शिवानुग्रहार्थ देवैः कृता शिवप्रार्थना
हर हर पुरहर वितर विमुक्तिं कुरुकुरु करुणां सुरजाले ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ १॥
मुरहरनयनार्चितपद शङ्कर विधिहर यमहर शम्भो ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ २॥
परिहर घोरभवाम्बुधिदुःखं जनिनाशोद्यतमीश ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ ३॥
निगमायिततुरगोत्तम शङ्कर हरिशर पुरहर शम्भो ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ ४॥
करिवरहरिवरचर्मवसान सुरवरपोषक (सुस्वरपोषक) शम्भो ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ ५॥
तरुणेन्दुद्युतिशोभित गङ्गामुकुटीजटतट शम्भो ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ ६॥
अतिदर्पे(र्पो)द्धतयममदखण्डन पालितद्विजनृपपोत ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ ७॥
गजहर स्मरहर भवहर भगवन् भवतरणे करुणाब्धे ।
शरणं भव भव शरणं भव भव कुरु करुणां शशिमौले ॥ ८॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये शिवानुग्रहार्थ देवैः कृता ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः ११ ॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 11 ..
Shloka-s have been renumbered, as the number of
shloka-s has been found to differ amongst the
two referenced source texts. Also for chanting,
duplication of kuru like in the line 1, or
adding हे with shambho and shashimaule or such.
Two laghus in कुरु is equivalent to a guru हे.
Proofread by Ruma Dewan