रामपाणिवादविरचितं शिवशतकम्

रामपाणिवादविरचितं शिवशतकम्

॥ श्रीः ॥ नमस्ते गौरीश! त्रिपुरहर! शम्भो! त्रिनयन ! प्रसीद श्रीकण्ठ! स्मरहर! ममाघं हर हर! । भवाम्भोधेरस्मादयि भव! भवानुद्धरतु मां कृपामुग्धैः स्निग्धैरविकलमपाङ्गैनुगुणैः ॥ १॥ अतुच्छश्रीरच्छस्फटिकमणिशुभ्रैरवयवै- र्दधन्नानारूपं भुजगमयमाकल्पपटलम् । जटाजूटभ्राजत्त्रिदशतटिनीचन्द्रशकलः कृपाम्भोराशिस्त्वं शमय शमलं मे पशुपते! ॥ २॥ चलच्चारी चक्रभ्रमणरमणीयाभिनयन- झ्झलत्कारि प्रेङ्खत्फणिवलयमञ्जीरकटकम् । कपर्दव्यामर्दस्फुटमुखरगङ्गोर्मिपटलं तवावन्ध्यं सन्ध्यानटनमहमीडे पुररिपो! ॥ ३॥ समानन्दन्नन्दिप्रहतमुखारावमधुरं समुद्गायत्कालीकरकलिततालानुमिलितम् । स्तुतं भूतप्रेतैस्सुरदनुजसामाजिकमनो- विनोदं ते नृत्तं नुदतु दुरितं मे स्मररिपो! ॥ ४॥ कपालैर्मूर्धन्ये निटिलतटनेत्रानलशिखा- विलीनेन्दुस्यन्दामृतघटितजीवैरभिनुतम् । वलद्भूपाभोगिप्रकरखरशूत्कारमुखरं धुतालस्यं लास्यं तव शिव! शिवं मे वितरतु ॥ ५॥ पदक्षेपोत्क्षेपक्षणपरिणतोन्नम्रधरणी- भरक्लान्ताशान्तद्विरदकृतफीट्कारपरुषम् । नटन्नानावेषप्रमथगलहुङ्कारबहलं भजेऽहं भो शम्भो! तव तमनघं ताण्डवमहम् ॥ ६॥ मुहुर्मूर्धोद्धूतिश्लथभुजगरज्जुप्रविसर- ज्जटाझाटालीढस्फुटिततटिदुद्गारिमुदिरम् । हरिच्चक्रातीतप्रकटभुजसाहस्रमयि ते विना जाड्यं नाट्यं विघटयतु शूलिन्! मम रुजम् ॥ ७॥ कराग्रव्यावल्गड्डमरुकचमत्कारकलिलं करालं चामुण्डागलविगलितैरट्टहसितैः । अरीणाहिश्रेणीमणिमहितकाञ्चीकलकलं पुरारे! पापं मे हरतु भवतो नर्तनमिदम् ॥ ८॥ ममापायं सायन्नट! झटिति निर्धूय भगव- न्नुमाजाने! तुष्टो भवतु भुवनाधीश्वर! भवान् । क्षमेथा नाथ त्वं सकलमपराधं मम विभो! नमस्तुभ्यं मृत्युञ्जय! जय जयानङ्गविजयिन्! ॥ ९॥ गिरीश! श्रीकण्ठ! त्रिपुरहर! शम्भो! त्रिणयन! स्मरारे! कालारे! भव! मृड! पिनाकिन्! पशुपते! । विरूपाक्ष! स्थाणो! शशिमकुट! हे शङ्कर! शिव! प्रसीद त्वं गङ्गाधर! हर! महादेव! भगवन्! ॥ १०॥ उत्तंसीकृत मुग्धचन्द्रमुकुटं त्वङ्गत्तरङ्गोल्लल- द्गङ्गाविष्टकपालकन्दरझरीझात्कारवाचालितम् । नद्धं देव! सुवर्णवर्णभुजगश्रेण्या तवात्युन्नते- रभ्रान्तभ्रमदभ्रजालकलितामर्दं कपर्दं भजे ॥ ११॥ फालाक्षिज्वलदाशुशुक्षणिशिखालेलिह्यमानाम्बरं चन्द्रार्कात्मकचारुलोचनयुगं चिल्लीलतोल्लासितम् । चञ्चत्कुण्डलिकुण्डलद्वयलसद्गण्डं सुनासापुटं बिम्बोष्ठं मृदुहासभासुरतरं वन्दे तवास्याम्बुजम् ॥ १२॥ कण्ठस्ते शितिकण्ठ! कम्बुसदृशः काकोलरेखाङ्कित- श्श्लिष्टानेकभुजङ्गहारपटलीसंव्यानभव्योत्तरः । भस्मालिप्तमुरश्च निश्चलरसं गौरीकुचाश्लेषणा- दासक्तामलकुङ्कुमं सुमधुरच्छायं ममास्तु श्रिये ॥ १३॥ सर्पज्यापरिघृष्टिनिष्ठुरकिणोत्कृष्टकोष्ठाश्च ते मालाशूलकपालरङ्कुपरशुप्रायैरतिप्रोज्ज्वलाः । अष्टाविष्टवराभयप्रदधुराश्श्लिष्टाहिरत्नाङ्गदाः दुष्टध्वंसनशिष्टरक्षणपरा रक्षन्तु मां बाहवः ॥ १४॥ निर्मज्जत्तरनाभिरन्धनिपतत्काञ्ची भुजङ्गावली- नीलाश्मद्युतिजालमीलितनिजश्यामत्वरोमावली । अव्यान्मामवलग्नमीश्वर! तव व्याघ्राजिनावेष्टना- दत्यन्ताद्भुतहेतुरुद्भटरुचिश्रोणीविभागश्च सः ॥ १५॥ ऊरू माररिपो! तवोरुकदलीस्तम्भातिशुम्भत्तरौ मुक्ताशुक्तिसमुद्गवल्गुविशदश्रीशालिनी जानुनी । नम्राणामचिरान्निराकृतविपत्सङ्घे च जङ्घे शुभे मञ्जीरोरगमञ्जुशिञ्जितभृतौ पादौ च वन्दामहे ॥ १६॥ नित्यानम्रनिलिम्पराजमकुटीनिर्मृष्टरेणूत्करं निश्शेषाघनिघा(त) साधकतमं निर्वाणनिष्पादकम् । निष्प्रत्यूहसमाधिशोधितधियामन्तःस्फुरत्सन्ततं निस्तन्द्रं तव नीलकण्ठ! चरणद्वन्द्वं निषेवामहे ॥ १७॥ अङ्कारोपितपार्वतीकमभितस्संसेव्यमानं गणै- रध्यासीनमधित्यकामविरतं कैलासभूमीभृतः । नन्दिस्कन्दगणेशभृङ्गिरिटिभिर्नम्रैरमुक्तान्तिकं नाथ! त्वामनिशं नमामि परचिन्मूर्ते! पशूनाम्पते! ॥ १८॥ मुक्ताभङ्गपि(न)द्धसत्त्वविशदाकारं मुदामाश्रयं मुक्तासङ्गमुनीन्द्रवृन्दमनसामासाद्यमाद्यं महः । मुग्धस्मेरमुखारविन्दमतुलं मुग्धेन्दुलेखाधरं मुक्तेरास्पदमाविरस्तु पुरतो मुढात्मनो मे विभो! ॥ १९॥ श्रीकण्ठाय नमः श्रिताखिलजनश्रेयस्कृते ते नम- श्चण्डीशाय नमश्चराचरजगज्जीवात्मने ते नमः । सर्वज्ञाय नमस्समस्तशमलप्रध्वंसिने ते नमो भूतेशाय नमो भुजङ्गपटलीभूषाभृते ते नमः ॥ २०॥ पुरहर! भवद्भक्ता दृप्ताः पुरा त्रिपुराभिधा विजितजगतश्शक्त्या दैत्यास्त्रयः किल जज्ञिरे । प्रथितमवनौ गोकर्णाख्यं प्रपद्य भवत्पदं सपदि तपसा धोरेणामी विरिञ्चमतोषयन् ॥ २१॥ तदनु दनुजैस्तस्मात्तिस्रः पुरो बत! लेभिरे कनकरजतायोभिः क्लृप्ताः जगद्विचरिष्णवः । सरभसममूरध्यारूढैर्गृहीतजटादिक- स्फुटतरभवल्लिङ्गैरङ्गैर्जगन्ति बभञ्जिरे ॥ २२॥ कनकभवनं ज्यायानस्यानुजो रजवालयं स किल परमो लोहागारं क्रमादभजन्त ते । त्रिदिवधरणीपातालानि व्यजेषत ते त्रयो ननु भव! भवद्भक्तिर्व्यर्था निसर्गदुरात्मनाम् ॥ २३॥ निजपदपरिभ्रष्टाः कष्टं त्रिविष्टपवासिनो धरणिशरणा भोगीन्द्राश्च प्रचेलुरितस्ततः । अधिकविधुरास्सर्वे दिव्या विरिञ्चमुपासत त्वरितमयमप्येतैस्सार्धं मुकुन्दमुपेयिवान् ॥ २४॥ अथ मधुरिपुस्त्वद्भक्तानां पुरां पुनरात्मना वधमसुकरं जानानोऽपि प्रकाममुपायवान् । द्रुतमिव भवन् बुद्धाचार्यस्स बोधितरोरधो जिनवरमतं वीणापाणिं मुनीन्द्रमशिक्षयत् ॥ २५॥ विरमत तपोदुःखान्मूर्खाः कलेवरकर्शनात् न खलु परलोको वा क्लेशो यदर्थमपार्थक । क्व पुनरपरो देहादात्मा क्व वा शिव इत्यसौ कलहरसिको विष्णोशिशष्यो जजल्प जगत्पते! ॥ २६॥ तदनु मिलितास्तत्रैवामी त्रयोऽपि महासुरा जिनमुनिमहावृदाद्धादध्यैयताखिलमागमम् । जहुरथ जटाभस्माक्षस्रग्भवत्प्रतिमादिकं निखिलमखिलेश! त्वामुच्चैरशङ्कमपाहसन् ॥ २७॥ मुनिवरमुखादाकर्ण्य त्वं पुरत्रयचेष्टितं झटिति घीटतात्क्रोधादुच्चेस्तरामुदजृम्भथाः! । घणघणरणत्घण्टोत्कण्ठं महोक्षमधिष्ठितः सरभसमवारुक्षो रूक्षाकृतिः स्फटिकाचलात् ॥ २८॥ समजनि रथस्तावत्क्षोणी रथाङ्गतया स्थितौ मिहिरशशिनौ धाता सूतः कशा प्रणवोऽभवत् । । अपि च तुरगा जाता वेदा धनुः कनकाचलः शिखिमुखमरुत्पक्षो बाणः स्वयं मधुसूदनः ॥ २९॥ फणिवरगुणे सन्धायास्त्रं हरिं गिरिकार्मुके निटिलनयनज्वालोन्मिश्रैस्तदग्निशिखाशतैः । क्वचन युगपत्प्राप्तं भस्मीचकर्थ पुरत्रयं त्रिभुवनपते! यस्त्वं स त्वं प्रसीद नमोऽस्तु ते ॥ ३०॥ अप्रत्युत्थायिनं त्वां प्रति कुषितमतिर्दक्षनामा प्रजासृट् क्षिप्रं प्रारब्धदर्पात्रिपुरहर! भवद्भागवर्जं स यज्ञम् । विश्वस्तैर्विश्वसृड्भिस्सह महति भृगुप्रायक्लप्तक्रियाके तस्मिन्नुज्जृम्भमाणे सति समुपसरत्सर्वसौवर्गवर्गे ॥ ३१॥ सोमाद्यैर्दक्षजामातृभिरभिमिलितस्वस्वदारैरुदारै- र्याने प्रस्तूयमाने भव! तव रमणी तत्क्षणं दक्षपुत्री । मा गा मद्भागवन्ध्यं मखमसुखकरं द्रष्टुमित्यष्टमूर्ते! संरुद्धापि त्वया सा सपदि गतवती दैवयोगो बलीयान् ॥ ३२॥ उक्षारूढाथ गत्व सह गणनिवहैर्यज्ञशालां विविक्षु- दक्षेणाक्षेपरूक्षाक्षरमभिलपता वारिता द्वारि तावत् । निन्दन्ती चन्द्रमौले! निजमपि वितरनिर्भरक्रोधशोका पात्रं कान्तेः स्वगात्रं सपदि भगवती योगवह्नावहौषीत् ॥ ३३॥ भूतास्तावत्प्रभूता झटिति कटुतरक्रोधभारातिघोरा भञ्जन्तो यज्ञवाटं भयभरतरळानृत्विजस्ताडयन्तः । सर्वान् संहर्तुकामास्सपदि भृगुरुतादुत्थितैराश्रयाशा- दुद्दामोद्रिक्त सारैरृभुभिरभिहता रुद्र! विद्वावितास्ते ॥ ३४॥ श‍ृण्वन् कर्णद्रुहं तद्द्रुतमुपसरतो नारदाद्दारनाशं क्रुद्धो मूर्ध्नः समुत्पाट्य च सपदि जटामक्षिपस्त्वं धरित्र्याम् । स्थूलद्राधिष्ठगात्रस्फुटविवृतमुखः स्पष्टदंष्ट्रः प्रनर्द- न्नुद्भूतः कोऽपि कोपारुणपृथुनयनो भूतलाद्भूतराजः ॥ ३५॥ दक्षं दुर्नीतिदक्षं जहि विहतमखो वीर! हे वीरभद्र! क्षुद्रोऽसावप्रियं नः सुबहु विहितवानित्थमेनं न्ययुङ्क्थाः । सोऽपि प्रीतिप्रकर्षद्रुततरचरणन्यासनम्रीकृताद्रि- र्भूतैः सार्धं प्रतस्थे मुखरितभुवनो निष्ठुरैरट्टहासैः ॥ ३६॥ शम्भो! सद्भ्रान्तजम्भान्तकवरुणमरुद्धर्मवित्ताधिनाथं बिभ्यत्सभ्यं विविग्नद्रवदतिथिजनं यज्ञवाटं विभिन्दन् । उत्कृन्तन्नुत्तमाङ्गं भुवि विनिपतितस्याशु दक्षस्य तस्य प्रक्षोभी वीरभद्रो गतघृणमजुहोत्तत्क्षणं दक्षिणाग्नौ ॥ ३७॥ कुर्वन् दुर्बारवीर्यस्तव भुवनपते! शासनं भासमानो मानोद्रिक्तावलेपप्रमथपरिवृतो धीरधीर्वीरभद्रः । सद्यः सम्प्राप्य सम्प्रीणितसकलजनस्नेहवन्तं भवन्तं व्यानम्राताम्रभूरिस्फुटविकटजटास्पृष्टपादो ववन्दे ॥ ३८॥ सन्त्रस्तास्तत्र सङ्क्रन्दनधनदशिखिप्रेतराजप्रधाना- स्सर्वे गीर्वाणसङ्घास्सह शतधृतिना तुष्टये तुष्टुवुस्त्वाम् । प्रीतस्त्वं जीवयामासिथ विगलदसुं दग्धमस्तं तु दक्षं प्रायस्त्वं प्राणयामासिथ पशुशिरसा निर्वहन् पूर्वकायम् ॥ ३९॥ दाक्षायण्या विनाशादुपरतहृदयो रुद्धसर्वेन्द्रियस्स- न्नासीनस्त्वं हिमाद्रौ महसि परतरे लीयमानान्तरात्मा । प्रारब्धाश्शर्व! निर्वाणकृदपि तपसि व्यापृतानां तपांसि श्रेयस्कामाय मह्यं स हि सकलपते! चन्द्रचूड! प्रसीद ॥ ४०॥ योगोत्सृष्टस्वतनुरतनुप्रेमभारा सती सा मेना नाम्नि क्षितिधरपतेर्वल्लभायां जनित्वा । रत्या सार्धं भवति भगवन्नङ्गरेखामपुष्णात् पूर्वाभ्यस्तं त्यजति न शरीरान्तरस्थो हि जीवः ॥ ४१॥ तातादेशं सरसमुररीकुर्वती पार्वती सा साकं वृन्दैरनुपदि मुदा सम्मुखीनां सखीनाम् । ब्रह्मानन्दप्रवणमनसं ब्रह्ममूर्ते! भवन्तं पुष्पैर्माल्यैर्नियमसलिलैश्चादरात्पर्यचारीत् ॥ ४२॥ देवास्तावद्दनुजपतिना तारकेणाभिभूता- श्शक्राद्यास्ते शतधृतिमुपासाद्य सर्वं शशंसुः । सोऽप्यद्राक्षीत्क्षपिततपसः स्वीकृतायामुमायां वीर्याधानं वरद! भवतः स्वार्थसिद्धेरुपायम् ॥ ४३॥ तस्यादेशात्त्रिदशपतिना संस्मृतः पुष्पधन्वा रत्या साकं सह च मधुना सत्वरं सम्प्रपेदे । किञ्चानुज्ञामचलविमतस्यादरादाददानो मानोन्मत्तः शमनदमन! प्राविशत्त्वन्निवासम् ॥ ४४॥ मालेयोद्यत्परिमलभृता मारुतेनारुतेन आलेयाद्रौ परभृतततेश्चाधुनानो वनानि । स्वामुद्दिश्य त्रिपुरविजयिन्निक्षुचापः स्वचापे लोलम्बज्यामृदुनि समधादाशु सम्मोहनास्त्रम् ॥ ४५॥ किश्चिद्धैर्यस्खलनचलितो दिक्षु विक्षिप्तचक्षु- र्दक्षाराते! दरपरिगलन्माल्यधम्मिल्लभाराम् । गाढोत्कम्पस्तनभरपरिभ्रष्टपट्टोत्तरीया- माराध्यन्तीमचलतनयामैक्षथास्त्वं पुरस्तात् ॥ ४६॥ मुग्धस्मेरं मुहुरुपचितं त्रासलज्जानुराग- व्यक्तीभावप्रवणनयनोपान्तमस्या मुखाब्जम् । पश्यन् किञ्चिद्धृत इव भवानङ्ग श‍ृङ्गारलक्ष्म्या सद्यो बुद्ध्यन्नथ पशुपते! हेतुमत्रान्वियेष ॥ ४७॥ तत्रापश्यों वलयितधनुर्न्यस्त सम्मोहनास्त्र- स्तिष्ठन्तं तं त्रिणयन! महाडम्बरं शम्बरारिम् । क्रोधोद्रेकप्रकटकुटिलभ्रुकुटीभीमवक्त्र- स्तार्तीयीकं नयनमकृथाः किञ्चिदुत्पक्ष्मलं त्वम् ॥ ४८॥ कल्पापायेष्वखिलभुवनग्रासगृध्नोरमुष्मा- दूष्मोत्कर्षग्लपितविबुधोत्तंसमन्दारमौलेः । प्रत्युद्वान्तैः स्फुटकटुरवैर्मारमह्नाय वह्ने- र्ज्वालामालैरकुरुत भवान् भस्समात्रावशेषम् ॥ ४९॥ त्रासोद्भ्रान्तत्रिदशपटलीदूरमुक्तान्तरिक्षा- दस्माद्देशादतिमुखरितान्मारवध्वा बिलापैः । अन्तर्धाय प्रमथनिकरैस्सार्धमर्धेन्दुमौले! कैलासाद्रिं समुपगतवान् पातु रोगाद्भवान् माम् ॥ ५०॥ भयोपहितवेपथुत्रुटितबन्धसन्धारित- प्रभूतकबरीभरा सपदि शैलराजात्मजा । ससम्भ्रममुपेयुषा किल तुषारभूमीभृता निजं पदमनीयत प्रचितकेलिरालीजनैः ॥ ५१॥ भवन्तमखिलेश्वर! प्रकृतिदुर्लभं वल्लभं विधातुमनसा तया विषमवाणविध्वंसिनम् । स्वमातृपितृबन्धुभिश्चिरनिरुद्धयापि क्षणा- दुपाक्रमि तपो महच्चरितुमेव तत्रोमया ॥ ५२॥ विहाय विहृतौ रतिं विमलभूषणान्युज्झती विधार्य तरुवल्कलं विदधती जटामण्डनम् । विविक्तमभिलाषुका विपिनचाटमासेदुपी विशेषविजितेन्द्रिया वितनुते स्म तीव्रं तपः ॥ ५३॥ शनैरनशनाय यावधुतपर्णयापर्णया विसोढतुहिनावपाश्रजलधारया धीरया । अनारत भक्त्परस्मरणधन्यया कन्यया मुदा स्थितमुदारया सुचिरमेतया पूतया ॥ ५४॥ परीक्षितुमुपागतो वरद! वर्णिलिङ्गी भवा- नुदाहृततदादृतव्रतविशेषदोषोऽपि सन् । तदीयदृढनिश्चयोदितनितान्तसन्तोषितो निजं वपुरपप्रथत् पृथुमहो महामोहनम् ॥ ५५॥ विलोक्य तपसः फलं विमलहासमुग्धाननं विलोलफणिकुण्डलं बिलसदिन्दुचूडामणिम् । भवन्तमचलात्मजा बहलरागलज्जाकुला विकम्पितघनस्तनी विनिममज्ज मोदार्णवे ॥ ५६॥ विसृज्य भवनाय तां विरहदूयमानो भवा- नयाचत हिमाचलं मुनिमुखेन मुग्धेक्षणाम् । स चापि सचराचरत्रिभुवनेश्वरं शाश्वतं भवन्तमनुजज्ञिवानतिमुदैव जामातरम् ॥ ५७॥ विवोढुमचलात्मजामचलतोऽचलस्त्वं विभो! विशेषमणिभूषणायितकपालसर्पावलिः । गृहीतसितचामरैश्शतमखादिभिश्चामरै- स्समं च मधुवैरिणा मुदितचेतसा वेधसा ॥ ५८॥ समेत्य हिमवत्पुरं समुपक्लृप्तवैवाहिक- प्रशस्तशुभवस्तुकं प्रमथनाथ! तुष्टो भवान् । उपायत कृपानिधे! गिरिवरेण दत्तामुमा- मशोभत स तावकालिकदृगग्निसाक्षी विधिः ॥ ५९॥ प्रपद्य रजताचलं प्रकृतिरम्यया धर्म्यया सहैव शिवशीलया सरसलीलया बालया । तया सततमारमन्नमितमोदशाली भवान् भवार्णवविघूर्णितं वरद! पातु मामातुरम् ॥ ६०॥ परिणतघनरागरम्यभावां गिरितनयामधिरोप्य वाममङ्कम् । गिरिवरमणिमन्दिरे विराजन् गिरिश! विभो! परिपालयानिशं माम् ॥ ६१॥ अविरतमवतंसितार्धचन्द्रं प्रविलसदण्डजकुण्डलाभिरामम् । परशुमृगसनाथपाणिपद्मं परमशिव! प्रणमाम्यहं भवन्तम् ॥ ६२॥ निरवधिनिगमान्तशीलनेन स्फुटजनिताद्वयवोधशोधितानाम् । अविरलतममात्मनि स्फुरन्तं भजतु मनो मम निष्कलं भवन्तम् ॥ ६३॥ अपरिमितमनादिमन्तहीनं विमलमविक्रियमक्रियं विशालम् । जनवचनधियामगोचरं तं भजतु मनो मम निष्कलं भवन्तम् ॥ ६४॥ प्रतिफलदिव भाति यत्र शुद्धे स्फटिकमणाविव कार्यजातमेतत् । कमपि तमतमस्कमद्वितीयं भजतु मनो मम निष्कलं भवन्तम् ॥ ६४॥ सृजति किल जगन्ति साक्षिमात्रे स्थितवति निश्चलधाम्नि यत्र माया । यमियमिह जनाय निह्नुते तं भजतु मनो मम निष्फलं भवन्तम् ॥ ६६॥ बहिरबहिरपि प्रकाशमानं ननु जगतो विगतोच्चनीचभावम् । उपनिषदुपगूढमुज्ज्वलं तं भजतु मनो मम निष्कलं भवन्तम् ॥ ६७॥ अनुभवरमणीयमर्थनीय निरुपधिभक्तिगुणेन गम्यमाहुः । परचिदनघरूपमव्ययं तं भजतु मनो मम निष्कलं भवन्तम् ॥ ६८॥ जननमरणसिन्धुमुत्तरीतुं शरणमियं खलु यस्य भावनैव । तमिमममितसम्मदातिसान्द्रं भजतु मनो मम निष्कलं भवन्तम् ॥ ६९॥ परमशिव! पुरान्तकान्तकारे! गिरितनयारमणार्धचन्द्रमौले! । त्रिणयन! हर! शङ्कर! स्मरारे! वृषवरवाहन! धूर्जटे! नमस्ते ॥ ७०॥ कल्पस्यादावुदीतं किल किमपि महस्तावक देव शम्भो! गम्भीरिम्णा गरिम्णापि च विपुलतया चापरिच्छेद्यमाद्यम् । अत्यादित्यं तदत्युन्नतमतिविमलं वीक्ष्य सार्धं सुरौघै- स्सम्भूता विष्णुजम्भान्तकशतघृतयो विस्मितास्ते बभूवुः ॥ ७१॥ कस्येदं किं प्रमाणं किमधिकरणमित्यत्र जिज्ञासमानौ मानोत्सिक्तावधस्तादुपरि च युगपज्जग्मतुस्तिग्मवेगौ । कृत्वा वृत्रारिमत्र प्रतिभुवमगजाकान्त ! विष्णुर्विधिश्च प्रज्ञावन्तावपीमाविह तु विदधतुर्मोहतस्साहसिक्यम् ॥ ७२॥ तत्राधोमार्गगामी मधुरिपुरतलादीनथो सप्तलोकाँ- ल्लङ्घित्वा कारणाम्भोनिधिमधिकजवेनावगाढो विचिन्वन् । दिव्यानां वत्सराणामयुतमयमतीयाय नैवोपलेभे भूमन्! धाम्नोऽवधिं ते तदनु निववृते वन्ध्ययत्नः स देवः ॥ ७३॥ ऊर्ध्वं सप्तापि लोकान्द्रुतमधरयता वेवसा तावतोऽब्दा- न्मार्गित्वा मार्गखेदादाधिकविधुरितैरिन्द्रियैर्मन्दितेन । किङ्कर्तव्यत्वमूढेन च समधिगता केवलं दैवयोगा- न्मूर्धस्ते निष्पतन्ती मिलदलिपटला दिव्यहेमाब्जमाला ॥ ७४॥ दिव्यत्वादालपन्तीं तव भुवनविभो! मौलिमालां विदित्वा मत्पाणावल्पकालं वस निभृतमिति प्रार्थयामास धाता । सापि ग्राहं स्म कस्मैचन पुनरनृतं नाभिधातासि चेत् त्वं धातस्त्वत्पाणिमेयामिति विधिरपि तामेवमित्यभ्युपागात् ॥ ७५॥ पाणावादाय मालामथ मुदितमनास्सन्निवृत्तो विरिञ्चो यत्रास्ते वृत्रवैरी सह मधुरिपुणा तत्र सङ्गच्छते स्म । पृष्टस्ताभ्यां च दृष्टा किमु कमलभव! व्युष्टिरस्येति ताव- न्मूर्ध्नामेकं धुनानः परमनुमतवानञ्जसा पञ्चमूर्धा ॥ ७६॥ तावत्कोटीरभारस्फुरदमरधुनी वीचिलोलेन्दुले खं राजद्भूषाभुजङ्गं करकलितकुरङ्गोरुखट्वाङ्गशूलम् । वैयाघ्रं चर्म रम्पं परिदधदधिरूढं च तुङ्गं महोक्षं साक्षादास्थाय रूपं निजमजवलजिन्माधवेभ्यः स्थितस्त्वम् ॥ ७७॥ क्रोधेनोज्जृम्भमाणस्त्वमथ कमलजस्याशु मिथ्यावधूतं मुख्यं मूर्धानमूर्ध्वस्थितमलमलुनाः पाणिजैः पद्मलावम् । कृत्तोऽसावुत्तमाङ्गो मम भवतु तव व्यक्ष! भिक्षाकपालः त्वं भूया भिक्षुक(स्या ? श्चा)नियतमिह बहूनित्ययं चाशपत्त्वाम् ॥ ७८॥ शापश्चापन्नबन्धोस्तव भुवनतले सञ्चरिष्णोस्सहिष्णो- लोकानुग्राहकोऽभूदतिथिमसुलभं यद्भवन्तं लभन्ते । यावत्पूर्णः कपालो भवति पशुपते! तावदेनं त्यजेति ब्रह्मा ते शापमोक्षं व्यतरदतिमुदा प्रस्थितस्त्वं कपालिन् ॥ ७९॥ भिक्षां देहीति याज्ञापि हि महतितरा त्वन्मुखेन्दोः प्रवृत्ता वाञ्छन्ति श्रोतुमेनाममरयुवतयस्सन्निधानोत्सुकास्ते । योऽसावासाद्य सद्यो दिवमटति भवान् भिक्षुको दक्षवैरिन्! सोऽयं दारिद्र्यदुःखं मम हरतु महादेव! शम्भो! नमस्ते ॥ ८०॥ शरन्मेघश्वेतं शशधरकलाशेखरं लोकरम्यं शमस्यैकावास शमितशमलं शैलकन्योपगूढम् । शयाम्भोजभ्राजत्परशुहरिणं शङ्करं शान्तिभाजां शरीरं ते शम्भो! शतधृतिनतं शाश्वतं मे चकास्तु ॥ ८१॥ विशुद्धं विस्तीर्ण विजितविमतं विश्वलोकैकवन्द्यं विमुक्तेराधारं विमलचरितं विष्टपानामधीशम् । विराजन्तं स्वान्ते विरतविषये विश्रुतानां मुनीनां विभो! विज्ञेयं त्वां विनयविशदो वीततन्द्रं नमामि ॥ ८२॥ प्रसीद श्रीकण्ठ! प्रमदशमनप्राण संहारशूर! प्रपन्नार्तिध्वंसिन्! प्रवरवरद! प्राणिनामेकनाथ! । प्रकृष्टप्रज्ञानप्रथितनिलय! प्राप्तयेऽहं प्रशान्तेः प्रणौमि त्वामीश! प्रणववपुषं प्राञ्जलिश्चन्द्रमौले! ॥ ८३॥ चरित्रं ते स्तोतुं चरणयुगलं चारु चित्तेन धर्तु चलत्वं हित्वाहं चरमसमये चन्द्रचूडेति जप्तुम् । चतुर्वेदीमूर्ते! चतुरकरणश्चत्वरे वा बने वा चरन्नक्लेशः स्यां चपलचपलाचञ्चलासोर्वरं तत् ॥ ८४॥ परब्रह्मात्मानं परचिदमलं पार्वतीप्राणनाथं परिच्छेदातीतं परिणतलसत्पार्वर्णेन्दुप्रकाशम् । परित्रातारं नः परमकरुणापात्रमेकं पवित्रं पशूनां नाथं त्वां परमनुभजे पापजातोपशान्त्यै ॥ ८५॥ कदाहं ते कान्तं करपरिलसत्कङ्कणाहिप्रकाण्डं कपालालङ्कारं कपिशकलमानम्रकोटीरभारम् । कपोलव्यालोलत्कनकफणभृत्कर्णभूषाभिरामं कपर्द्दिन्नीक्षिष्ये कथमपि वपुः कामदं कामवैरिन्! ॥ ८६॥ भजेऽहं भोः शम्भो! भवभयहरं भानुकोटिप्रकाशं भवन्तं भर्तारं भजनविदुषां भक्तिभाजां जनानाम् । भवानीनाथ! त्वं भव भव! भवद्भावनाभागिनो मे भविष्यज्जन्मच्छिद्भवतु च भवान् भद्रदो भद्रकेतो! ॥ ८७॥ नमामि श्रीकण्ठं नतिनुतिविदां, नाकिनां नाथमेकं नटन्तं सन्ध्यायां नयनसुभगं नन्दिनान्दीविलासम् । नमस्यद्भिः सद्भिर्नरकहतये नन्दितं नारदाद्यै- र्नयन्तं कल्याणं ननु नतिमतो नाथ शम्भो! भवन्तम् ॥ ८८॥ निरीहं निस्सङ्गं निगमगमकं निर्मलं नीलकण्ठं निरुत्सेकं नित्यं निरुपमतमं निश्चलानन्दसान्द्रम् । निरन्तं निर्मूलं निरवधिगुणं निर्गुणं निर्विषण्णं निषेवे देव! त्वां निखिलजगतां निर्भरोल्लासहेतुम् ॥ ८९॥ जगन्नाथं वन्दे जनितजगतं जन्ममृत्यू हरन्तं जटाजूटोद्वेल्लज्जलभरलसज्जह्नुकन्यावतंसम् । जनानामाराध्यं जयकरमलं जागरूकं सदा त्वां जयेश! त्वं शम्भो! जनय ननु मे जन्मसाफल्यमुच्चैः ॥ ९०॥ नमदमरकिरीटश्रेणिशोणाश्मरश्मि- च्छुरणतरुणरागश्रीमदङ्घ्रिप्रकाण्डम् । निरुपमतमजङ्घाजानुपीनोरुकाण्डं प्रतिदिवसमुपासे चन्द्रमौले! भवन्तम् ॥ ९१॥ पृथुकटितटं शोभिव्याघ्रचर्मावनद्ध- स्फुरदुरगफणालीरत्नकाञ्चीकलापम् । अवनतशुभनाभीशोभमानावलग्नं प्रतिदिवसमुपासे चन्द्रमौले! भवन्तम् ॥ ९२॥ तरल भुजगहारस्फारशुभ्रस्थिमाला- शबल विमलभस्मालेपदोरन्तरालम् । गरलरुचिकरालश्यामलाकुण्ठकण्ठं प्रतिदिवसेमुपासे चन्द्रमौले! भवन्तम् ॥ ९३॥ फणिकटकविराजत्पाणिलग्नाक्षमाला- परशुहरिणशूलज्ञानमुद्राकपालम् । गिरिदुहितृकुचोद्यत्कुङ्कुमालङ्कृताङ्गं प्रतिदिवसमुपासे चन्द्रमौले! भवन्तम् ॥ ९४॥ विशददशनरोचिरश्श्लिष्टबिम्बाधरोष्ठ- द्युतिजितशशिकान्ति स्यूतचूतप्रवालम् । रुचिमसृणफणाभृत्कुण्डलालीढगण्डं प्रतिदिनसमुपासे चन्द्रमौले! भवन्तम् ॥ ९५॥ निटिलनयनकोणप्रस्फुरद्विस्फुलिङ्ग- प्रसरदरुणरोचिर्मण्डलीशोणघोणम् । विकचकमलपत्रश्रीमदक्षिद्वयीकं प्रतिदिवसमुपासे चन्द्रमौले! भवन्तम् ॥ ९६॥ निहुतमदनहव्यद्रव्यभव्याग्निदीव्य- न्नयनतिलकरेखाशालिफालान्तरालम् । चटुलकुटिलचारुश्रीकचिल्लीविटङ्कं प्रतिदिवसमुपासे चन्द्रमीले। भवन्तम् ॥ ९७॥ कलितकनकशोभारम्यशम्याकमालं सुरसरिदुरुवीचिस्पन्दमानेन्दुलेखम् । दधतमुरगनद्धं चारुकोटीरभारं प्रतिदिवसमुपासे चन्द्रमौले! भवन्तम् ॥ ९८॥ स्फटिकधवलदेहं स्फारकान्तिप्रवाहं नवभसितविलेपं नाशिताशेषपापम् । कलिशमनविभावं कामदं वामदेवं प्रतिदिवसमुपासे चन्द्रमौले! भवन्तम् ॥ ९९॥ चरितगुणपवित्रं चारुकारुण्यपात्रं चटुलनिटिलनेत्रं चन्द्रिकाशुभ्रगात्रम् । रुचिभरजितमित्रं रुद्रमापन्नमित्रं प्रतिदिवसमुपासे, चन्द्रमौले! भवन्तम् ॥ १००॥ शिवमनुदिनं ध्यायं ध्यायं शिवस्तवमादरात् पठति घटितं पद्यैरेभिश्शतेन सुखेन यः । स खलु निखिलानासाद्यार्थान् कृतार्थमना जन- स्स्वतनुविलये शम्भोः स्थानं सनातनमाप्नुयात् ॥ १०१॥ शिवस्तवः समाप्तः । श्रीगुरुपादेभ्यो नमः । ॐ नमश्शिवाय । रामो यत्पाणिवादो गुरुचरणसरोजन्मरेणुप्रसादा- देतावद्विष्णुपादस्तवमपि च शिवस्तोत्रमत्र व्यतानीत् । प्रीत्यै भूयाद्बुधानां तदिदमघहरं चास्तु निस्तन्द्रमेत- न्नित्यं भक्तिप्रकर्षोत्तरमनुपठतामीहया देहभाजाम् ॥ श्रीगुरुपादेभ्यो नमः । शुभमस्तु ।

Introduction

Shivashataka is a stotra on Lord Shiva in ten dashakas of ten stanzas each by Ramapanivada, the prolific writer who lived in Kerala in the eighteenth century of the Christian Era. The subject matter of these dashakas is as follows: I. The first two and the last two shlokas in this dashaka form a general invocation on Lord Shiva. The other six shlokas are devoted to the description of His evening dance, the tandava, the grosser aspects of which are given greater emphasis than the finer ones. The metre is shikhariNI. II. The first seven shlokas of this dashaka constitute a head-to-foot description of the Lord and the last three shlokas form His general praise. The metre is shArdUlavikrIDita. III. This dashaka details the well-known story of Tripura-dahana. The metre is hariNI. IV. This is in the sragdharA metre and gives an account of Dakshayaga. V, VI. These two dashakas deal with the marriage of Parvati. The fifth describes the birth of Sati as the daughter of Himavan, her attendance on Shiva who was in deep penance, the attempt of Cupid at the instance of the Devas to kindle the fire of love in Shiva for ParvatI, and his miserable discomfiture and death. The sixth dashaka describes Parvati's penance, Shiva's appearance before her as a Brahmacharin to test her mind and the final marriage between them. The metre of the fifth dashaka is mandAkrAntA and that of the sixth prithvi. VII. This is a general eulogy on the Lord in his nishkala form and so from a philosophical point of view. supreme Brahman, boundless and without beginning or end. Words cannot describe Him. He creates the world through Maya, but keeps himself out of its influence. Devotion to Him is the only means of crossing the ocean of Samsara, and it is through devotion and devotion alone is He attainable. The metre is puShpitAgrA. VIII. The story of the appearance of a very brilliant, majestic and extensive halo of Shiva in the beginning of Kalpa, the attempt of Brahma and Vishnu to find cut its upper and lower limits and their failure, Brahma's false utterance that he was able to see the upper limit, and enraged at this false assertion Shiva's clipping off one of his heads, and Brahma's curse that Shiva should beg in the skull-cap of the head so removed till it is filled, is given in this dashaka. The metre is sragdharA. IX. This dashaka is in the meghavisphurjita metre, and is a general praise of the Lord. X. A pAdAdikesha description of the Lord is the subject-matter of this concluding dashaka, which is written in the mAlinI metre. The language of this stotra is stately, as is the case with most of the works of Ramapanivada, but it lacks by comparison the gracefulness which characterises some of his other stotras. Proofread by PSA Easwaran
% Text title            : shivashatakam 3 by Ramapanivada
% File name             : shivashatakamrAmapANivAda.itx
% itxtitle              : shivashatakam 3 (rAmapANivAdavirachitaM namaste gaurIsha! tripurahara!)
% engtitle              : shivashatakam 3 by rAmapANivAda
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Scans 1, 2)
% Latest update         : August 13, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org