नन्दिकेशप्रोक्तं शिवपूजामहिमकथनम्

नन्दिकेशप्रोक्तं शिवपूजामहिमकथनम्

महेश्वरः सर्वसुरोत्तमोऽयमनामयोऽयं जगदीश्वरोऽयम् । मृत्युञ्जयोऽयं मदनान्तकोऽयं कालान्तकोऽयं मम भागधेयम् ॥ १॥ अस्माकमाराध्यतमं प्रकृष्टं विश्वेश्वरश्रीचरणारविन्दम् । आनन्दकन्दं तदिदं प्रमोदं ददातु मन्दं स्मृतमप्यमन्दम् ॥ २॥ वन्दे मुहुर्दैवतसार्वभौमं सोमावतंसं गरलावतंसम् । तमेव वेदान्तगणाः स्तुवन्ति तमेव देवं शरणं प्रपद्ये ॥ ३॥ यदा कदाचित् हृदयारविन्दे महेश्वरश्रीचरणारविन्दे । क्षणं चरन्तो यदि चिन्तयन्ति तदा कृतान्तस्य पदं न यान्ति ॥ ४॥ यः कालकालः श्रुतिषु प्रसिद्धः तं कालकालं प्रणमन्ति सन्तः । ते तावदन्ते न कृतान्तभीतिं प्रयान्ति यान्त्येव शिवं प्रसन्नम् ॥ ५॥ न चायमन्यामरतुल्यरूपो यतो विरूपाक्ष इति प्रसिद्धः । को वा विरूपाक्षसमक्षमेति विना विरूपाक्षकटाक्षलेशम् ॥ ६॥ धर्मेरपारैरलमेव यागैः दानैरपारैरलमेव योगैः । तपोभिरुग्रैरलमेव किं तैः तं कालकालं कलयानुवेलम् ॥ ७॥ एकं नवं बिल्वदलं शिवाय समर्पित तत्तुलनां प्रयाति । धर्मोऽपि को वा तदुमासह यस्वरूपदानेऽपि समर्थमेव ॥ ८॥ खण्डानि पत्राण्यपि चन्द्रमौलिः छिन्नानि पुष्पाण्यपि लीलया वा । क्षिप्तानि गृह्णाति शुभं ददाति मुक्तिं ददाति प्रतिभूः म धर्मे ॥ ९॥ किमश्वमेधादिकयागवृन्दैः न ते शिवाराधनपुण्यराशेः । लेशोऽस्ति यः सूक्ष्मतरो नितान्तं तेनापि तुल्या न भवन्ति ते तु ॥ १०॥ किमुत्तमाश्वार्बुददानसङ्घैः न ते शिवाराधनपुण्यराशेः । लेशोऽस्ति यः सूक्ष्मतरो नितान्तं तेनापि तुल्या न भवन्ति ते तु ॥ ११॥ किं काञ्चनाभ्यर्चितकन्यकानां दानैरपारैरनुवामरं वा । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १२॥ सस्यादिपम्पूर्णमहीप्रदानैः किं तैरनन्तैरपि तानि तानि । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १३॥ वनानि सान्द्राणि विनिर्मितानि किं तान्यनन्तान्यपि सन्ततानि । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १४॥ किमन्नदानैरमितैर्विचित्रैः घृतादिसद्द्रव्यसमन्वितैर्वा । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १५॥ गोक्षीरपूर्णामितकुम्भदानेः धनप्रदानश्च फलप्रदानेः । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १६॥ विचित्रवस्त्राभरणार्बुदानां दानैरपारोदककुम्भदानैः । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १७॥ सुगन्धपुष्पामलमालिकानां दानैरपारैरपि किं फलं स्यात् । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १८॥ लिङ्गे प्रदत्तं कुसुमं फलं वा दलं जलं वा तदुमामहायः । गृह्णाति तेनैव ददाति भाग्यमनन्तमन्ते स ददाति मुक्तिम् ॥ १९॥ दुर्वाङ्कुरैर्वा शिवलिङ्गरूपं सम्पूज्य भक्त्या प्रणमन्ति ये ते । तीर्त्वैव संसारमहाम्बुधिं तं प्रयान्ति सन्तः खलु कालकालम् ॥ २०॥ लिङ्गे यदल्पं फलमम्बु वान्यत् दत्तं तदेवामितपुण्यहेतुः । न तेन तुल्यं जगतीतलेऽस्मिन् शुभावहं पापविनाशहेतुः ॥ २१॥ शिवाय यः प्रत्यहमादरेण दत्वा जलं बिल्वदलानि दद्यात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २२॥ शिवाय दद्याद्यदि मुष्टिमात्रं भक्त्या यदन्नं घृतलेशयुक्तम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २३॥ दीपं महेशाय घृताभिषिक्तं सद्वर्तिकायुक्तमपि प्रदद्यात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २४॥ धूपं महेशाय घृतेन सिक्तं ददाति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २५॥ क्षीरप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २६॥ दधिप्रदानं गिरिशाय भक्ताः कुर्वन्ति ये प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २७॥ घृतप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २८॥ सिताप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २९॥ फलप्रदानानि मृडाय भक्ताः कुर्वन्ति ये प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३०॥ मधुप्रदानानि भवाय भक्तया करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३१॥ ताम्बूलदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३२॥ एलालवङ्गादिकमादरेण ददाति यः प्रत्यहमीश्वराय । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३३॥ ददाति यो दर्पणमीश्वराय मनोहरं प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३४॥ करोति यश्चामखीजनेन वातप्रसारं गिरिशाय नित्यम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३५॥ छत्रप्रदानं नियमेन नित्यं करोति यः सर्वसुरोत्तमाय । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३६॥ ध्वजप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३७॥ नाट्यप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३८॥ तूर्यप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३९॥ सम्मार्जनं शङ्करमन्दिरस्य करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४०॥ दीपावलीं शङ्करमन्दिरेषु करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४१॥ दुकूलदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४२॥ करोति यः पुष्पवितानदानं भक्त्या महेशाय विशेषकाले । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४३॥ वसन्तकाले नवचन्दनेन करोति लिङ्गेष्वनुलेपनानि । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४४॥ दध्यन्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४५॥ क्षीरान्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४६॥ घृतान्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४७॥ मध्वन्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४८॥ महेशनैवेद्यविशेषदानैः यः शङ्करं तोषयति प्रयत्नात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४९॥ महेशदत्तैर्वसनेर्धनैर्वा यः शङ्करं तोषयति प्रयत्नात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ५०॥ किं लिङ्गार्चनपुण्यतुल्यमनघं पुण्यं श्रुतं तद्यतः पुण्यानामपि पुण्यमुत्तमतमं तत्सर्वपुण्यालयम् । तन्मृत्युञ्जयतोषकारणमिति ज्ञातं तदेवोत्तमं तद्वेदान्तशिरोमणिश्रुतिमतं किं तेन तुल्यं सुराः ॥ ५१॥ (रे रे सुराः) शिवपदाम्बुजपूजनेन तुल्यं न पुण्यमतुलं तदपारपुण्यैः । साध्यं तदेव सुकरं करवीरपुष्पैः दूर्वाङ्कुरैरपि कृतं वितनोति मुक्तिम् ॥ ५२॥ विश्वासः शिवपूजनेऽप्यगणितैः पुण्यैः परं जायते जातस्याप्यनुवर्तनं बहुतरैः पुण्याब्धिभिर्जायते । तत्पूजाकरणेन पुण्यनिधयः प्राप्ताः समस्ताः सदा कल्याणाम्बुधयोऽप्यपारविभवाः प्राप्ताः परार्धाधिकाः ॥ ५३॥ कामं कायविशोषणाय मुनिभिः तसं तपः किं ततो लिङ्गाराधनमन्तरेण मरणे भोगस्य मुक्तेरपि । वार्ता नेत्यवधारणं श्रुतिगणैः लिङ्गार्चनं कामदं सर्वेषामपि निश्चितं तदितरत् सर्वं तुषान्वेषणम् ॥ ५४॥ एकं बिल्वदलं नवं शिथिलमप्यम्लानमप्यल्पम- प्यत्यल्पं शिवलिङ्गभागनिहितं हन्त्रापदम्भोनिधीन् । कल्याणाम्बुधिपङ्क्तिमप्यनुदिनं तावत्करोत्यन्वहं मोदाम्भोधिविवर्धनं च बहुधा मुक्तिं तनोत्यन्ततः ॥ ५५॥ -सत्यं सत्यमिहोच्यते सुरगणाः सत्यं पुनः सर्वथा- प्युद्धुत्याशु भुजद्वयं शपथमप्यम्बापदाम्भोरुहे । - कृत्वा शङ्करचारुचारुचरणाम्भोजेऽपि लिङ्गार्चन सर्वाभीष्टदमेव तेन सदृशं पुण्यं न लोकत्रये ॥ ५६॥ एतल्लिङ्गसमर्चनं मुनिजनाशास्यं रहस्यं परं वक्तव्यं शिवपूजनोत्सवरसाविर्भावतुष्टाय तु । इष्टायामितपुण्यकीर्तिविभवाकाराय हाराय त- न्नान्यस्मै शिवनिन्दकाय शपथः शम्भोः प्रभोः पादयोः ॥ ५७॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवपूजामहिमकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २८। ३-५९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 28. 3-59 .. Proofread by Ruma Dewan
% Text title            : Nandikeshaproktam Shivapuja Mahimakathanam
% File name             : shivapUjAmahimakathanaMnandikeshaproktam.itx
% itxtitle              : shivapUjAmahimakathanaM nandikeshaproktam (shivarahasyAntargatam)
% engtitle              : shivapUjAmahimakathanaM nandikeshaproktam
% Category              : shiva, pUjA, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 28| 3-59 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org