श्रीशिवप्रातःस्मरणस्तोत्रम् २
श्रीगणेशाय नमः ।
प्रातः स्मरामि गिरिजापतिमादितेय-
स्रोतस्विनीस्रगभिरामजटाकलापम् ।
पीयूषभानुमुकुटं शिखिपुष्पवन्ता-
क्षं नीलकण्ठमनुपाधिकृपामृताब्धिम् ॥ १॥
प्रातर्नमामि निखिलेश्वरशासितारं
तारं समस्तनिगमेषु कृतप्रचारम् ।
कामं दहन्तमहिमन्तमनन्तमन्तः
सन्तं सतीकुलललामकलत्रवन्तम् ॥ २॥
प्रातर्भजामि निखिलौषधिभर्तृभूषा-
रत्नं क्रियासु कुशलं भवरोगभीतः ।
पीयूषपाणिमगदप्रदमागमस्वं
वर्षिष्ठमार्त्तकरुणापरवन्तमीशम् ॥ ३॥
श्लोकत्रयं विरचितं यमिना प्रबोधा-
नन्देन नन्दयतु शश्वदिदं प्रसन्नम् ।
धन्यानखण्डविभवानमृतांशुखण्ड-
चूडामणिस्मरणलोलुपचित्तचुञ्चून् ॥ ४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं
शिवप्रातःस्मरणस्तोत्रं समाप्तम् ॥
Encoded and proofread by Madhura Bal madhurabal11 gmail.com