर्णनस्तोत्रं सम्पूर्णम् ॥ Encoded by Rajnarayanan C K krajnara at gmail.com Proofread by Rajnarayanan C K, PSA Easwaran psaeaswaran at gmail.com

% Text title            : shivapAdAdikeshAntastutiH
% File name             : shivapAdAdikeshAntastutiH.itx
% itxtitle              : shivapAdAdikeshAntastutiH
% engtitle              : shivapAdAdikeshAntastutiH
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajnarayanan C K krajnara at gmail.com
% Proofread by          : Rajnarayanan C K, PSA Easwaran psaeaswaran
% Description-comments  : Brihatstotraratnakara 1927 Madras, page 144 to 152
% Latest update         : January 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP