श्रीशिवशतकम् २
न्यस्तोदस्तादसीयप्रपदगुरुभरन्यञ्चितोदञ्चितोर्वी-
प्रख्यातक्षीरसिन्धुच्छलनमुकुलनान्दोललीलाकलाभिः । (सिन्धूच्चलन्)
प्रस्फारस्वापसौख्यप्रसररभसिनः शेषशय्याशयालो-
राशास्या शश्वदास्तां विषमशरमुषः श्रेयसे लास्यलीला ॥ १॥
चूडापीडोडुवोढृस्फुटनिटिलतटीचत्वरोदित्वरोच्चै-
र्ज्वालाजाज्वल्यमानं गलकलितमहानीलपाषाणशीलम् ।
सर्वाङ्गालिङ्गिरिङ्गन्निरुपमसुषमं वेददुर्वेदभेदं (?)
किञ्चिच्चिद्वस्तु वास्तूभवतु हृदि महानन्दसन्दोहसान्द्रम् ॥ २॥
आकृत्या कूर्ममर्माविधमखिलनखज्योत्स्नयोत्सारयन्तं
पुंसां हिंसातमिस्रं किसलयममलच्छायया तुच्छयन्तम् ।
बद्धस्पर्धं च सार्धं गिरिदुहितृवपुर्मार्दवोल्लासिकाभिः
वन्दे पादं विभोस्तत्कटकतटनटन्नूत्नरत्नैः सयत्नम् ॥ ३॥
शैवोऽयं शीघ्रमङ्घ्रिर्विघटयतु सदानन्दनस्यन्दनेऽस्मिन्
गाढोन्मीलत्पदातिद्युतिकबहुतमोवारणे भव्यवाहे ।
सर्वाङ्गेणानवद्ये प्रकृतिसुमधुरेऽम्भोजसाम्राज्यभाजि
भ्राजिष्णौ सत्सहाये जयति यतिमनोमण्डलं द्रागरीणाम् ॥ ४॥
ध्येया माधुर्यधारा विभुपदमधुनो ये यदास्वादवन्तः
सन्तः सन्तोषवन्तो मुहुरमृतभुजां श्लाध्यभाग्यर्द्धिभाजाम् ।
तेषां पुंसां मते सा स्वगुणशतसुधाबाधिका साधुरम्भा-
रम्भस्त्रीबिम्बबिम्बाधरमधुरविधा कल्पतेऽल्पानुकल्पम् ॥ ५॥
तद्भद्राण्युद्रणत्कु(द्दृणातु)प्रभुवरचरणं नूनमीशोऽपि यस्मि-
न्नेवङ्कारं वराभीत्यनवरकरयुग्व्याजतो व्याजहार ।
ये सर्वं खर्वयन्तः प्रविशत शरणं मामकेऽस्मिन् शरण्ये
वैकुण्ठेऽकुण्ठकण्ठीरव इव खलु ते विक्रमेण क्रमध्वम् ॥ ६॥
पादौ तावन्धकारे हृदि वहत ययोः प्राज्यराजीवराज्यं
द्वैराज्येनोदवात्सीत्तदुपचितखिदेवात्र निद्रादरिद्रे ।
भृङ्गा झङ्कारकोलाहलमुखरदिशोऽभ्येत्यग(चा)न्तर्विशन्तः
कल्येऽप्युद्यन्मरन्दाभिधविविधधनान्यात्तवन्तोऽपयान्ति ॥ ७॥
अन्योन्योद्यद्गुणौघोभयसदृशतया बिभ्रदन्योन्यरागं
पादद्वन्द्वं पुरारेः सुखयति निखिलं दूरविच्छेदतुच्छम् ।
यस्मादुत्पद्यमानं प्रथितपृथुगुणैः पुष्पितं तत्त्रिवर्गी
मुक्तिश्चेति द्विकन्यं स्वयमिह वृणुते भोगिनं योगिनं च ॥ ८॥
शर्वाणीप्राणबन्धोः प्रणमत चरणं प्राणितप्राणिवर्गे
लक्ष्मीलीलानिवासायितनिजकटके राजराजाधिसेव्ये ।
नानानीत्या समुद्यत्तरसुजनपदे यत्र राजीवराजे
न स्थाने हन्त जाने विविधगुणनिधौ भक्तमात्रेऽप्यपेक्षा ॥ ९॥
योऽसावात्रानुरक्तस्त्रिजगति भजते सोऽतिमात्रं विरक्तिं
तस्मात् सर्वोत्तमं तत्पदनलिनयुगं त्रायतां सर्वशत्रोः ।
सेवाहेवाकभाजां युगपदुपनमद्दिक्पतीनां दशानां
नैतत् सीमाविभागं किमकृत कृतकादङ्गुलीनां दशानाम् ॥ १०॥
मध्येऽध्वानं निदध्याद्धरचरणयुगं निर्यदाश्चर्यचर्यं
यस्याकृत्यां स्फुरन्त्यां मनसि मुनिजनो द्राङ्निराकारभूयम् ।
विन्देतानन्दसान्द्रं त्रुटितगुणगणो यद्गुणे भाव्यमाने
यद्रागे वीतरागः समभवदपि चाप्राकृतो यत्प्रकृत्याम् ॥ ११॥
ऐशौ पादप्रवालौ हृदयपरिसरे ज्ञानवृद्धावलीनां
सङ्क्रीडेतां सहेलोल्ललितसुललितौ पथ्यनेपथ्यवन्तौ ।
यौ मुग्धस्निग्धरूपावतिमृदुलतरौ सस्पृहं दर्शनीया-
वङ्के स्वे निक्षिपन्ती परिचरति चिरं श्रीमदम्बाविलम्बात् ॥ १२॥
भूयो भूयो विभाव्यं त्रिभुवनविभवद्वैभवस्याङ्घ्रियुग्मं
निष्कामायात्तकामाय च वितरति यत्प्रार्थितं निर्विशेषम् ।
तत्राद्यः शुद्धबुद्धां धियमथ सहजां प्रेयसा(सी)मर्पयित्वा
यस्मै सर्वानपास्य श्रयति हि तदसावान्तरोऽन्यस्तु बाह्यः ॥ १३॥
कल्यं यत्पल्लवं तत्स्वशिरसि बिभृयादुच्चलच्छोणशोभं
श्रीरुद्रस्यान्तरुद्यद्वितततरसिराभङ्गिभागूर्ध्वरेखम् ।
मुग्धस्निग्धेन येन श्रुतियुवतिरतिप्रेमबन्धानुबद्धा
प्रीत्या प्रत्यादिशन्ती निखिलसुमनसः स्वं शिरः संस्करोति ॥ १४॥
शम्भोर्बोभोतु भूत्यै पदमिदमधिकं मञ्जुमञ्जीरनील-
ग्राव्णो जाग्रत्कराग्रैस्तरुणतृणगणैः शाद्वलोर्जस्वलाभम् ।
गावो वीक्षा क्षुधार्ता अतिकृतियतिनां तृष्णयास्मिंश्चरन्तः
तस्थुः सुस्थास्तदैव द्रुतगलितपयःपूरनिर्व्यूढभासः ॥ १५॥
आस्तां गत्यै पदं तन्मम भृशविपदो भूरिपादस्य शम्भोः
भक्तेभ्यः किं नु पौनर्भवविभवभरं स्वे समादाय सम्यक् ।
तेभ्योऽपौनर्भवर्द्धिं वितरति नितरां तां यदेतत्तथापि
स्वाभेदेनैव चित्रं पुनरपि हि भवं संलभन्ते परं ते ॥ १६॥
भर्गाङ्घ्रेस्तुङ्गभावं विमृशत मनसा दुर्गमे पुष्पवद्भयां
येनारोहीह यत्नात् स्थिरसुदृढपदं तस्य वैकुण्ठधाम ।
हस्तप्राप्यं किलाष्टापदगिरिरमुना लोष्टवद्दृष्ट आस्ते
तस्याधस्तात् समस्तं जगदपि वलते सोऽपि सर्वोपरि स्यात् ॥ १७॥
वन्दे शम्भोः पदे ते यमनियममहाभास्करैः शुष्कपङ्के
नक्षुण्णे वैरिषट्कैः सवननियमनाशुष्मणोष्मायमाणे ।
दोषौघैर्दूरशून्ये हृदयपरिसरे पारिकाङ्क्षीश्वराणां
मन्ये मान्ये किमेते चिरपथिकतयारुण्यतारुण्यपूर्णे ॥ १८॥
चण्डीशस्याङ्घ्रिकुण्डं दहतु मदशुभं यत्र रुक्कन्दलीभिः
प्राज्यैराज्यैः समिद्धेऽरुणमणिकिरणज्वालजिह्वालशीले ।
मञ्जीरोदञ्चिनीलोपलकरलहरीचातुरीभूमधूमे
योगी योगस्रुवेणोद्धतषडरिमयीराहुतीः सञ्जुहोति ॥ १९॥
कान्तप्राग्भारभारीसुरमुकुटतटीष्वश्मरश्मिच्छटानां
भोगाभोगोज्झितानां प्रमदयतु मनः श्रीगिरीशस्य पादः ।
सत्त्वोद्रिक्ते विविक्ते सबलहरिगुहासादिते यत्र षड्भ्यः
शत्रुभ्यः सन्त्रसन्ती विशति यतिमतिः सर्वतो वीतभीतिः ॥ २०॥
संसारारण्यजन्यज्वलनकबलनोत्तालतापाकुलानां
निर्वाणाय क्षमाया निगमवनखिदां कल्पतेऽनल्पतृप्त्यै ।
अस्यां ये स्नान्ति सन्तः सपदि विरजसस्ते बभुः सा गिरीश
श्रीमत्पादाग्रजाग्रन्नखरकरझरीनिर्भरं नः पुनातु ॥ २१॥
पुंसां संसारजीर्णालयगतविषयाकारशङ्कारवारै-
रत्यन्तं धूसराणां तदनुशयवतां मार्ष्टये कल्यतुल्याः ।
अङ्घ्रावारोहणोद्यन्मुनिजनमनसे सम्पतत्तल्पकल्पाः
कल्पान्तप्रान्तभाजो नखरशिशिररुग्रोचिषां पान्तु वीथ्यः ॥ २२॥
संसारग्रावरोहत्तरसुखशिखरिस्वैरसञ्चारभाजं
चेतोगम्भीरवेदिद्विपमपि शनकैः शिक्षया संविनीय ।
यस्मिन् बध्नाति यत्नाद्यनुप(मसु)गुणैर्योगधाराधुरीणः
श्रेयस्स्रुत्यै श्रयेताश्रितविबुधतरोश्चारुमूरुप्रकाण्डम् ॥ २३॥
यद्रक्षामीति साक्षादभिलषति दिवश्चक्रवर्ती यतीनां
शक्रः संसारचक्रं भृशमपवदते यच्च निध्याय बुद्ध्या ।
चक्रीशो मूर्ध्नि धत्ते यदपि च भगवानात्तचक्रोऽप्युपास्ते
शार्वे सर्वोच्चचक्रे जघनमिति मते मानसं सम्पृणक्तु ॥ २४॥
योगिप्रज्ञाप्यकामा समभिसृतवती दुर्गमे योगमार्गे
चञ्चत्काञ्चीव्युदञ्चन्मणिरजनिकरद्योतदीप्ते विविक्ते ।
यस्मिन् कृच्छ्राद्विशन्ती प्रियमिह तु समासादि सद्यो विनोद्य
स्वैरं नैव व्यरंसीज्जघनसुपुलिनं दीनबन्धोरुपाध्वम् ॥ २५॥
शम्भोर्गम्भीरनाभीसरसिगतरसस्यातिशीर्यद्भवान्धोः
पङ्कैः स्रक्चन्दनाद्यैः कलुषितवपुषः साधु गाहध्वमद्धा ।
यस्यात्रस्यन्महेन्द्रोपलपटलवलच्छृङ्खलोच्छृङ्खलोस्र-
स्रोतःप्रोतस्य रोमावलिरुपरि परीवाहशोभामुवाह ॥ २६॥
मोहक्रुल्लोभदावज्वलजगदटवीव्याकुलीभूतचेतः
सारङ्गोत्तालजालायितविषयचयच्छेदने शस्तशस्त्री ।
ध्यानाध्वश्रान्तधावन्नियम(नसु)कृशस्यावलम्बाय यष्टिः
स्वेष्टायोत्तिष्ठतां मे शिव तव विमला श्यामला रोमराजिः ॥ २७॥
भाव्यास्मिन् रोमराजिर्भवगदविपदेयौषधीवल्लिरास्ते
शाम्यन्त्या अह्नि पुण्ये सुकृतिषु ??खलिनीषु ज्वलन्त्याः (?) ।
एतस्याः काञ्चिरोचिर्मयसलिलभृताचालवालाभनाभि-
र्निष्का निष्कासिभासोऽप्युपरि परिलसत्स्वच्छगुच्छायमानाः ॥ २८॥
श्यामा रोमावली ते मृड मृडयतु मां नाभिकासारसारे
निर्मज्जत्सज्जनान्तःकरणबहिरिता तामसी रेखिकेव ।
काञ्चीरोचिः सभङ्गोदरसरसि सरत्कान्तकान्तिप्रवाहे
सौन्दर्योद्यत्प्रतिष्ठे मरकतघटितन्यस्तयूपाभिरूपा ॥ २९॥
रक्षेत् त्र्यक्षस्य वक्षस्तदखिलजगतीसावकाशाधिवास-
प्रोद्दामद्योतमानोदरकुहरपुरीगोपुरोद्यत्कवाटम् ।
स्याच्छुद्धा बुद्धिरेतत्प्रभुवरकृपयास्यान्तरानन्तरायां
योगीन्द्राणां विशेच्चेत् प्रतिगुडकमसौ लोकतेऽशेषलोकं (?) ॥ ३०॥
शम्भोः सर्वागमेषु प्रसृमरमहिमा बाहुकल्पद्रुमाली
सापर्णाभोगभूमिर्दृढविहितपदं रोप्यतां स्वान्तसीम्नि ।
आक्रामद्भिः शनैः स्वं त्रुटतु कलिरथो षड्भिरुचैरमित्रैः
विश्राम्येदेव जीवोऽपि च परमसुखं प्राप्य सन्त्यक्ततापः ॥ ३१॥
बाहाः स्युर्भद्रवाहा मदनविजयिनो हृत्तटीव्याजभाजः
संसारक्षारसिन्धुप्रतरणतरणेः पुण्यलावण्यवाराम् ।
स्रोतस्यन्तस्तरन्त्या मणिगणकिरणैस्तन्तुसन्तानकल्पै-
रोतप्रोतानुबद्धा अविरतमभितः पातुकाः के निपाताः ॥ ३२॥
लुण्टाकाः कण्टकानां दनुतनुजनुषां श्रेयसामायुषां वा
निश्रेणिश्रेणिरुच्चैर्दुरधिगमतमाकुण्ठवैकुण्ठधाम्नाम् ।
गीर्वाणग्रामणीनामभयमुपयतां निर्भरं निर्भिदुर्गाः
चत्वारो बाहवस्ते रतिपतिमथितुर्मङ्गलं बृंहयन्तु ॥ ३३॥
यानालम्ब्यैव योगात् परमगतिविदः सत्पथादस्खलन्तः
प्रज्ञाचक्षुः पुमांसोऽप्यनवधिविरुधः षड्द्विषो दण्डयन्ति ।
दण्डादण्डीति युद्धं विदधति च यमेनोग्रदण्डेन तस्मा-
दुद्दण्डैर्बाहुदण्डैर्मम मदनमुषो दण्ड्यतां पापषण्डम् ॥ ३४॥
ताम्रानम्नांशुपात्रं करमनिशमसाबूर्मिकांशूर्मिकार्णः
पूर्णं गृह्णन्नशीर्णाक्षतवलयबलद्गारुडाश्मोस्रदर्भैः ।
युक्तं कीर्तिप्रसूनैः सुरभितमभितोऽनल्पसङ्कल्पितार्थो-
त्सृष्ट्यै कृत्स्नस्य सङ्कल्पयति भयभुजः श्रीभुजं तं भजेत ॥ ३५॥
शेषाधीशस्य शय्यायुगयुगलस्यानुरूपस्वरूपा
देहव्यूहप्ररोहा इव भुजगिभुजा भावनीया विनीतैः ।
स्वाराजो गर्वसर्वस्वपरिपणचतुर्दन्तदन्तीन्द्रशुण्डा-
दण्डाश्चत्वार एते तत इयमुचिता पुष्करश्रीर्यदन्ते ॥ ३६॥
क्रोडक्रीडन्मृडानीगलतलमिलिताः पुण्डरीकस्रगाभा
ज्ञानोन्मीलन्मुनीनां नयननिपतिताः साधु सौधप्रवाहाः ।
रूक्षोद्यद्राक्षसान्तः किरणपरिसरे कल्यशल्यायमाना
दोषो भूषाविशेषांशुभिरसमदृशोऽतीव पीवान ईड्याः ॥ ३७॥
वर्णानां यच्चतुर्णां युगपदपि चतुर्वर्गमुत्सर्गसिद्धं
चक्रे शक्रेडिताङ्घ्रेस्तरुणितकरुणं तच्चतुष्पाणि पातु ।
आमृष्टत्रैपुरस्त्रीनिटिलतलमिलत्सान्द्रसिन्दूरबिन्दो
रागैर्मत्वेव जुष्टं वलयसितशिलाः स्वैः करैर्यन्मृजन्ति ॥ ३८॥
आक्रीडक्रोडलोभप्रभृति गजगणो यूथनाथायमानं
मोहाह्वानं महेभं रयभवविधुरद्राविसत्त्वे मदीये ।
अन्तः कान्तारमध्ये चिदभिधविबुधानोकहोन्मूलनोच्चै-
र्मूलं प्रोदञ्चि पञ्चानननखरसृणिश्रेणयः स्राक् शृणन्तु ॥ ३९॥
आम्नायाम्नातधाम्नो निगमपरिपणं तौ पणायेत पाणी
बिभ्राणौ यो वरं चाभयमुभयमुभौ प्राणिनां प्रीणनाय ।
ऊर्ध्वं चाधःस्थितानां सुरनरफणिनां वीक्षणक्लेशभाजां
निर्व्याजं सज्जमानौ किमु नयनपथे पुण्यकारुण्यवेगात् ॥ ४०॥
श्रैकण्ठः श्रीकुठारो मदघवनघनीभूततां जङ्घनीता-
द्रक्षाविख्यातदीक्षां सततधृतवतः श्रीविभो रोषवह्नौ ।
योऽयं हेतासमेता सुरवरशिरसां सत्पुरोडाशभासां
हाहास्वाहाकृतीनां विदधदथ जगत्स्वच्छयत्येव सत्यम् ॥ ४१॥
हस्तोद्रिङ्गत्कुरङ्गः कृपयतु स विभोरीदृशालिङ्गभङ्ग्या
यो माने चापमाने समदृगनिवसन् संसरन्नेक एव ।
पुण्येऽरण्ये तरण्यंशुभिरपि जलमुग्घोरधाराभिरारात्
ताड्योऽप्यस्यद्विकारः स हि भगवदुपादेय इत्यादिशत्किम् ॥ ४२॥
श्रीशम्भोः कण्ठकम्बुर्भवतु भवभिदे पूतमाम्नायवर्णैः
पूर्णं लावण्यपूरैर्मनसि मुनिजनो यन्निधायार्प्यपात्रम् ।
स्वस्मिन् सङ्गृह्य तस्मादमृतदृगालोककल्लोलसेकैः
संस्कुर्वन् पूज्यवस्तून्यपि निकटचरप्रोक्षणीपात्रमास्ताम् ॥ ४३॥
तत्कण्ठोद्भट्टनोत्थज्वलनकणगणैरुल्बणं यस्तडित्वान्
तत्कान्तानां समन्तात् सकरुणरुदितैरूर्जितं चातिगर्जन् ।
तासामस्रं च वर्षन्ननवधिपरशोः संस्मरामः स्मरारे-
रुग्रक्रव्यादवर्गे प्रसयजलधरस्येव घोरायितानाम् ॥ ४४॥
श्रीश्रीकण्ठस्य कण्ठं परिचरत चिरं साधु लेखाभिलेख्यं
व्यानद्धं कालपाशैर्गरगिलनमिलच्छ्यामलिम्नश्छलेन ।
वात्सल्योत्सेकदर्शं निजभजनयुजां कालपाशावलीनां
योऽजस्रं स्वेन विस्त्रंसयति जगति तेऽस्मादपाशाः प्रथन्ते ॥ ४५॥
आद्याविद्याज्वरार्ता बहुविषयरसैर्निर्भरं पूर्णगर्भाः
प्रोद्यन्मिथ्याद्यपथ्याहितपरिणतयोऽनर्थवाचो विमूढाः ।
यां पीत्वा चित्तपात्रैरथ विगततृषस्त्यक्ततापाः स्त्वतिष्ठन्
श्रीकण्ठस्याश्रये तां भवभयभिषजः कण्ठकालोललक्ष्मीम् ॥ ४६॥
ग्रीवां श्रीवामदेवीं स्वहृदि कलयता ध्याननिध्यानभाजां
मध्यश्यामापदेशात् कलिकलुषमिवाच्छिद्य हृद्यावहन्तीम् ।
उद्यन्नानामतेनाङ्गजविततिभृता निर्विरोधं त्रिरेखा
चातुर्वेदेन यस्यां निजजनकभुवि स्वस्य सीमा विभक्ता ॥ ४७॥
तं कण्ठं शूलपाणेर्नम समुपनमन्मार्गणेऽनर्गलेन
द्राङ्निर्गच्छत्त्रिवर्गप्रसरणसरणीराददानं त्रिरेखाः ।
त्रय्या रज्ज्वा गुणानां चरणशरणिनां बन्धनं मोचयित्वा
स्वात्मन्येतां गृहीत्वा वसति किमु पुनर्बन्धनाशङ्कया यः ॥ ४८॥
कण्ठे तिष्ठेत मुक्त्यै मदनमदभिदः प्राङ्निलिम्पानुकम्पा-
सम्पातैः पारवश्याद्गरलमिव गिलन् क्षुब्धदुग्धाब्धिलब्धम् ।
भक्ताधीनोऽधुनैषां विषयविषरसान् यो भवाब्धेः प्रसूता-
नत्तीतीदं गराणां गिलनगुणनिकापाटवज्जाघटीति ॥ ४९॥
कण्ठः सोत्कण्ठशक्तेः परिलुठतु हठाच्चित्तपीठोपकण्ठे
कम्बोः किं वानुबिम्बः किमसमसुषमासीमविश्रामधाम ।
आलेख्यालेखरेखात्रयरुचिररुचाभूषि भूषाविशेषो
मध्योद्यच्चारुगारुत्मतमणिसमरुक्कोमलश्यामलो यः ॥ ५०॥
गौरीगाढोपगूढैः प्रतिफलितमिदं शस्तकस्तूरिकायाः
पङ्कं शङ्के शशाङ्काभरणगलमिलन्नीलिमा शीलनीयः ।
रोलम्बानां कदम्बं मुनिनयननिभं सन्ततामोदलाभे
लोभाद्यस्मिन् पतित्वा न खलु पुनरुपावर्तितुं कष्टमीष्टे ॥ ५१॥
शम्भोः शं भो दिशेद्वो भवदवविधुराः कण्ठरुग्वर्षुकाभ्रं
मुक्तास्रक्सद्बलाकेऽनवरतविलसत्पुण्यलावण्यनीरे ।
ग्रैवेयव्यग्रनानामणिकिरणगणैरिन्द्रचापाभिरूपे
यत्रोद्यद्विद्युदास्ते गिरिदुहितृपरीरम्भसंरम्भिबाहुः ॥ ५२॥
गुच्छावल्यन्तरच्छच्छविविभवमहानीलशैलोपले (मे) यां
मध्येकण्ठस्य कुण्ठेतरतरुणघनश्यामशोभां प्रतीमः ।
यो योगोद्योगभाजां विषदभरनसन्दिग्धदुग्धोपलब्धेः (?)
स्वान्तस्यान्तर्निलीनोऽधिगमयति निजाकारसाकारभावम् ॥ ५३॥
भस्मस्मेरत्रिपुण्ड्रोज्ज्वलनिटिलतटं बिम्बसंवादकोष्ठं
निर्नीकाभस्वनासाश्वसनबहुगुणं जैत्रनेत्रत्रयीकम् ।
अम्भोजाभ्यर्णघूर्णद्भ्रमरपरिकरभ्रान्तिभृच्छ्मश्रुलेखं
भो भोः शम्भोर्मुखाम्भोरुहमनुरहसं चेतसा चिन्तनीयम् ॥ ५४॥
ग्रैवेयोदग्रजाग्रन्मणिघृणिभिरथो मौलिमूलोपलानां
रोचिर्वीचिप्रपञ्चैः परिधिविधिरधिष्ठीयते यन्मुखेन्दौ ।
बिभ्रद् भ्रूविभ्रमाङ्कं स्मितसितलसितप्रांशुदन्तांशुराशीन्
वर्षन् पीयूषवर्षं दिशि दिशि दिशतादेष हर्षप्रकर्षम् ॥ ५५॥
स्वेनासीम्ना महिम्ना यदिदमुडुपतेर्मण्डलं मङ्क्षु जित्वा
जीवग्राहं गृहीत्वा तमथ सुरसरिल्लोलकल्लोलपूरैः ।
भालाक्ष्णो ज्वालजालैरपि विषमतमे (?) कुत्रचित् स्थापयित्वा
क्रामं क्रामं क्रमेण क्रशयति तदिहोपास्यतामैशमास्यम् ॥ ५६॥
पात्रं नित्यापचित्या अथ कमलवनोज्जासनो विप्रयोगे
यो यं भास्वत्स्वरूपो वहति किल सदा यामिनी रूढभासः ।
तत्तादृक्तारकान्तः परमहिततरोऽप्यन्धकारातिरोची
राजद्वक्त्राच्छधामा स महिमभरितस्ते मुदे द्रागुदेतु ॥ ५७॥
अञ्चेद्यः पञ्चकं तत्सुमतिरतिमहच्चैव वक्त्राम्बुजानां
क्वासीत्तस्य त्रसन्ती शिर उपरि नरीनृत्यते पञ्चता सा ।
सञ्चञ्चत्पञ्चकं तद्भृशवशमयते चेद्धतामिन्द्रियाणां
दुस्साराणां शराणां तदपि शिवरिपोर्निर्जिहीते तदन्तम् ॥ ५८॥
स्मर्या बालेन्दुमौलेर्विशदतरसरत्सुस्मितस्यन्दि चन्द-
त्पीयूषासारसङ्गाद्द्विगुणमधुरताधोरणी साधरस्य ।
आस्वाद्यैनां मुनीनां सवनजममृतं यज्वभोज्यं परं य-
द्दिव्यैराद्यं द्वयेऽस्मिन्नरुचिरुदयते तोषलेशावभासे ॥ ५९॥
तां दन्तश्रेणिमुक्तास्रजमसमदृशो हस्तसादेव कृत्वा
भक्त्यात्युच्चैर्जपन्ती मुनिवरजनता साधयेन्मोक्षलक्ष्मीम् ।
निध्यायाध्यास्यमानां हृदयपरिसरे संयमोच्चैर्धनानां
यां तत्तद्रत्नवृन्दं चपलतरमनो लज्जया निर्जिहीते ॥ ६०॥
घोणावंशोऽस्य शस्यस्तिलकुसुमतुलामाददानोऽयमेवं
वादो लोकापवादो न हि तिलकुसुमैराप्यतेऽमुष्य गन्धः ।
यस्याम्नायात्मकानां श्वसितसुमरुतां भव्यसौरभ्यलोभाद्
यत्ता रोलम्बमाला भृशमसृणमषीचीर्णवर्णायितास्ते ॥ ६१॥
दृष्टिर्भव्याय भाव्या सरभसपतितां यां विभोर्भक्तिगात्रे
दृष्ट्वानन्दादमन्दोद्यतनयनजलैः कण्टकैः सङ्कटे च ।
नार्हन्तीं क्वापि गन्तुं बुधविबुधदृशस्त्रत्र साजात्यहार्दा-
द्धस्तग्राहं निनीषादरभरभरिताः सम्भ्रमात्सम्पतन्ति ॥ ६२॥
देवश्रेणीषु गौरीवदन इव तमोनोदने मोदमाना-
स्तस्याश्चञ्चद्व्युदञ्चत्कुच इव सुचिरं लोलुपा भक्तपङ्क्तौ ।
किञ्चित्सञ्चारिचेलाञ्चल इव जघनेऽकिञ्चने व्यग्रतोग्रा
नानाभावेन भव्यास्त्रिपुरहरदृशो निर्भरं भावनीयाः ॥ ६३॥
या सोदर्येव तौल्यान्महिमनि चतुरो वर्गसर्गान् स्वसङ्ख्या-
वैषम्येणाविभज्यान् जनकचिरचितद्रव्यवत्पाल्यमानान् ।
साधारण्यादनास्थं वितरति नितरामग्रतः स्थायुकेभ्योऽ-
न्योन्यस्पर्धाभिगर्धादिव मदनमुषः सास्तु जैत्री त्रिणेत्री ॥ ६४॥
श्यामोद्यन्मध्यसीमारुणिमतरुणिमालिङ्गितापाङ्गरङ्गं
स्मर्तव्यं तत्परत्रोल्लसितसितरुचा रोचमानं त्रिचक्षुः ।
एकैकेन त्रिलोकीकृतिभृतिविहतीः कर्तुमादायि मूर्तं
त्रैगुण्यं किं नु मन्ये नयनविलसिताधीनसर्वक्रियस्य ॥ ६५॥
गावो भावोपरक्तं झटिति पशुपतेः साधुबोधाधिरोधात्
शष्पैर्दुर्वासनाभिः किल कलिलतमे मामकान्तश्चरन्तु ।
अत्यच्छान् भक्तवत्सान् स्थिरसुदृढतरं यत्र सन्नह्य चोहे
या दुग्धानीव दुग्धा विविधमभिमतं योगदग्धैर्विदग्धैः ॥ ६६॥
दृष्टिं तां विश्वसृष्टेरतिशयललितां ध्यायतामात्मबुद्ध्या
बद्धा देवेषु सिद्धादिषु च बहुचिरं सम्भ्रमाद्या भ्रमन्ती ।
मूर्छामृच्छत्यतुल्यां निजजनजनकाङ्के विशङ्कं पतित्वा
तत्र प्रीत्यातिहर्षाश्रुभिरथ सुखिताऽप्यायतेऽप्यायतेऽच्छम् ॥ ६७॥
शोभाब्धेरुज्जिहानां चिरमुपचरितां चामरालीमरालै-
र्भक्तस्वान्तर्मिलिन्दस्वदितसुरचितामन्दचन्दन्मरन्दाम् ।
उच्चैर्वाचंयमानां विषयविसृमरज्ञानधारामृणालां
चक्षुर्नालीकपालीं हृदि वहत विभोस्तापशान्त्यै नितान्तम् ॥ ६८॥
लक्ष्मीवत्पक्ष्मलेखं श्रय विषमदृशोऽनुक्षणेनेक्षणं
तत्सुस्निग्धश्यामधामोत्तरलतरपरिष्कारकृत्तारकं यत् ।
भास्वत्सिन्दूरकेन्दीवरवरविधया श्वेतरक्तासितेति
त्रैवर्णोदीर्णजन्यद्युतिततिविततं सर्ववर्णाश्रयोऽपि ॥ ६९॥
शम्भोर्नम्येत वामेतरनयनमजस्रं भवोद्दामधामा
घर्मांशुः स्वेतरैस्तैस्तरणिभिरननुष्ठेयमेवानुतिष्ठन् ।
स्वेषामन्तस्समन्ताद्वितततमतमोमर्मनिर्मन्थकर्मा
शिष्टानां विष्टपानां त्रयशयविषयान् व्यञ्चयत्यञ्जसा यः ॥ ७०॥
दृष्टिर्भाव्यापसव्या तरणिरियमहो कर्णधारत्वमस्याः
पश्यासौ पारतीरं भवनिभजलधेः पारकाङ्क्षित्वभाजः ।
नित्यानित्यादिसक्तानुपहृतभजनैकाग्रताकल्यमूल्यान्
धन्यानन्यानपेक्षं गमयति निगमप्रान्तराश्रान्तपान्थान् ॥ ७१॥
लीलालोलाञ्चलाल्पारुणिमधवलिमद्राक्चलन्निश्चलेन्द्र-
स्वाराज्यं प्राज्यधामादिभिरभिलषितस्निग्धमुग्धावलोकम् ।
रक्षेत्त्रयक्षेन्दुनेत्रं निजजनममृतेनोक्षयाप्याययद्य-
द्योगीन्द्रानन्दसिन्धुं स्थगयति भृशमध्यात्मलेशोदयेन ॥ ७२॥
चण्डाग्निं दृष्टिकुण्डे स्मर निटिलतटीमण्टपे हिण्डमानं
कल्पान्तान्त्येष्टियज्वा समुदितजगतीसामिधेनीसमिद्धम् ।
यस्य ज्वालाह्वजिह्वामनु मदनमयोदीर्णपूर्णाहुतीनां
जुह्वत्प्रह्वातिभासां निजपरुषरुषां शान्तिकर्मान्तरोऽभूत् ॥ ७३॥
कामक्रोधादिबाधादुदियदुरुमरुद्वेपमानोऽतिमज्जन्
संसारापारवारान्निधिषु चिरमघादुच्चरद्गद्गदोक्तिः ।
जाड्येनाढ्यम्भविष्णुर्यदुपगमवशादस्तजाड्यादिरास्ते
सुस्थः स श्रेयसे स्तान्निटिलनयनतामाश्रयन्नाश्रयाशः ॥ ७४॥
लालाटी दृष्टिरिष्टं झटिति घटयतु द्रष्टृपङ्क्तौ सुखाना-
मद्वैतं भोक्तुमिच्छौ निजसुकृतपरीपाकपात्रानुरूपम् ।
भूयः प्रेङ्खत्कटाक्षामृतमतिविषमं व्युत्क्रमेणादधत्याः
अत्याश्चर्यं तथापि स्थितिरतितपना जागरूकास्ति यस्याः ॥ ७५॥
कल्पान्तोत्तालकालानलकुटिलचलज्ज्वालजिह्वाकरालं
तापार्ते शीलशीलं सजलजलमुचां शीलयद्यत्तथापि ।
तार्तीयीकेक्षणं तत्स्मरति मखमुषो दग्धकामादमुष्मा-
दाश्चर्यं वीतकामाः स्वयमपि मुनयः पूर्णकामा भवन्ति ॥ ७६॥
ज्योतिः सर्वातिशायिप्रभुनिटिलतटीलक्ष्मणोऽभीक्ष्णमक्ष्णो
बुद्ध्या दध्यादमुष्मिन् यतिवरदहरव्योमनि भ्राजमाने ।
क्व क्लेशार्कप्रकाशोऽपसरति विषयज्योत्स्नया वाक्यलीनं
किं वान्यद्यस्य पश्चादनुसरदवचोगोचरं ज्योतिरास्ते ॥ ७७॥
रौद्रे भालाक्ष्ण्यभिख्या मदनपितृवने भैरवी भावनीया
सिध्यादद्वैतवेदागमसुगममतिर्भक्तिमार्द्वीकमद्यैः ।
जीवं यस्यै निवेद्यामृतमथ किमपि प्राश्य दूरे च कृत्वा
प्रावृत्याक्षेपमेतद्विषयसमुदयं विस्मरन्नेव माद्येत् ॥ ७८॥
अत्र्यैरुस्त्रैः स्ववर्ग्यैर्व्यवहितकृपणानुग्रहव्यग्रभाव-
प्रादुर्भावाय याभूत् किल तदितरयोर्नेत्रयोरूर्ध्वमास्ते ।
केनानाम्नायधाम्रा ज्वलति जगति च श्रीप्रभोश्चोपमौलि
ग्राह्या सा भालदृष्टिः कृपयतु भवतो भीतभीतान् भवार्तेः ॥ ७९॥
भैमं भालाक्षि भाव्यं मुनिजनमनसां भक्तिसाम्राज्यभाजा-
माजन्माखण्डदण्डायितसुकृतशतेनाप्यमध्यूषुषां यत्
श्वेतच्छत्रायमाणा शिशिरकरकला कोटिकोटीरहीर-
ज्योतिश्चन्द्रातपाभश्चलविततकरे कुण्डले चामरे द्वे ॥ ८०॥
खद्योतद्योतवद्योऽहनि बत विशतां शीततामागतोऽसौ
क्रूरः कालाग्निकीलो भव विभवनिभो यस्य वीर्यादशीर्यत् ।
संवर्तोद्वर्तनृत्यद्द्युमणिघृणिघृणां प्रस्तुवन्तं वितन्त्रं
चन्द्रापीडे तमीडे कटुतरकुटिलं नैटिलाक्ष्णः कुशानुम् ॥ ८१॥
चण्डीकान्तस्य गण्डस्थलममलतलं राजतादर्शदृश्यं
नामास्तां दर्शनीयं हृदि बत यदहो यत्र योगीन्द्रचित्ते ।
यद्यासीत्साम्मुखीनं क्षणमिदमुदरे देशतः कालतो वा
सोत्कर्षं विप्रकर्षन्नपि विषयचयः प्रत्यहं प्रत्यफालीत् ॥ ८२॥
सत्रध्रुट्श्रोत्रकूपं कलयत ललितं सा मनीषा मुनीनां
यत्प्रावीण्येन पूर्वं तटनिकटचरीसंसृतेः खिन्नखिन्ना ।
चातुर्यप्रेर्यमाणा यमनु निपतिता न त्यजेद्यत्समाधिं
दूरे कृत्वा कलिं तत्त्रिजगति विदितं दीर्घदर्शित्वमस्याः ॥ ८३॥
बालेन्दुं चन्द्रमौलेः स्मर सततमसौ शाम्भवोऽस्मीत्यहंयुः
प्रोद्यन्नास्ते ममास्तेऽप्ययमिति तरणावीर्ष्यया कर्शितांशुः ।
मुक्तिद्वाराधिकारं तदधिकमतनोद्द्वादशात्मा स चासी-
न्नानात्मा स्यामितीच्छुः स्वनतिततिकृतश्चन्द्रचूडानकार्षीत् ॥ ८४॥
स्वर्गाद्गङ्गाप्रवाहः सगरसुतचिताप्यायनायायमानोऽ-
शङ्क्यं तत्साहसिक्यं त्विदमिति विमृशन्नध्वमध्येऽप्यधीत्य ।
सन्तप्ताप्यायनी यत्सविधमधिवसन् कृत्यकृत्यै समागात्
सांहःसङ्घातहत्यै रजनिकरकला शाम्भवी बोभवीतात् ॥ ८५॥
न व्याधिव्याधबाधा न च भवदवजा ज्वालमाला नवाला
वालाह्वा वागुरा वेति च विमृश मनःकीर रे नीडयास्याम् ।
सान्निध्यात्सिद्धसिन्धोरतिशयसुभगम्भावुका भावुकानां
मूलं नानाफलानां प्रलयनटजटाजूटकूटाटवीयम् ॥ ८६॥
भाव्या भावाः कपर्दाः मुकुटपुटनटद्धेमरुग्वल्लिकल्पा
योगीन्द्रस्येन्द्रियाणामुपयमनकृते रज्जवः सज्जमानाः ।
ध्यानाध्वन्यध्वनीनाः क्वचिदपि न कदा संशयानाशयानां
दुःसर्पा एत एवं यदुदभवदहो नित्यनिर्बाधबोधः ॥ ८७॥
सर्वाखर्वाघसङ्घक्रथनकृतिकृते हैमनाराचधारा
स्फोटत्कोटीरकोटिर्नटतु पटुतरं हृत्तटे धूर्जटेर्मे ।
नाडीनामेकधाटी यदियमृषिततेः प्राणसन्धारणीना-
मस्यां पश्यन्ति विश्वे प्रतिनियतमतो जीवनस्यानुबद्धम् ॥ ८८॥
त्रैयक्षे जूटकूटे विहरतु हृदयं ब्रह्मवद्यन्नमेयं
तत्तादृग्ब्रह्मलोकादपि परमसुखस्यास्पदं च प्रतीमः ।
यद्भक्त्या ब्रह्मलोकात् त्रिदशसरिदुपागत्वरी सत्वरेण
स्वच्छन्दं स्यन्दमाना चिरमिह परतो गन्तुमीहामहासीत् ॥ ८९॥
अध्यारोहन्तु तेऽन्तःकरणतरुवरं प्राणिसत्कर्मराजी
बीजात्सञ्जायमानाः पुरविजयिजटाकल्पवल्लीमतल्ल्यः ।
यासामाबाललीलावलिशशिकलया याश्च सङ्कल्पपूर्त्यै
कल्पन्ते निर्विकल्पं सकलसुमनसां चाश्रयाः सत्फलानाम् ॥ ९०॥
श्रीपक्षीन्द्रध्वजेनादृतमहिमतते रक्षणक्लेशपक्षो
हंसोत्तंसाधिकारं मनसि बहुचिरेणेप्सितं वीप्सयामि ।
भक्त्या यं पक्षयित्वा गतिविदथ गणोऽपक्षतीनां यतीनां
धिक्कृत्वा षड्विपक्षान् सुखतरमयते तत्पदं तादृगुच्चम् ॥ ९१॥
ब्रह्मज्योतिर्विवर्तायितनिजसलिले जह्नुजे स्वामिशीर्ष्णां
सीमोपस्कारकारिण्यधिनिरयरयो वार्यतामार्यवर्ये ।
यत्त्वं दुर्बोधतत्त्वे भगवति भवतीं ये नमन्तीह सन्त-
स्तेषां मूर्धानमारोहसि तव तदयं दुर्विभावः स्वभावः ॥ ९२॥
आरोढुं ब्रह्मधाम स्फटिकमयमहोत्तानसोपानपाली
ब्रह्माण्डे ब्रह्मणा या श्रुतिसुरसुरभेर्दुग्धदुग्धायमाना ।
सम्पद्यन्ते यदेते विभुमुकुटमणे देवि ते वामदेवे
सम्बन्धस्यानुबन्धात्फलमखिलमिदं जह्नुकन्येऽद्य मन्ये ॥ ९३॥
यो योऽपप्तत् सुतप्तो निजघनवृजिनैनिर्भरं दुर्भरत्वा-
दूर्ध्वं ते यान्ति धौताखिलमललघवो यत्पृषस्पर्शलेशात् ।
आनन्दाद्वैतपद्या पथिकनिजजनो ब्रह्म सब्रह्मचारी
गाङ्गः पूरः पुनीतां प्रभुतनुरुचये नित्यदत्तस्वहस्तः ॥ ९४॥
सा त्रिस्रोताः पुनीतां त्रिभुवनजनतापावनी जीवनीया
वैकुण्ठे तन्निनीषारभसपरवशत्वाद्बहिर्भूय तस्मात् ।
ये जिह्मं ब्रह्मलोकं प्रतिजिगमिषवस्तादृशानां महेश-
स्याङ्घ्रेर्मूलं हि मूलायतनमिति मतेर्नूनमत्रागतास्ते ॥ ९५॥
गौरीभर्तुः शरीरं विमृशत सुषमासीमरत्नाकरेऽस्मिन्
सम्मीलद्धृष्टदृष्टिश्वसनततितदेकाग्रजाग्रन्नितान्तम् ।
मज्जन्तो दासवर्या हृषिततनुरुहाः कम्पसम्पन्न देहा
लब्ध्वा चिन्नूत्नरत्नं कथमपि सुचिरेणैव निर्वान्ति हन्त ॥ ९६॥
शश्वत्कस्मैचिदस्मै दुरधिगमतमैश्वर्यभाजे नमस्ते
गौरीजानेऽर्धजाने कियदभिलषतेऽकिञ्चनानां चयाय ।
यत्त्वं सायुज्यचर्यां वितरसि तरसा सर्पकोटीकरोटी-
मालाहालाहलाद्यैर्धनवत इह ते दुर्गतत्त्वं हि बीजम् ॥ ९७॥
मुक्तिश्चाधूलिकेलिप्रथमसहचरीवास्ति यस्याश्च वश्या
दासीवासीत्त्रिवर्गी विधिवधुपदवी साधुसैरन्ध्रिकेव ।
त्यक्त्वातङ्कं यदङ्के दुहितृवदनिशं चेष्टते चाष्टभूतिः
सा भक्तिर्भक्तबन्धौ जगदशिवशिवे श्रीशिवे नित्यमास्ताम् ॥ ९८॥
पायादायासखेदक्षुभितफणिफणारत्ननिर्यत्ननिर्य-
च्छायामायापतङ्गद्युतिमुदितवियद्वाहिनीचक्रवाकम् ।
अभ्रान्तभ्रान्तचूडातुहिनकरकलालीकनालीकनाल-
च्छेदामोदानुधावद्द्रुहिणरथखगं धूर्जटेस्ताण्डवं वः ॥ ९९॥
शीर्षाणि न्यञ्चि किंञ्चित्त्वयि विदधति ये तेष्ववाञ्चेद्विरिञ्चि-
र्यस्तावत् स्तावकस्ते तममरपरिषद्व्यस्तमस्ता स्तुवीतात् ।
धत्ते चित्ते प्रमत्ते य इह तव पदं तं च मध्येसमाधि
ध्यायेद्योगीन्द्रवृन्दं प्रणतसुरतरो तं भवन्तं प्रपद्ये ॥ १००॥
नाट्यं खट्वाङ्गपाणेर्मनसि नटयताद्विभ्रमेण भ्रमीणा-
मामूलच्छिन्नबन्धभ्रमदखिलजगद्दारुणं प्रस्तुतेऽस्मिन् ।
घूर्णद्भूचक्रघृष्टोत्कटकमठमहापृष्ठनैष्टुर्यनिष्ठा-
निष्ठ्यूताच्छिन्नधारज्वलनकणकणैर्दीपिकाकृत्यमासीत् ॥ १०१॥
उन्मीलत्कम्पसम्पच्चलदचलमिथःस्पष्टसङ्घट्टरुग्ण-
ग्राव्णां निर्घोषदैर्घ्यैः पटुपटहरवाडम्बरोऽपि व्यडम्बि ।
उद्वेलोद्वेल्लदब्धेः समसमयवलल्लोलकल्लोलतालै-
रुत्तालाताललीलाभयसमुपनमद्ब्रह्मकाकुश्च गीतिः ॥ १०२॥
॥ इति श्रीशिवशतकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan