शिवरामाष्टकम्
श्रीगणेशाय नमः ।
शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे प्रभो ।
अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १॥
कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते ।
शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ २॥
स्वजनरञ्जनमङ्गलमन्दिरं भजति ते पुरुषाः परमं पदम् ।
भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम् ॥ ३॥
जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥ ४॥
भवविमोचन माधव मापते सुकविमानसहंस शिवारते ।
जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥ ५॥
अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते ।
निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥ ६॥
पतितपावन नाममयी लता तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥ ७॥
अमरतापरदेव रमापते विजयस्तव नामघनोपमे ।
मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥ ८॥
हनुमतः प्रियतोषकर प्रभो सुरसरिदूधृतशेखर हे गुरो ।
मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥ ९॥
नरहरे रतिरञ्जनसुन्दरं पठति यः शिवरामकृतस्तवम् ।
विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥ १०॥
प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११॥
इति श्रीरामानन्दविरचितं शिवरामस्तोत्रम् ।
Proofread by Nat Natarajan nat.natarajan at gmail.com, NA