शिवरहस्यद्वादशांशान् पाठमहिमा

शिवरहस्यद्वादशांशान् पाठमहिमा

- शिवरहस्ये जैगीषव्यस्कन्दसंवादे - जगाद जगतां गुरुस्रिजगतां जनित्रीं मुदा जगत्त्रितयजन्तुहृत्त्रिविधतापदुःखापहम् । जडाजडगतस्थितिप्रलयभावभावं भवं विशोषयदिदम्सुहुश्शिवरहस्यरत्नांशुमान् ॥ ६५॥ तदेव भवतां वदे भवदवाग्निसंशोषकं विधुन्तुदमुखोत्थितप्रकटसोमधामप्रभम् । विकासितदिशामुखप्रथितपाण्डिमानोपमं सुधामपि बुधाः परं हवनवक्त्रहव्याशनाः ॥ ६६॥ विधूय सुरलोकगाः परिपठन्ति शम्भोः कथामथजननाथ ते प्रमथनाथ नाथोऽस्म्यहम् । गिरीन्द्रवरकन्यकाहृदयनाथ पादाम्बुजं मनोरथपथातिगं प्रथय भक्तिभावं त्वयि ॥ ६७॥ क्षमारथरथाङ्गकस्स्फुटसुपाणिबाणासनो हिरण्यनगकार्मुकस्सकलविश्वनाथाधुना । स एव सुखसम्पदान्निधिरपारपुण्यास्पदस्स एव सुकृती सदा यजति वेदमध्येति च ॥ ६८॥ स दाननिचयार्जितप्रभवधर्मसाराधिकस्स उत्तमससागरावसन उर्वरादानकृत् । क्षणार्द्धमधिकादरश्शिवरहस्यधर्मश्वास्स एव गणनायकश्शिवपदाब्जयुग्मार्चकः ॥ ६९॥ सुरासुरचराचरप्रभवनाशरक्षाक्रमैः नवायुतरणाङ्कणप्रभवयुद्धदुःखोद्भवैः । श्रमैकरसधूर्गतैर्विविधवर्णधरमाश्रमैः कथाभिरिह नश्वरं न भवति श्रुतीशेखरम् ॥ ७०॥ तषाद्रिरभिखण्डनैः किमिह लभ्यते तण्डुलस्तथा शिवकथां विना न हि शमाय जन्तोर्मनः । शैवानन्दरहस्यसागरमहाद्वीपोपमा द्वादाशास्ते चांशाः खलु शङ्करेण विहिता नामानि तेषां वदे ॥ ७१॥ माहेशः प्रथमस्ततोऽपि हि भवो हारश्चतुर्थेश्शिवोभर्गः शङ्कर उग्रो भीमसदाशिवेश्वरमहादेवेशसञ्ज्ञा क्रमात् । ग्रन्थैः पद्यमहाघमौलिभिदुरैर्वेदान्तसारातिगैः शब्दैस्सुन्दरवाग्विलासमधुरैरध्यायवृन्दैश्शिवः ॥ ७२॥ साहस्रैश्च शतैस्सहस्रकिरणाकाररैस्तथा शङ्करो दिग्लोकामरब्रह्मवेदऋतुभिर्दिङ्नगतस्सङ्ख्यया । मद्वक्त्रामलनीलनीरजसमं नेत्रक्रमं शङ्कर- स्यास्याक्षिक्रमशोसुनिक्रममयो देव्यै शिवेनाकथि ॥ ७३॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवरहस्यद्वादशांशान् पाठमहिमा ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ११ - जैगीषव्यस्कन्दसंवादे द्वादशांशसङ्ख्याकथनम् । ६५-७३॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 11 - jaigIShavyaskandasaMvAde dvAdashAMshasankhyAkathanam . 65-73.. Notes: Skanda स्कन्द advises Jaigīṣavya जैगीषव्य about the merits of reading/studying the Text of the Śiva-Rahasyam शिवरहस्यम् that comprises of Twelve Sections - Dvādaśāṁśa द्वादशांश. He informs him about the Dvādaśāṁśa द्वादशांश being named sequentially as Māheśaḥ माहेशः, Bhavaḥ भवः, Haraḥ हरः, Śivaḥ शिवः, Bhargaḥ भर्गः, Śaṅkaraḥ शङ्करः, Ugraḥ उग्रः, Bhīmaḥ भीमः, Sadāśivaḥ सदाशिवः, Īśvara ईश्वर, Mahādevaḥ महादेवः and Īśaḥ ईशः. Encoded and proofread by Ruma Dewan
% Text title            : Shivarahasyadvadashamshan Pathamahima
% File name             : shivarahasyadvAdashAMshAnpAThamahimA.itx
% itxtitle              : shivarahasyadvAdashAMshAnpAThamahimA (shivarahasyAntargatA)
% engtitle              : shivarahasyadvAdashAMshAnpAThamahimA
% Category              : shiva, shivarahasya, dvAdasha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 11 - jaigIShavyaskandasaMvAde dvAdashAMshasaNkhyAkathanam | 65-73||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org