शिवरामकृष्णसुधीकृतं जलकण्ठेश्वरशतकम्

शिवरामकृष्णसुधीकृतं जलकण्ठेश्वरशतकम्

(३२) ॐ श्रीगणेशाय नमः । वाणीशप्रमुखाखिलामरशिरोराजत्किरीटाञ्चल- प्रोतस्फूर्जदमन्ददिव्यमणिभाभास्वत्पदाम्भोरुहम् । कुन्देन्दुद्युतिजिष्णुपादनखरप्रोद्यत्प्रभासुन्दरं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १॥ कारुण्यार्द्रकटाक्षवीक्षणलवैरुद्गाढनिर्मापित- त्रैलोक्यं स्फुरदभ्रवारणगतिं (लेखावलि) देवासुरैर्वन्दितम् । सेवानम्रसुरेन्द्रमौलिमधुपव्यालीढपादाम्बुजं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २॥ उन्मत्तद्विपराजपर्वतमहादम्भोलिधारावहं निर्वेलोदयमद्वयं सुरुचिराकारं कृपाशेवधिम् । वैयाघ्रीं त्वचमायतां चटपटध्वानां वसानं कटौ वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३॥ नानावेदशिरोभिरुन्नतगुणैः संवेद्यमुद्यत्प्रभं कैलासाचलसौधसीम्नि सततं खेलन्तमुच्चैस्तराम् । अच्छाभी रुचिभिर्दिशामपि मुखं कुर्वन्तमापाण्डरं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४॥ नीहाराचलकन्यया सह तया नित्यं समालिङ्गितं नित्यानन्दमनन्तमादिरहितं श्रीनीलकण्ठं शिवम् । यक्षेशाय निधिप्रदं निजपदानम्राय मुक्तिप्रदं (सायुज्यदं) वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५॥ आधारादिषु मण्टपेषु च मिथो भिन्नेषु नानात्मना नानाशक्तिभिरन्वितस्तनुभृतां देहाभिधाने पुरे । नाड्या यस्तु सुषुम्नया परिचितस्तद्ब्रह्मरन्ध्रङ्गतो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६॥ येनानाहि जटाकटाहकुहरे गङ्गा च तत्तादृशी येनादाहि ललाटनेत्रदहनस्यार्चिर्निकायैरजः । यस्याङ्घ्री भजते जनाय जगतीश्लाघ्या ददाते श्रियो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७॥ यस्य स्मेरकटाक्षवीक्षणबलात् त्रैलोक्यसंरक्षणं सम्प्लोषस्तिसृणां पुरामिव पुनस्तस्य क्षणाज्जायते । यस्मादस्य समुद्भवश्च पृषतां वारामिवाधीशितु- र्वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८॥ यः कालं प्रपिपेष यं गिरिसुता शिश्लेष येन स्मरो निर्दग्धः परमार्थशास्त्रकुशला यस्मै नमस्कुर्वते । यस्मान्नान्यदिदं च यस्य कलया यस्मिन् पुनर्लीयते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९॥ पाशग्रस्तशिरोधिमप्यथ निजस्वीयाङ्घ्रिपङ्केरुह- द्वन्द्वार्चैकपरं मृकण्डुतनयं विश्वैकसाक्षी हि यः । सद्यः प्रोद्यदमन्दसन्ततकृपासारस्तथापालयद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १०॥ चन्द्रार्कानलविद्युतः सुरुचयो यस्यांशभासाश्रिताः चेष्टन्ते यदनुप्रवेशवशतः सत्यं जगन्त्यञ्जसा । यद्बोधाय मुनीश्वराश्चिरतरं तीव्रं तपः कुर्वते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ११॥ यः कल्पद्रुममूलभूतलमलङ्कुर्वंश्चतुर्भिः स्वकै- रिष्टार्थाभयकृष्णसारपरशून् हस्तैर्दधानः क्रमात् । वामाङ्गस्थितयोमया कृतपरीरम्भोत्सवः शोभते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १२॥ यः शुद्धस्फटिकोपमेन वपुषा सर्वा दिशः शोभयन् सोमास्कन्दविनायकः सह गणैः कैलासशैलाङ्गणे । देवैर्विष्णुपुरोगमैरपि यथाकालं मुहुः सेव्यते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १३॥ जात्यन्धोऽपि महाजडोऽपि विगलत्प्राणोऽपि निःस्वोऽपि वा रोगार्तोऽपि भयाकुलोऽपि सुतरां प्राप्तोऽपि कष्टां दशाम् । यत्सेवासमकालमेव लभते वाञ्छानुकूलं फलं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १४॥ यत्पादाम्बुजदर्शनाय स हरिः पाताललोकानधः प्राविश्याभिगवेषयन्नपि मनागप्राप्य कामं पुनः । आगत्यारमहं जडोऽस्म्यतितरामित्युक्तितः पूज्यते वन्दे तं जलकण्ठ देवमनिशं वन्दारुचिन्तामणिम् ॥ १५॥ वेधाः सर्वचराचरव्रजविधादक्षोऽपि यन्मस्तका- लोकाय स्फुटमूर्ध्वलोकमखिलं गत्वापि भूयः पतन् । भ्रश्यत्केतकसङ्गतोऽनृतगिरा स्थानार्चनैर्वर्जितो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १६॥ यः सर्वं सचराचरं जगदिदं निर्माति नर्माणि च प्रापय्यावति तत् पुनश्च समये यः संहरत्यन्ततः । सृष्ट्यादित्रयसाक्षिमात्रकतया यः केवलो वर्तते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १७॥ यश्चैकोऽखिलभूतसन्ततिगुहागृढः प्रकाशात्मको ऽप्युच्चैर्व्याप्य जगन्ति राजति परिच्छिन्नोऽपि यः प्राणिषु । कर्माध्यक्षतया स्थितो भवति यः साक्षी परं निर्गुणो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १८॥ द्रष्टापि स्वयमस्य यस्तु जगतः सर्वस्य नो दृश्यते मन्ता यस्तु न मन्यतेऽपि विबुधैः श्रोतापि न श्रूयते । चक्ता न स्फुटमुच्यते क्वचिदपि ज्ञातापि न ज्ञायते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १९॥ ऋग्भिर्यं मखिनो मखेषु नियताः शंसन्ति मन्त्रैः पुनः सद्रव्यैर्यजुषां यजन्ति विलसद्गानैश्च यं सामभिः । ब्रह्माद्याः किल संस्तुवन्ति यदनुध्यानादपास्तैहिका वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २०॥ योऽन्तः स्थावरजङ्गमेषु च बहिश्चोर्ध्वं विराजत्यधः कर्ता कारयिता क्रियापि च हविर्बोद्धा च बोध्यश्च यः । बोधश्च प्रभवन्त्यमन्दमतयो यद्वेदनप्रोद्यमा वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २१॥ यद्बोधाय किलाचरन्ति सुमहत् तीव्रं तपो योगिनो यागं भूपरिचङ्क्रमं निरशनं तीर्थाभिषेकं मुहुः । दानानि प्रथितानि षोडश महाराजाश्च भोगत्यजो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २२॥ केचिद्धन्यतमाः स्थिरा अपि गृहे सद्देशिकोक्त्या स्फुटं श्रुत्यन्तार्थमनन्तसौख्यगमकं भूयस्तरां जानते । गाहन्तेऽपि च पुण्यतीर्थनिकरं यस्य प्रसादात् परं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २३॥ यं ध्यायन् मनसि क्षणं गिरिजया गाढोपगूढं प्रभुं सस्कन्दं सविनायकं सुरगणाध्यक्षं महोक्षाश्रयम् । स्वाराज्यं च चराचरस्य भजते सर्गादिषु प्राभवं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २४॥ यत्पादाम्बुरुहार्चनं सविनयं स्वस्येक्षणाम्भोरुहा पद्मस्थानजुषा विधाय भगवान् नारायणस्तरक्षणात् । भक्ताग्रेसरतामवाप्य सरसीजाताक्षतामभ्यगात् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २५॥ वेदान्ता निखिला यमेव परमात्मानं समाचक्षते यत्तत्त्वावगमाय निश्चितधियो मुह्यन्ति नानागिरा । शुद्धं बुद्धमनन्तमुज्झितगुणं शंसन्ति यं चागमा वन्दे तं जलकण्ठदेवमनिशं चन्दारुचिन्तामणिम् ॥ २६॥ कोपव्याकुलितेन दारुकवने संस्थास्नुना भूसुर- व्रातेनेरितयोर्महाबलयुजोः शार्दूलमत्तेभयोः । उत्पाठ्योगमनीयतां विदधतीं यः पर्यधत्त त्वचं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २७॥ शत्रून् मारयताभिचारविधिना प्रोत्साहितो हव्यवाट् क्षोणीदेवगणैस्त्विषा दश दिशः साटोपमाहिण्डयन् । येनादाय करेण लोचनपदं निन्येऽधिफालान्तरं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २८॥ यस्यागारति काननं पितृपतेरुञ्चैर्मणीहारति ग्रीवायां फणिनां कुलं हिमकरो बालः सदापीडति । भस्मालेपति दन्तिचर्म वसनत्युक्षा महान् वाहति वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ २९॥ येनादाहि पुरत्रयं मदनवद् येनोद्धृतं चन्द्रवद् गङ्गाम्भः शिरसि प्रसर्पति तनौ यस्याहिराड् भस्मवत् । यस्य प्रीतिपदं भवत्यनुकलं नन्दीश्वरः स्कन्दवद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३०॥ शक्तिर्यस्य पुनस्त्रिलोकजननी माया परा शाम्भवी सत्यज्ञानमयीश्वरी परशिवा दुर्गाम्बिका चण्डिका । इत्याख्या बहुधा पुराणनिगमख्याता जरीजृम्भते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३१॥ यस्माज्जन्म दिवो भुवश्च सवितुश्चन्द्रस्य वह्नेर्विधे- र्विष्णोश्च त्रिदिवौकसां शतमखादीनां महातेजसाम् । सिद्धं सोम इति श्रुतिर्भगवती तत्र प्रमाणं महद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३२॥ इन्द्राग्नी यममित्रमारुतहरिब्रह्मादि मुख्यान् सुरा- नेकं यं परमामनन्ति बहुधा विप्रास्तु विज्ञानिनः । इन्द्रं मित्रमिति श्रुतिः सुमहती तत्रास्ति मानं महद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३३॥ ध्यायन्तो हृदयारविन्दकुहरे यं साधुबुद्धया जनाः पुण्यं स्वन्नमुपस्कृतं रसनया गृह्णन्ति षड्मी रसैः । अन्ये हन्त मलाशिनो गमनिका तत्रान्तरिच्छन्तिवाग् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३४॥ चण्डालोऽपि शिवेति वर्णयुगलं यद्वाचकं व्याहरन् सम्भाषासहजग्धिकार्ह इति हि ब्रूते श्रुतिर्जाग्रती । यश्चाण्डाल इति द्विजो यदि किल ब्रूयात् किमत्रोच्यतां वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३५॥ श्रीकण्ठेति वृषध्वजेति गिरिजाकान्तेति भूताधिपे- त्युग्रेति स्मरसूदनेति गिरिशेतीशेति शम्भो इति । यन्नामानि सकृत् पठन्नपि जनः प्राप्नोति मोक्षश्रियं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३६॥ पापानामधिवासभूरपि जनो यस्मिन् प्रभाभक्तिभा- गेकं वा क्षणमाशु मुक्तदुरितध्वान्तो नितान्तोज्ज्वलः । योगीव प्रतिपद्य पश्चिमदशां प्राप्नोति दिव्यं पदं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३७॥ यच्छ्रुद्धान्तसदेशसह्यतनयातीरद्रुमालोकन- ध्वस्ताशेषमहाघपञ्जरकुटीगाढावृतानां नृणाम् । तस्मिन्नेव जनुष्यतर्कितपदं ब्रह्मावबोधोत्सवो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३८॥ पादाम्भोरुहयोः सकृत्प्रणमनं यस्यादरात् कुर्वता- मष्टैश्चर्यमुदारचारुकवितासाम्राज्यमुञ्जैःपदम् । आयुष्मत्सुगुणात्मजत्वमुद्यत्यन्तेऽप्यनन्तं सुखं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ३९॥ लोकानामपकारिणे निशिचराधीशाय मूर्ध्ना दशा- प्युत्कृत्य स्वपदाम्बुजन्मयुगलीमभ्यर्चते यः पुरा । त्रैलोक्याघिपतामनन्यसदृशीं प्रादात् कृपाम्भोनिधि- र्वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४०॥ यः स्वामी कुलदैवतं द्विजनुषां यश्च स्वयं ब्राह्मणः सर्वोवम्बुधिकन्यकापरिबृढप्रष्ठेषु देवेष्वपि । त्वं देवेष्विति वेद एव गमको यस्यास्ति तत्राग्रहो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४१॥ यस्मिन् भक्तिमपास्तसर्वविषयः कृत्वा क्षणार्धं जन- श्चित्ते ध्यायति चेन्नितान्तमलिनस्वान्तोऽप्यशान्तोऽपि सः । सद्यो मुक्तसमस्तबन्धनिकरः सर्वश्रियामाकरो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४२॥ यस्यापाङ्गविलोकभङ्गिकणिकापातान्निधीनां पति- र्जातो वैश्रवणः सिताचलतटीमासेदिवानुच्चकैः । यन्नामस्मृतिलब्धतुङ्गविभवाः सर्वेऽपि दिक्पालका वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४३॥ यस्योन्मत्तजलन्धरासुरपतिप्राणापहर्तुः प्रभोः कारुण्येन विजृम्भितेन स महाविष्णुश्च चक्रायुधम् । सम्प्राप्य प्रबलोद्धतानपि दनोः पुत्रान् निहन्त्यञ्जसा वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४४॥ क्षीराम्भोनिधिमन्थनोत्थितजगन्निर्दाहिहालाहल - ज्वालालीढमुकुन्दसेवितपदद्वन्द्वः कृपाशेवधिः । यस्तादृक्षमपि क्षणेन कबलीचक्रे विषं विस्तृतं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४५॥ यस्य स्मेरललाटलोचनशिखालेशेन लग्नाः पुर- स्तिस्रोऽपि प्रथितास्त्रिलोकहननक्रीडाधुरीणा अपि । हन्त प्राहुणिकाः कृतान्तनगरीसीम्नः क्षणेनाभवन् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४६॥ गङ्गा सापि पुरा भगीरथमहीपालार्थिता सम्भ्रमा- दायान्ती सहसावलेपभरसङ्क्रान्तान्तरङ्गा भृशम् । यस्योन्नद्धजटाग्रसीम्नि पतिता कुत्रापि लीनाभवद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४७॥ मत्तोऽप्युज्झितसत्क्रियोऽपि सततं धूर्तोऽपि सम्पूरुष- द्रोहाचाररतोऽपि हन्त निधनं पित्रोस्तु कुर्वन्नपि । यल्लिङ्गक्षणसेवनेन सकलाघौधाजनो मुच्यते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ४८॥ यस्मै द्रोहममर्त्यराजवचनप्रोत्साहितो मन्मथः कर्तुं मूढमतिर्धनुष्यपि शरं व्यापारयन्नञ्जसा । सर्वेषाममृताशिनामपि पुरो भस्मावशेषोऽभवद् वन्दे तं जलकण्ठ देवमनिशं वन्दारुचिन्तामणिम् ॥ ४९॥ यल्लिङ्गे चुलुकोदकं सकृदपि क्षिप्त्वा विधिं विस्मरन् बिल्वस्यापि दलं किमप्यहह चेत् तत्र क्षिपेद् देहवान् । स प्राप्नोति पुनर्भवं नहि भुवि व्याधोऽत्र दृष्टान्ततो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५०॥ स्नानौपासनवेदशास्त्रकथिताचारप्रमत्तोऽपि वा पञ्चानामपि वासभूरपि चिरादध्यूषुषामंहसाम् । यत्र कापि च पर्यटन् यमवशात् पश्येत् यदीशत्यसौ वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५१॥ सूत्राणि प्रथिता (नि यस्य नटने ढक्को) त्थितान्यादितः संशोध्यैव चतुर्दश स्वयमुदाहार्षीन्मुनिः पाणिनिः । सूत्रैरात्मकृतैः स्फुटार्थघटनां सुप्तिपदव्याकृतिं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५२॥ (यस्या) नुग्रहलब्धभूरिमहिमा पश्यत्पदस्तापसः शास्त्रन्यायमुदाजहार सकलव्याहारसञ्जीवनम् । यत्पादाब्जयुगीनमस्कृतिबलाच्छौतीः ........। वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५३॥ दुर्वासाश्च पराशरश्च महतामाद्यो मुनिश्चाङ्गिराः कण्वोऽत्रिर्भृगुगौतमौ कुशिकजश्चान्ये (महायोगिनः) । (यद्भ) क्त्या जगदुद्भवस्थितिलयेष्वव्याहतप्रोद्यमा वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५४॥ यस्मिन्नीश्वरतामनन्यसदृशीमालोक्य सा (पार्वती) --------------भक्तिभारभरिता प्रक्षोभितापि स्फुटम् । यस्तादृग्गुणगुम्भितां च दयितामर्धं निनायात्मनो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५५॥ ........ कारुण्यामृतसारपूरितहृदश्लिष्येत् क्षणं प्राणिनि । स क्षोणीवलयेश्वरत्वमयते पा ........। बन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५६॥ कण्ठे यस्य हि कालिमा धवलिमा देहेऽपसव्ये स्वके सव्ये दीव्यति नीलिमा सुमहिमा यस्यैव मू (र्त्यष्टके) । (यन्नाम) श्रुतिमूर्ध्नि भाति तपसां सीमा सुधामा च यो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तमणिम् ॥ ५७॥ गङ्गा यस्य चिराय राजति जटाजूटे (ऽगजार्धाङ्गके सर्वाङ्गे) षु च भस्मधूलिरलिके नेत्रं ज्वलत्पिङ्गलम् । वैयाघ्रं वसनं पुनः कटितटे चर्म स्फुरत् कर्कशं वन्दे तं जलकण्ठदेवमनिशं वन्दारूचिन्तामणिम् ॥ ५८॥ ........ गमयं महः सगरिमोत्तुङ्गे कुचक्ष्माधरे मध्ये सक्रशिमोल्लसत्तरुणिम स्वाङ्गेषु सर्वेष्वपि । गात्रे नीलिमशालि चा ........ लोचने वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ५९॥ यस्य स्वात्मजयोर्द्वयोर्गजमुखः कश्चित् पुनः षण्मुखः कश्चिद् गृह्यसमस्तसाधनचणो वन्दी ........ ........ यस्य वधूटिकाकटुगणोदन्तं निशान्तं पुन- र्वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६०॥ यल्लिङ्गं निखिलागमस्मृतिपुराणाद्येषु शास्त्रेषु च ........ चतु)र्भुजमुखप्रष्ठैः समाराधितम् । दृष्ट्वा दैववशात् प्रदोषसमये जन्तुर्भवान्मुच्यते वन्दे तं जलकण्ठदेवमनिशं वन्दारु चिन्तामणिम् ॥ ६१॥ कृत्याकृत्यविवेच ........ न्नाभकः पूजाविघ्नविधायिनं जनकमप्याहिण्ड्य चण्डः क्रुधा । यलिङ्गर्चनपुण्यराशिवशतश्चण्डेशतामा (प्तवान्) वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६२॥ कश्चिद्बालकदारकः स्वभवनप्राप्तातिथिप्रीणनो मध्याह्नेऽतिथिरूपिणः स जरठाकारस्य यस्याज्ञया । ....... जनुषं हा हन्त माहात्म्य भू- र्वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६३॥ कुन्तीसूनुषु मध्यमेन सतपश्चर्येण सन्ताडितः कोदण्डेन वराहपोषणकृता मध्येशिरो ....... ....... बलोपलालितमनाः प्रीत्या शमस्मै ददौ वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६४॥ आखेटव्यसनाकुलो वनचरो भ्रान्त्वा दिनान्ते मुहुः श्रान्तः सा ....... बिल्वस्य यं मूलगम् । अभ्यर्च्यास्य शिफं गतो विलुलितैः पत्रैर्विमुक्तिं गतो वन्दे तं जलकण्डदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६५॥ यन्मूर्तिं ....... मपि ध्यायन् जडोऽप्युच्चकै- र्वाचामोश्वरतामवाप्य सकलग्रन्थार्थनिर्णायकः । प्रख्यातं लभते परावर ....... वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६६॥ सौन्दर्यैकपरायणं मनसिजस्यैकान्तसञ्जीवनं वेधाः कामपि सुन्दरीं सुरकृते सृष्ट्वा च दृष्ट्वा च ताम् । यव्धुं तादृगनुद्रवन्मृगमयीं येनाशिराः कल्पितो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६७॥ यस्योद्यञ्चतुरर्णवीजलमभूत् कण्ठोपकण्ठं गतं भूयः कुक्षिगतावनाय पिबता तद्येन कण्ठे कृतम् । इत्यादीन् जलकण्ठतां प्रति बुधा हेतून् समाचक्षते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६८॥ आयन्तं हरिसेवनाय विलसद्रुद्राक्षभस्माङ्गकं पश्यद्भिः स्वमथालयं सुघटितद्वारं जडैस्तान्त्रिकैः । यद्धयानाद् विदधे क्षणेन विवृतद्वारं मुनिः कुम्भजो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ६९॥ स्वां पत्नीमसुरालिपालनपरां निघ्नन्तमप्यच्युतं दूरादेव समागतो भृगुमुनिर्भक्तेषु यस्योत्तमः । मर्त्यत्वं प्रतिपद्य दारविरही भूया इति प्राशपद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७०॥ क्षुभ्यत्तुङ्गतरङ्गसङ्घतटिनीसङ्घातसङ्घट्टितं पाथोधिं यमयाञ्चकार सहितं सङ्घैर्महायादसाम् । रामो ब्रह्मचतुर्भुजादिदिविषद्वन्द्यस्य यस्य स्मृते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७१॥ यत्कारुण्यकटाक्षवीक्षणबलावष्टम्भवैयात्यत- श्चक्रे सत्यवतीसुतः श्रुतिशिरःसूत्राणि मोक्षार्थिनाम् । आनन्दाय निरस्तसर्वविषयानन्दाय निर्यत्नतो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७२॥ ज्योतिःशास्त्रनितान्तरूढनिखिलादृष्टार्थनिर्णायक- ग्रन्थव्याकृतिकृद् वराहमिहिरः ख्यातो यदाराधनात् । अन्ये केचिदतीन्द्रियार्थगमकप्रज्ञाः परज्ञानिनो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७३॥ यः संसारदवे दुरन्तविषयप्पोषोन्नते भ्रश्यता - मुद्धाराय समेत्य शङ्करपदं वैयासिकीनां गिराम् । भाप्यं जीवपरैक्यबोधजनकं शारीरकं निर्ममे वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७४॥ आम्नायत्रितयं यतः श्वसितवत् प्रादुर्बभूव स्फुटं सर्वार्थप्रतिपादकं द्विजकुलाचारप्रतिष्ठापकम् । विप्रान् यः स्वयमेव देशिकपदे स्थित्वा तदध्यापयद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७५॥ क्रोधाद् यस्य सतीवियोगकलुषस्वान्तस्य रौद्राकृति- र्भूत्वा मङ्क्षु कपर्दतः कटुतरः श्रीवीरभद्रः पुरा । दृप्यद्दीक्षितदक्षशिक्षणमधादूर्ध्वं सुरध्वंसनाद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७६॥ यस्याज्ञावशगः क्रुधान्धहृदयः कापालिको भैरवः क्षीराम्भोनिधिमध्यसीम्नि फणिराडुत्तुङ्गमञ्चेशयम् । सम्बोध्य स्वपदाभिघातकशया विष्णुं व्यधादाहतं बन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७७॥ सौरं मण्डलमास्थितस्य महतो देवस्य यस्य त्विषा गोपाद्यानि जगन्ति गाढतमसा बद्धानि बुद्धानि च । सम्पश्यन्ति समस्तवस्तुवितति विभ्रंशितां तत्त्वतो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७८॥ यः सव्यादुदपादयन्निजतनोरंशात् सरोजेक्षणं सृष्ट्यादौ कमलासनं सवनितं देवोऽपसव्यादपि । पश्चादेव चराचरात्मकमिदं रोम्णां गणेभ्यो जगद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ७९॥ यश्चोङ्कारमयः कखप्रभृतयो वर्णाः स्वराः षोडशा- प्यासन् यत्कलया परादिमगिरां जन्मापि यस्मादभूत् । नादो बिन्दुरपि प्रभूतममलं सारस्वतं यन्मयं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८०॥ भूतानामपि पञ्चकं यदुदयं वायू रविश्चन्द्रमा वह्निर्जिष्णुरिमे चरन्ति परितो यस्माद् भिया रोदसि (? सी) । मृत्युर्वृत्तिमशेषमारणचणामाशिश्रिये यद्गिरा वन्दे तं जलकण्ठदेवमनिश वन्दारु चिन्तामणिम् ॥ ८१॥ ख्यातं ब्रह्महणोऽपि निष्कृतिपदं यन्नामसङ्कीर्तनं यल्लिङ्गार्चनतः पदं विधिहरी सृष्टिस्थितीशङ्गतौ । यद्भक्त्या मुनिराचचाम कलशीजन्मा महाम्भोनिधिं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८२॥ प्राप्ते वैदिकवैरिणा चिरतरं वादे स्वपित्रा समं त्रैलोक्ये मिषति प्रतप्तकठिनां कार्प्णायसीं पीठिकाम् । आरूढे हरदत्तयोगिनि कृपामाधत्त यस्तादृशीं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८३॥ त्रैलोक्यद्रुहि राक्षसे दशमुखे स्वावासरूप्याचलो- त्क्षेपव्यग्रभुजेऽपि सामवचनैरुच्चैरभिष्टोतरि । यः कारुण्यभरं गिरामविषयं गाढं निचिक्षेप यो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८४॥ तादृग्दुर्गतिदुःखिते दशरथापत्ये वनाभ्यन्तरे प्रादुर्भूय पुरः स्वयं परुवके रत्नं यथाढ्यो भुवि । यः प्रीत्या निधे तथा मनुवरं पञ्चाक्षरं शङ्करं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८५॥ कोदण्डं कनकाचलः शरवरः श्रीशः फणीन्द्रो गुणः सूतः पङ्कजसम्भवः शशिरवी चक्रे रथः काश्यपी । युद्धे यस्य पुरां तथापि हनने मन्दस्मितं कारणं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८६॥ न्यग्रोधद्रुममूलभूम्नि वसतिः श्रीदक्षिणाशामुखः सव्यं जानु तदन्यसक्थिनि चिरं विन्यस्य चिन्मुद्रया । मौनी बोधयति स्म यस्तु यमिनां तत्त्वं पदार्थं स्फुटं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८७॥ यः सद्यस्तनदिव्यसौरमसुधासारेण देवद्रुहां साहित्यस्य चिकीर्षयैव महिलाकारे हरौ कामुकः । शास्तारं समजीजनत् खलततौ वोढारमन्वर्थतां वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८८॥ रुद्रप्रश्नविशिष्टवाक्यसमुदायाद्यन्तवर्ती नमः- शब्दः सर्व उदारदिव्यमहिमश्लाघानिबद्धाशयः । शान्ताकाङ्क्षमनन्यदेवसदृशे यस्मिन् परं श्लिप्यते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ८९॥ यत्पूजाविधिमाचचार नयनाम्भोजेन नारायणः शूलोद्भिन्नललाटनिर्यदसृजा यस्मै वितेने बलिम् । भिक्षादानकृते स्वकं कमलभूर्यस्मैक कपालं ददौ वन्दे तं जलकण्ठदेवमनिशं वन्दारु चिन्तामणिम् ॥ ९०॥ सप्तानां यमिनां मतेन तुहिनक्षोणीधरो बन्धुभिः सार्धं मेनकया तथा दयितया पत्नायुतैर्दैवतैः । यस्मै स्वां प्रणयिनीं सम्मन्त्र्य चार्धांशगां वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९१॥ यस्याभून्नयनत्रयं भगवतो ज्योतिस्त्रयं भास्वरं कल्पे फालगताक्षिकोणविलसज्ज्वालोत्थकालानलः । यः कारुण्यरसार्द्रदृष्टिकणिकोदञ्चद्रमावाक्पति- वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९२॥ जाग्रत्स्वप्नसुषुप्तिषु प्रतिदिनावस्थासु येनैकता- मात्मानं प्रणयन्ति सन्ततमहम्ब्रह्मास्मिवाचा बुधाः । प्रत्यक्षं भवसि त्वमेव परमब्रह्मति यच्छ्रयसे वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९३॥ यत्र स्निह्यति मे मनः श्रुतियुगं शुश्रूषते यत्कथां यद्धामैव दिदृक्षतेऽक्षियुगलं जिह्वा च तुष्टूषते । त्वग् घ्राणं परिरम्भणाय समवघ्राणाय यस्येहते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९४॥ कर्मब्रह्मपदार्थशब्दविवृतिः प्रख्यापिता जैमिनि - व्यासोदारकणादपाणिनिमुखैराचार्यवर्यैः परम् । तेषां तत्कवनप्रचोदकपरिज्ञानं तु यन्मूलकं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९५॥ वेदाश्च स्मृतयश्च यस्य नयनान्यासन् पुराणागमा ब्रह्माण्डैकनिकेतनस्य हृदयं सर्वाणि शास्त्राणि तु । उच्चैर्व्याप्य चतुर्दशापि भुवनान्यातस्थिवांसं प्रभुं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९६॥ उच्चैर्देशिकतामवाप्य सुमहान् देवोऽर्धनारीप्रभुः शिष्याणां कृतिनां श्रुतिस्मृतिपुराणार्थोपदेशेषु यः । चिन्मुद्राः करपङ्कजेऽप्यभिनयन् विद्योतते सर्वतो वन्दे तं जलकण्ठदेवमनिशं वन्दारूचिन्तामणिम् ॥ ९७॥ प्राचार्यो गुरुदेशिकाविति महोपाध्याय आचार्य इ- त्युत्कृष्टो जनकः पितेति परमो मन्त्रोपदेष्टेति च । यः संज्ञापदभेदतो हि बहुधा निर्दिश्यते पण्डितै- र्वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९८॥ नानाशास्त्रपरिश्रमादपि बहुग्रन्थालिवन्याभ्रमात् संसारार्णवमज्जनादपि वधूपुत्रादिदुष्टाग्रहात् । निर्विण्णस्य विमुक्तये ह्युनदिशत्यन्ते य ओमक्षरं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ९९॥ भक्तानां समये कदाचन (पठेत?)श्वासावधौ सन्निधिः प्रैषोदाहरणं शिवेति वचनं स्वस्य स्मृतिं वा हृदि । यः स्वामी घटयत्ययत्नमुदयत्कारुण्यपूरोर्मिलो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १००॥ शुद्धं बुद्धमबद्धमव्ययमजं दान्तं प्रशान्तं महः कान्तं सन्ततमन्तकारिमनधोदन्तं महान्तं परम् । नित्यं निर्मलमेकमाद्यमजडं सत्यावबोधात्मकं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १०१॥ दुःखार्तेषु दयावता नतिकृतामानन्दवेणीकृता प्रालेयाचलकन्यया विहरता चान्द्रीं कलां बिभ्रता । भस्मोद्धूलयता जगन्ति वहता येनात्तनाथा वयं वन्दे तं जलकण्ठदेवमनिशं वन्दारूचिन्तामणिम् ॥ १०२॥ ध्येयो यस्तु मुमुक्षुभिश्चिरतरं चित्ते निरस्तैषणै- र्वन्द्यो भास्करमण्डले प्रविलसन्मूर्तिः फलार्थे च यः । यः सर्वैरभिनन्द्यते मुनिगणैः श्रीदक्षिणाशामुखो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १०३॥ नान्तो यस्य न जन्म चास्ति न पिता माता च न भ्रातरो नो सन्ति क्वचन स्वसार उत न स्निग्धाश्च नो बान्धवाः । किंत्वेका दयितास्ति सर्वफलसन्धात्री वपुर्हारिणी वन्दे तं जलकण्ठदेवमनिशं वन्दारु चिन्तामणिम् ॥ १०४॥ आपो गन्धवहो विहायसमणिर्वैश्वानरश्चन्द्रमा यज्वा भूमिरनन्तमित्यतितरामाम्नातभिन्नाभिधा । यन्मूर्तिः पुनरेकिकापि जगति प्रख्यातिमेत्यष्टधा वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १०५॥ अन्विष्टे निखिलेऽपि वेदनिचये कुत्रापि न श्रूयते यस्योत्पत्तिकथाथवा लयकथा साम्बस्य सर्वात्मनः । तत्तादृक्षमनादिमध्यनिधनं तापत्रयध्वंसिनं वन्दे तं जलकण्ठदेव मनिशं वन्दारुचिन्तामणिम् ॥ १०६॥ रुद्राक्षान् दधतं त्रिपुण्ड्रविलसत्फालं जटामण्डल- श्लिप्यद्देवतरङ्गिणीशशिकलाचक्षुःश्रवोवल्लभम् । उन्मत्तप्रसवावतंसमुदयन्मन्दस्मितालङ्कृतं वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १०७॥ भक्ताद् यस्य बिभेति मृत्युरिह यत्तत्प्रीतदेवायनं मार्कण्डेयमुनिं विकृष्य यदनुध्यानैकवद्धाशयम् । कुप्यत्स्वामिपदाभिघातविदलद्वक्षःस्थलः प्रागभूद् वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १०८॥ कावेरीपुरि सह्यजातटभुवि प्राकारतः पूर्वतः स्वामी कुम्भभवेन यः खलु पुरा संस्थापितः प्राक्तनः । तत्रत्यानवनीसुरानवनिपानन्यांश्च रक्षत्यसौ वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १०९॥ यः श्रीदोड्डयभूमहेन्द्रहृदयं प्राविश्य सम्बोध्य च त्रायस्व द्विजसङ्घमित्यतितरामाकारयित्वा च तम् । तत् तत्सेवनकैतवादनुदिनं कालद्वये त्रायते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ११०॥ यस्याभूत् तुहिनाचलेन्द्रतनया सा पार्वती वल्लभा योगक्षेमविचारणेऽतिनिपुणा तस्याः सखी साजा । नन्दी मन्त्रिवरः प्रभुः प्रतिदिनं छात्रः स दोड्डेश्वरो वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ १११॥ यस्य स्तोत्रमिदं पठन् विरचितं श्रुत्यर्थसन्दानितं मुक्त्यर्थं शिवरामकृष्णसुधिया दोड्डेश्वरानुज्ञया । चाग्देवीमधिकां श्रियं च लभते विद्वज्जनैर्वन्द्यते वन्दे तं जलकण्ठदेवमनिशं वन्दारुचिन्तामणिम् ॥ ११२॥ हृद्यान् द्वादशसंयुतं शतमपि । (further portions of the manuscript lost) इति शिवरामकृष्णविरचितं जलकण्ठेश्वरशतकं सम्पूर्णम् । Note: This stotra is on Bhagwan Shiva jalakaNTheshvara at kAveripaTTanam, near Vellore, TN written by Sivaramakrishna, at the bidding of the local ruler doDDeshvara. Lacunae have been noticed in the verses 52 to 66. Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Shivaramakrishnasudhikritam Jalakantheshvara Shatakam
% File name             : shivarAmakRRiShNasudhIkRRitaMjalakaNTheshvarashatakam.itx
% itxtitle              : jalakaNTheshvarashatakam (shivarAmakRiShNasudhIkRitam)
% engtitle              : shivarAmakRiShNasudhIkRitaM jalakaNTheshvarashatakam
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shivaramakrishna Sudhi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 32 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org