श्रीशिवशतकम् १

श्रीशिवशतकम् १

शिवं गौरीश्लिष्टं सुरविटपिमूलस्थितमहं सुवर्णाभं पद्मासनसहितमर्धेन्दुशिरसम् । कुठारत्रासानुग्रहवरगदालङ्कृतकरं त्रिणेत्रं संसेवे गुहगजमुखोत्सङ्गमनिशम् ॥ १॥ मनोभूसन्दोहादपि सुवपुषं मन्दहसित- प्रभास्तोमस्थेमद्विगुणितमुखाम्भोजसुषमम् । वृषारूढं प्रौढामरनिकरकोटीरविलस- त्पदद्वन्द्वं सेवे परमशिवमार्यासहचरम् ॥ २॥ शिवं शाणोल्लीढस्फटिकमणिशोभं शशिकला- शुभोत्तंसं हंसादृतपदयुगं श्यामलगलम् । उमाश्यामार्धाङ्गं भुजगपतिभूषं सुवपुषं जटाजूटक्रोडभ्रमदमरगङ्गं शुभवृषम् ॥ ३॥ निरीहं निर्मायं निरवधिसुखं निर्मलतरं निरासङ्गं नीरागनियमिनिषेव्यं निरुपमम् । निरातङ्कं नित्यं निखिलगुणनिर्मुक्तमगदं निराधारं नीडं निखिलजगतां तद्भज मनः ॥ ४॥ तव स्तोतुं शम्भो गुणमगणनीयं सुरगणाः स्वतोभातश्रुत्याद्यखिलवचनार्था न कृतिनः । ममास्मिन्नज्ञस्याधिकृतिरहह क्वाच्युतसरो- भवापत्याभ्यामप्यविदितपदाम्भोजमकुट ॥ ५॥ तथापि त्वां स्तोतुं सपदि यतते शर्व रसना मदीया नेदीयस्सरसिरुहजन्मप्रणयिनीम् । प्रसाद्य प्राग्जन्माचरितसुकृतालेपसरसां निरासाय त्रासाद्यखिलविपदां मृत्युविजयिन् ॥ ६॥ कथं ते वाग्गुम्भः कथमपि च वाणीचरणयोः प्रसादः प्राचीनव्रतिजनतपोराशिसुलभः । भवेदित्थं प्रश्नस्तव यदि वदाम्युत्तरमहं भवत्पादद्वन्द्वस्मरणमघहारिन् हृदि न किम् ॥ ७॥ तव भ्रान्ता जन्मान्तरकृतसरूपोदयजुषः- प्रगल्भन्ते शम्भो परमसुखसाम्राज्यविमुखाः । न विज्ञातुं द्रष्टुं भुवि कथयितुं श्रोतुमपि वा जनाः सर्वे यत्किञ्चिदपि महिमाम्भोनिधिकणम् ॥ ८॥ अविद्यावैशद्यप्रकटनपराभूतमतयो विरिञ्चादीनञ्चन्त्यहह शिव सृष्ट्या त्वयि विभो । प्रपञ्चान् किञ्चित्त्वां स्मरणपदवीं चापि न जडा नयन्ति त्वां हित्वा तरतु भवमेषां कथय कः ॥ ९॥ न जानेऽहं शम्भो सकृदपि भवन्तं श्रुतिगिरा- मभूमिं संसारभ्रमणविधिना मोहितमनाः । अथाप्यद्यास्तिक्यं मम बहु समीक्ष्य प्रभुमणे प्रसीद क्षिप्रं मे निरवधिककारुण्यनिलय ॥ १०॥ स्वकर्माद्यैः शम्भो दुरवगमतामर्थमनसां नराणां सर्वेषां शिव तव निशम्यैव यतयः । निरासङ्गास्तुङ्गं श्रुतिशिखरिणां श‍ृङ्गमभितो गवेषन्ते त्वां ते कलुषधिषणोऽहं भुवि कियान् ॥ ११॥ कथञ्चित् कामारे कलुषमतयः केचन विभो विभूतीर्भावत्का विधिशतमखाद्या मृतिजुषः । उपास्यैव प्रायः शिथिलितमहामोहकणिका भवन्तं वेदान्ताध्वनि समधिगन्तुं सुकुशलाः ॥ १२॥ पुरारे कर्माणि प्रतिजनि शतं प्राकृतजनाः- श्रमात् कारङ्कारं कथमपि भुवश्चादिवमिमे । समुद्गम्यापत्याथ भुवमपि वा क्लेशजलधौ निमज्जन्ति त्यागात्तव पदसमालम्बनविधेः ॥ १३॥ त्वदानन्दं लब्धुं त्रिपुरहर कर्माधदिममिदं (धिकमिदं) निदानं तज्ज्ञात्वासुकरमिति सर्वेऽपि विजहुः । बहुश्रद्धाभक्तिद्रविणविरहात्तेऽपि भवतः पदाम्भोजं स्मृत्वा सकृदिह सुखं भूरि दधते ॥ १४॥ निषिद्धस्य ज्ञानं भवति विहितस्यापि च न हि श्रुतिस्मृत्यज्ञानान्मम पुनरपीषत् पशुपते । कथं तत्र श्रद्धा यतनमपि वा प्रत्युत कृति- र्घटिष्यत्यत्यन्तं शरणमहह त्वं जडमतेः ॥ १५॥ पुलिन्दः किं विद्वानुत विहितकर्माचरणवा- नुतस्विद्वेदादिप्रकटितनिषेधादुपरतः । स तावद्भक्तानां प्रथमपदवीं त्वत्करुणया प्रणीतस्तस्मादप्यहमिह भवन्तं शिव भजे ॥ १६॥ कलाहीनं दीनं कलुषहृदयं कामसचिवं शशाङ्कं निःशङ्कं शिरसि च परं गूढवपुषम् । विधत्से यत्तस्मादविहितविधानप्रणयिनो ममापीश श्रीशस्तुत शरणमेकः पशुपते ॥ १७॥ यया लोकाः शोकाद्यखिलभवपीडापरिभवं सहन्तो विभ्रान्ताः पुनरपि पुनः फल्गुविषये । रसभ्रान्त्या श्वानो विगतरुधिरक्रव्यशकले विमुह्यन्तीवास्थिन्यहह हर मायां पशुपते ॥ २८॥ प्रसीद त्वं प्राह्वेतनतपनभानुव्यतिकर- स्फुटाम्भोजौपम्यं वहति हृदये मे पशुपते । यथा रूढं नान्यद्भवति भवदङ्घ्र्यम्बुजमृते तथा धूतद्वैतप्रचुरतरदुर्वासनमिह ॥ १९॥ निरासङ्गेऽद्वैते त्वयि विरचितं शङ्कर विभा- वनीशैर्ब्रह्माद्यैर्जगदखिलमारोप्य कुधिया । महास्वप्ने सृष्ट्वा भुजगमिव भीत्याद्यनुभवाः प्रलभ्यन्ते लोकैर्हृदयगतदुर्वासनतया ॥ २०॥ दुरालोकं लोकैरविकलहृषीकैर्नियमिभिः कियान् द्रष्टुं श्रोतुं कथयितुमहं शङ्कर विभो । भवन्तं पीयूषद्युतिममरपीतं च पुनर- प्युदीतं को वान्यो रसयितुमधीशोऽत्र सकलम् ॥ २१॥ मृकण्डोः सत्पुत्रं चरमसमयत्रस्तमनसं- कृतान्ताज्ञाचीटीं शिरसि विदधानैः पटुभटैः । द्रुतं संरक्ष्यान्यानवितुमिव भूयोऽपि चरणं समुद्यम्याद्यापि प्रहतशमनं भर्ग जयसि ॥ २२॥ सुधादिभ्यः शम्भो रुचिरतरमाम्नायजलधेः समुत्पन्नं नामामृतमखिलपेयं तव विभो । पुरारे कालारे कुसुमविशिखारे नियमिनः पिबन्त्युर्व्यां भावज्वरभरनिरासप्रणयिनः ॥ २३॥ महामूढः किं वा विगलति दृगादीन्द्रियगणे कफाविद्धे कण्ठे चरमपवने चोज्जिगमिषौ । वपुःक्लेशे सत्यप्यहह गहने चाप्यवसरे करिष्यत्यद्यैव व्रजतु शरणं भर्गचरणम् ॥ २४॥ सुराणां प्राथम्यं वहसि यदनङ्गाहित विभो ततस्ते दुग्धाब्धेः प्रथमभवमस्तु ध्रुवमिति । करालं सद्योऽपाययदसुरहन्ता स भगवान् महाश्वेलं तापग्लपितनिखिलस्वान्तकमलम् ॥ २५॥ शिवत्वात्ते शम्भो भवदुपनतानामशिवता कुतः सर्वज्ञत्वादपि कुश(कृश)तराज्ञानमपि वा । मृडत्वाच्चासौख्यं शमनशमनत्वाच्च शमनात् भयं दारिद्र्यं वा धनपतिसखत्वाच्च भगवन् ॥ २६॥ त्वदाख्यायामुग्र स्मृतिमुपगतायां विषमही- रुहोंऽहस्सङ्घाख्यः सपदि परितो म्लायतितराम् । गलाग्रं श्लिष्यन्त्यां ज्वलति सममामूलमचिरात् रसज्ञां प्राप्तायामपि भुवि नृणां शाम्यतितराम् ॥ २७॥ मया ते यत्किञ्चित् कृतमपि सपर्यादिकरणं बहु ज्ञात्वा विप्रब्रुवमिममवाद्यैव कृपया । कुबेरस्निग्ध त्वं किमवसि न च स्माऽऽस्यगलितं फलं तोयं धृत्वा शिरसि च पुलिन्दं वनभुवि ॥ २८॥ महत्त्वं कीदृक् ते मदनमथन क्षोणिपतयो धनाद्यं यत् किञ्चित् शतधृतिमहेन्द्रप्रभृतयः । पदं स्वीयं शम्भो भवदुपकृतास्त्वच्चरणयोः कृतासङ्गाः सन्तः सपदि ददते मुक्तिमपि ते ॥ २९॥ क्रियासु श्रौतीषु स्मृतिसमुदितासु त्वदभिधां गृणन्तः सेवन्ते शतधृतिपदं च प्रतिपदम् । समुद्यद्वैकल्यक्षपणविधिहेतोः शिव विभो किमु त्वत्सायुज्यं सपदि भगवन्नाम भजतः ॥ ३०॥ दुराशान्धो जीवो जठरतलमन्धोरिव विशन् महामोहाख्यस्य भ्रमति नतबन्धो यमरिपो । परिक्रन्दन्नित्याः सपदि भवतो नैव करुणा भवेच्चेल्लोकोऽयं तरतु कथमार्तीः सुमहतीः ॥ ३१॥ यदालम्बादम्बा त्रिभिरपि गुणैः स्थावरचरं प्रपञ्चं सृष्ट्वास्मिन् पशुसुतकलत्रादिवशताम् । प्रणीय प्रायस्तद्विषयगतदुःखानुभवतो मनुष्यादीन् जन्तून् ग्लपयति स मेऽस्त्वत्र शरणम् ॥ ३२॥ गिरीश स्वामिंस्ते त्रिगुणगुणिते दामनि महाऽ- विवेकाख्ये बद्धाः पशव इव मर्त्याश्च विषयान् । तृणस्तम्बान् भुक्त्वा जहति सुखमात्यन्तिकमहो प्रमत्ता आयत्ताः कुधनमदिरोन्मत्तमनसाम् ॥ ३३॥ हृषीकाणि प्रायो विषयवशगानि प्रतिपदं विधाय स्वान्तस्स्थं गिरिश मृगयन्ते जडधियः । बहिस्त्वामज्ञानस्तबकितमहामोहतिमिराः समन्तादालम्ब्य त्वहह गलचामीकरनयम् ॥ ३४॥ इदं जन्म ब्राह्मं कथमपि समासाद्य भगवन् महामोहैरेव व्यवहितमनाः पश्चिमदिने । भवान् ध्येयो मत्वेत्यनुपदमसून् मुञ्चति जनः कदा वा सन्तीर्णो भवति भवसिन्धुर्जनिमता ॥ ३५॥ त्वदाविर्भावेन त्रिपुरमथन स्वान्तविषये जरीजृम्भन्तेऽमी शममुखगुणाः सम्प्रति सताम् । विभो शम्भो कामप्रभृतिरिपवो धिक्कृतबलाः पलायन्ते चिन्ताद्यखिलपरिवारैः क्वचिदिमे ॥ ३६॥ पिशाचोऽहङ्कारो हृदयतरुमासाद्य ममता- पिशाचीसंश्लिष्टो विषयरुधिरान्मोहनिशि च । निपीयेमं जीवं जनिषु बहुधाद्यापि कलयन् त्वयि प्राप्ते चित्तं त्रिपुरहर धावत्यहह सः ॥ ३७॥ प्रसादात्ते सत्त्वः प्रभवति गुणः शङ्कर भव- त्यनेनास्मिञ्जीवः कथमपि विमुक्तः पशुपते । अविद्याकाराया विगलितसमीहाख्यनिगलो हृषीकैः स स्वान्तैरमृतविषयस्तोमकबलः ॥ ३८॥ विधिर्वा शक्रो वा विविधमपि भाग्यं दिशतु मे महारोग्यं वान्तःकरणगतमोहस्तु भवता । महादेव क्षय्यस्तिमिरनिकरस्तिग्ममहसा निवार्यो निश्शेषं पिहितशशिनक्षत्रमहसा ॥ ३९॥ पुरारे कालारे कुसुमविशिखारे त्वदितरे सुराः सर्वे स्वर्वासिन इह समुद्धर्तुमधिनम् । यदीत्थं जायन्ते तदिदममितध्वान्तहरणं कुहूरात्र्या खद्योतकिरणसहस्त्रैः प्रसृमरैः ॥ ४०॥ महेश त्र्यक्ष त्वच्चरणशरणा वीक्षणकणैः कृपासान्द्रैरिच्छां प्रणतजनतायाः फलवतीम् । प्रकुर्वाणाः स्रष्टुत्त्रिभुवनपतेर्जङ्गजयिनो महीपालस्यापि प्रतिभटपटुत्वं विदधते ॥ ४१॥ अभिव्याप्य त्रैलोक्यमपि वसतस्ते शिव विभो शिरो धाता द्रष्टुं कथमपि समारुह्य भगवन् । दिवं क्षीणाटोपोऽरहयदलघुत्वं हि तरसा कुतो वाहङ्कारी न भजति पराभूतिमधिकात् ॥ ४२॥ पुरस्तिस्रो लक्ष्यं शरधिरुदधिर्माधव इषु- र्महामेरुश्चापः क्षितिरपि रथः सारथिरभूत् । विधिर्वेदव्यूहो हयवरसमूहः स भगवान् पिनाकी मे भूयात् सपदि विपदां भङ्गविधये ॥ ४३॥ पदान्ते शोभन्ते परिणतशुभानां पशुपते किरीटानि ब्रह्माद्यखिलसुमनोबाहुजनुषाम् । विपद्भङ्गायैव ह्ययमपि तवाग्रे शरणमि- त्यजस्रं साष्टाङ्गं सदय शतकृत्वः प्रणमति ॥ ४४॥ स्मितं ते नीहाराचलपरसुतानायक विभो शरज्योत्स्नापूरप्रसृमरमहापाण्डिमसमम् । अहो सन्तापघ्नं शिशिरतरमेकान्तमनसां कथं वाभ्रव्यापि त्रिपुरमदहत् क्षिप्रमहह ॥ ४५॥ विना यं वा लोको गुणिनमवनीपं स च शची- पतिं हस्तोदस्तस्वरुमपि विना सोऽपि च विना । विधिं दैत्यत्रासापनयघटकं सोऽपि न लसे- द्विना त्वामीशानाखिलभुवनजन्मादिकरणे ॥ ४६॥ चरित्रं ते चित्रं पुरहर पवित्रं नियमिनां प्रवेकः सत्रादौ कलहजनिरुद्गायति सदा । महत्या सञ्जातोत्पुलकमुकुलालीकखचित- स्वकीयाङ्गं बाष्पस्तबकितदृगम्भोजयुगलम् ॥ ४७॥ पिनाकिन्नद्यापि प्रकटयसि किं विक्रमरमां त्वदीयं स्थानं मे हृदयमरयो निर्दयमिमे । समाक्रम्यैधन्ते सरभसहृषीकालिपृतना- गृहीतप्रस्त्यायद्विषयकबला हर्षशबलाः ॥ ४८॥ भवद्भक्त्या शम्भो कबलितमहामोहतिमिर- स्तपस्वी यं पूर्वं विषयसमुदायं सुखकरम् । विजानीते स्मेमं गरलमधुना तत्त्रिभुवनं ससत्यं चासत्यं तदपरमिवात्मानमपि च ॥ ४९॥ द्विजोत्तंसश्रीमद्धनदधनदामोघकरुण त्रिणेत्र त्वां को वा विरहयतु भावश्रमभरः । द्विजन्मापि भ्रान्त्वा भुवनमभितः श्रान्तहदयः श्रुतिस्मृत्याद्यर्थावगतिनिपुणः प्राणिषु महान् ॥ ५०॥ विनाङ्घ्रिं जङ्घालो दृशमपि विना दर्शनपटु- र्विना वाचं वक्ता श्रुतिमपि विना श्रोतृनिपुणः । विना पाणिं सर्वग्रहणनिपुणो घ्राणरहितः समाघ्राता शम्भुर्मम हृदयसौधे विहरताम् ॥ ५१॥ सुराणां सर्वेषां निरवधिकमाहात्म्यविषये तव स्थाणो शम्भो न किमपि मनाक् संशयपदम् । यतः कालानङ्गत्रिपुरगरला दुस्सहतराः पराभूतास्त्राता द्रुहिणमुखदेवाश्च भवता ॥ ५२॥ त्वया दत्तं तेजः सरसिरुहबन्धुः प्रतिदिनं भ्रमन् मेरोः सानौ घटयति पटुत्वं जनदृशाम् । ततश्चन्द्रस्तारागणहुतभुजौ रात्रिषु महो गृहीत्वा लोकानां त्रयमपि सचक्षुर्विदधते ॥ ५३॥ पदाम्भोजं शम्भो यदि मनसि मे पुण्यपुरुषा- धिरूढप्रौढिम्ना किमु विभवलाभेन करयोः । सकृत्किञ्चिन्मुद्रा यदि च विषया से नयनयो- श्चिदा(ता) किं शूली चेन्मम किमु विवस्वत्सुतजयैः ॥ ५४॥ अहम्भावः शम्भो यदि सुमनसां त्वत्परतरा इति ब्रह्मादीनां वयमिह मृकण्डोः प्रियसुतम् । ररक्षुः किं कालात् कुसुमविशिखं वा किमजयन् पुरस्तिस्रो हासैर्युधि किमहरन्नैव भगवन् ॥ ५५॥ स्मितेन द्वैगुण्यं गिरिश तव शोभा श्रितवती दधाना देवाद्यैर्मथितकलशाम्भोधिजनुषाम् । श्रियं डिण्डीराणामपि झटिति साक्षान्नयतु मे पुराजातेदानीन्तनदुरितपङ्कं पशुपते ॥ ५६॥ तवैवेच्छा हेतुः सकलकरणे सर्वहरणे समस्तत्राणे वा यदभजत सर्वं च करणम् । पुरां दाहे शैलद्रढिमगुणभाजामपि शुचि- स्मितं त्यक्त्वेतरदिषुमुखस्येड्यपदवीम् ॥ ५७॥ मनोऽरण्ये भ्रान्ताः प्रसृमररजोधूसरतराः परित्रस्यज्जीवा विगलितविवेकाः पृथुतराः । महेनोमत्तेभा भवथ विजिताः सम्प्रति मया यतो मे पञ्चास्यो हृदि विहरते पिङ्गनयनः ॥ ५८॥ कृपावानप्युग्रो धनदधनदो वीतवसनः सुमेषुप्रद्वेषी वपुषि धृतयोषिच्छुभगुणः । महास्तेयी शुद्धः शशिविधिशिरोभूषितवपुः शिव त्वद्वैरूप्यं सुखमिह परत्रापि दिशतु ॥ ५९॥ पुरा जन्मस्वेनः कृतमनुभवामीह जनने विदित्वापि प्रायः पिहित इव पापानि कुरुते । यथायं मे भिन्त्तां द्रुततरमहन्तां सविषया- मशान्तां संहन्ता स सपदि पुराणामपि विभुः ॥ ६०॥ शरः शेते सिन्धौ शरधिरपि भक्तेन तरसा निपीतश्चापाग्रे वसति सुमनोवृन्दमखिलम् । शताङ्गे सन्दोहो नरतरुमुखानामसुमतां वसत्यास्तां यस्य त्रिपुरविजयी मे स हृदये ॥ ६१॥ सहायीकृत्यास्मान् कुसुमशरहा चाट्टहसितै- रसौ भस्मीचक्रे त्रयमपि पुराणामिति हरिः । ह्रिया शेते निद्राण इव निगमान्ताभिनिरतो विरक्तो वा ब्रह्मा विदधति सुराः शैलवसतिम् ॥ ६२॥ मनोजन्माऽनङ्गाः कृत इति ललाटाक्ष भवता दिवा गच्छन् सिन्धौ निशि चरति भीत्या स्मरसखः । नभस्येवाम्भोजं पयसि तदिषुर्मज्जतितरां समूहो मेर्वग्रे परिचरति तत्प्रेरणकृताम् ॥ ६३॥ गजस्कन्धारूढो हरिरपि वृषारूढ नमति प्रणौति श्रीदोऽपि प्रवणहृदयो दिक्पटवर । तपस्वी निध्यायत्यपि विधिशिरश्छेदनपटो महत्त्वं को ज्ञास्यत्यहह भगवन्नीदृशमिति ॥ ६४॥ महात्मानः शम्भो तव चरणदासाः कृतदिवा- करापत्यानीकिन्यधिपमकुटीभङ्गविधयः । न मां दासं त्यक्ष्यन्त्यशरणशरण्या न च तथा यदि प्रायस्तेऽपि श्रुतिरपि भवद्भागनृतगीः ॥ ६५॥ अधीता नाम्नायाः सकृदपि तदर्था न विदिता न कर्माणि स्वीयान्यपि विरचितानि क्षितितले । तथाप्यन्ते शम्भो मनुजपशुनोच्चार्य भगवन् तवाख्यामुत्तीर्णो भवसरिदधीशो भवति हि ॥ ६६॥ अहो पञ्चास्य त्वं कथमिभमुखं लालयसि वा पिशाचानां नाथ त्वमवसि कुमारं कथमिव । श्मशानावासी त्वं नियमिजनतां पावयसि च प्रपन्नानां कामान् वितरसि कथं कामविजयिन् ॥ ६७॥ तपस्तप्त्वा घोरं चिरमसुकरं भूधरसुता महान्तं भर्तारं रमयितुमहो गोत्रविकलम् । अतातं तं स्थाणुं स्थविरतरदोषाकरधरं भवन्तं सम्प्राप्ता कथमिह भुजङ्गैर्वलयितम् ॥ ६८॥ विरिञ्चाद्याः सर्वे हरसदृशतां।वाञ्छथ यदि प्रकामं दुग्धाब्धिं पुनरपि विमथ्याद्य पिबत । महाश्वेलं चन्द्रं धरत भजतापीषदुपमा- श्रियं नो चेत् क्वासौ क्व नु खलु भवन्तः पशुसमाः ॥ ६९॥ तवोपान्ते शम्भो सरसिरुहपीठोऽनृतमुखः शिरोदेशालोके स्वयमनुभवन् गर्हणदशाम् । अनर्हत्वं लोकेष्वपि भजति को वा धुरि सतां मृषावादी सौख्यं क्व नु भजतु वेदान्तविदपि ॥ ७०॥ भुजङ्गालङ्काराम्बुजभवशिरोमण्डिततनो कपालिन्नेकोक्षाश्रय गरलपायिन् सुमनसाम् । प्रणेतारस्ते त्वां शरणमुपसङ्गम्य च दिशा- मधीशत्वं प्राप्ता जगति विजयन्ते हरिमुखाः ॥ ७१॥ गिरीश त्वज्जायावदनसमताभावनभव- न्मनश्शल्यस्तुल्याधिकविरहिताहानिजरुजः । सुधांशुः सौरीभिर्द्युत्रिभिररुणाभिर्हृदि कृत प्रतापोत्थं लक्ष्मावहति हरिणाधीश कपटात् ॥ ७२॥ चिराधीताम्नायश्रवणमननाद्यैरुपचितै- र्भवज्ज्ञानैः शम्भो विघटिततमःसत्त्वरजसाम् । मुनीनां सन्दर्शः कथमिति भवेन्मे जडमतेः प्रसीदादायाद्य प्रणतिमसकृन्मे पशुपते ॥ ७३॥ शरीरं कल्पान्तस्थमिति परमात्मानमिति च (परमात्मेति च मुधा) प्रविज्ञायापत्याद्यखिलममताबन्धयमिताः । मनोराज्यं जीवाः प्रतिपदविपत्सङ्कुलहृदः शिव त्वां सेवन्ते सकृदपि न चाहो यमरिपो ॥ ७४॥ पुरा देहं चात्मेत्युपचयदशायां पशुपते शरीरं तत्पश्चादपचयदशायां विगणयन् । अपीषत्तस्मिंश्चाध्यसनमधुनाप्युज्झति यया न चायं मायां तां परिहर सुखं प्रापय च माम् ॥ ५॥ त्वया शम्भो भक्ताः शमनदमन प्राकृतगुणै- र्विमुक्ता भासन्ते त्वमपि भगवन् राजसितराम् । विना (सङ्गं) सर्वान्नानाविधबहुलसङ्कल्परहितैः सदा तैरापन्नार्तिहर इति चात्मा विभुरिति ॥ ७६॥ श्रुतीनां तात्पर्यं पुरहर भवन्तं नृपशवः परिज्ञातुं भक्त्यौपनिषदविचारौ हि करणम् । तथा सत्यज्ञानान्नयमुखमहाशास्त्रनिचयं म्रियन्तेऽधीयाना विदधति च कर्माण्यपि सदा ॥ ७७॥ न कर्तुं किञ्चिद्वा विहितमपि कर्म प्रभुरहं समस्तस्वाध्यायाध्ययनतदनुष्ठानविषये । कियान् किञ्चित् किञ्चित् सकृदपि तथापीश्वर विभो त्वदाख्यां सञ्जल्पाम्यथ भवदधीनं मदवनम् ॥ ७८॥ कलत्रापत्याभ्यां स्वजनसमवायेन च मुहु- र्ज्वाराद्यै रोगैश्च व्यथितमनसो दुर्गतमणेः । ऋते त्वां मर्त्यस्याः क इह शरणं यक्षनृपति- (मर्त्यस्य आः इति च्छेदः ।) प्रियास्तापस्मारासुर शमितवैवस्वतमद ॥ ७९॥ अकुर्वन् सत्कर्माविहितमपि कुर्वन्ननुपदं समुद्यद्दारिद्र्यान्तकभयनिरासैकहृदय । कथङ्कारं शम्भो तव चरणदासोऽत्र भगवन् भविष्यामि त्वं वेत्स्यहमपि कुपावत्परिबृढ ॥ ८०॥ महाघोरः कालः कटुरटितवाचाटितहरि- द्भटव्यूहाटोपप्रकटितनिजाटीकन इह । कथङ्कारं पश्येत् पशुमपि दृशोरञ्चलरुचा मृकण्डूत्पन्नत्रायक धृतिमिति प्राप्य विहरे ॥ ८१॥ कुटुम्बी पार्वत्या गुहगजमुखाभ्यां तनयवान् भुजङ्गैर्भूषावान् सितमणिकिरीटीन्दुकलया । भवेन्मे जङ्घालो धवलवृषभेणान्तकजय- श्रियायुष्मान् सोऽयं यमभयनिरासाय भगवान् ॥ ८२॥ पुरा मारम्मारं जननमतिमात्रं श्रितवता मया किं किं पूर्वं कृतमिति न जाने यमरिपो । इदानीं वारभ्यामृतरुचिकलोत्तंस भगवन् भवत्पादाम्भोजस्मरणनिपुणं मां विरचय ॥ ८३॥ यथार्हं वा चित्ते यमरिपुमनाराध्य कुमते महासंसाराब्धिभ्रमणपरिखिन्न क्षणमपि । किमर्थं यागं वा सततमुपवासादिनियमं करोषि ग्रावाग्रे विपिनभुवि वेश्मन्यपि च वा ॥ ८४॥ सुरापं ब्रह्मघ्नं गुरुजनकलत्रस्पृशमपि प्रकामं स्वर्णस्तेयिनमपि स्वर्णं त्वमथ वा । यतश्चण्डालं वा नयसि हर निर्वाणपदवीं समालम्बे साम्बाविरतमविलम्बं यमरिपो ॥ ८५॥ जगत्संहारिन् संहर मम पुराण्यद्य कृपया (तथा)न्ते संहर्तुं ह्रियमतितरां मा गम इह । महाकामक्रोधप्रभृतिपरिपूर्णं त्रयमतः पुराणां किं भस्मप्रचयमकरोर्नाट्टहसितैः ॥ ८६॥ चरित्रं श्रोत्राभ्यां त्रिपुरहर पीत्वाहमनिशं न चालम्बे साम्ब श्रुतिचयपुराणस्मृतिगतम् । यतो गङ्गाचन्द्रोरगभसितचर्माब्जजशिर- स्समावेशोऽयं ते वदति महिमानं गुरुतरम् ॥ ८७॥ प्रयाणारम्भेषु त्रिपुरहर मे प्राणमरुतां भजन्तां कर्णौ त्वद्वृषभगलघण्टामणिरवाः । कृतान्तप्राग्भागप्रसृमरविनर्दद्भटघटा- पिशाचानामुच्चाटनपटुतरश्रौतमनवः ॥ ८८॥ निजावासं शैलं भुजपरिघदण्डैश्चलयतः पुरा पौलस्त्यस्य स्तुतिभिरमितैः सामभिरपि । स्वयं तुष्टस्तस्मै प्रमथगणवर्यत्वमदिशो जवात्त्वं कारुण्यान्मम निरपराधस्य किमुत ॥ ८९॥ अनाराध्येषत्त्वां कुजनिषु पुराणे यमरिपो कलत्रेणापीहाधिकमवमतः किं नु कुरुताम् । इति क्रन्दत्यस्मिन्ननतिसुलभां दीर्घकरुणां निवेश्य त्वं त्रायस्व यमभयतो दुर्गतिभयात् ॥ ९०॥ भवद्भक्तिं त्यक्त्वा भवभयनिरासप्रणयिनीं जडाः शम्भो कुम्भोद्भवशमधनोद्गीतमहिमन् । क्रतुं भूयो भूयो जनिमृतिनिदानं विदधते भवद्भक्तिं त्यक्त्वा भवभयनिरासप्रणायिनीम् ॥ ९१॥ स्मरारे सक्लेशं गुरुजनमुखादागममुखाः । अधीत्येमे विद्या बत कुधनिनां कुट्टिमतले कुटुम्बत्राणाय प्रकटितरदा बिभ्रतिशुचम् ॥ ९२॥ श्रुतीनां तात्पर्यं शिव तव महिम्नीति कतिचित् विदित्वापि त्वामीषदपि दधते नैव मनसि । इति त्वं मा कुप्येस्त्रिपुरहर मे याति समतां (?) परिज्ञायाख्यान्ते जडमतिरहं सोऽपि कथये ॥ ९३॥ भवद्भक्तिर्ह्येका यदि दृढतरा साम्ब भगवन् भवाम्भोधिं तर्तुं किमिह करणैश्चापि बहुभिः । महादारिद्र्याब्धिं बहुलदुरितक्ष्वेलकलिलं परिज्ञाय प्रायस्तव चरणमेवर्च्छति मनः ॥ ९४॥ सुषुप्तौ स्वप्ने वा शिव तव च जाग्रत्यहमिह ब्रवीम्युच्चैर्नाम प्रशमसमुपेतैर्मुनिगणैः । प्रगीतं सर्वाघक्षरणकरणं सङ्गरतले जितारातेर्भेरीनिनदमिव धात्रीबलरिपोः ॥ ९५॥ सुतौ तावुत्सङ्गे गुहगजमुखाख्यौ वपुषि च प्रियां गौरीं गङ्गामपि शिरसि पार्श्वे परिचरान् । विधायातिस्निग्धं शुभवृषभमारुह्य भगवान् पिनाकी रक्षायै मम भवतु भीतस्य यमतः ॥ ९६॥ जगन्नाथश्रीशप्रभृतिसुरसेव्य त्रिपुरजित् स्मरारे कालारे श्वशुरमखहारिन् पशुपते । गजारे भूतेश प्रमथगणनाथाद्य भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ ९७॥ सुधाभानूत्तंसस्मितमुखशरच्चन्द्रवदन प्रणम्रापद्भङ्गप्रवणहृदयाम्भोजनयन । मृड श्रीश स्निग्धालिकनयन शुभ्राङ्ग भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ ९८॥ नगाधीश त्र्यक्षाखिलशुभद गङ्गाधर विभो शिव क्ष्वेलग्रीव द्युमणिशशभृद्वह्निनयन । महादेव स्वच्छस्फटिकमणिसच्छाय भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ ९९॥ निरासङ्ग श्रीमन् निरवधिककारुण्यनिलय प्रणामप्रीतान्तःकरणमुनिवृन्दैकशरण । वृषारूढ प्रौढप्रमथगणनाथाद्य भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ १००॥ भूयोभूयः शरणं भूतेशोऽसौ भवाब्धिमग्ननस्य । अवलम्बहीनमनसो हा हेति क्रोशतो ममेदानीम् ॥ १०१॥ दुर्गाधीश ममेदं दौर्गत्यं दूरतो निरस्यैव । तव नामकीर्तनं मे तारकमेकं सदा दिशानन्दम् ॥ १०२॥ सहजमहाराजपुरग्रामनिवासी विवेकिमूर्धन्यः । श्रीवीरराघवाख्यः सङ्ख्यावान् स्तोत्रमेतदतनिष्ट ॥ १०३॥ ॥ इति श्रीशिवशतकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shivashatakam 02 04
% File name             : shivashatakam1.itx
% itxtitle              : shivashatakam 1 (shivaM gaurIshliShTaM)
% engtitle              : shivashatakam 1
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-04
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org