शिवस्तवः
सर्वज्ञज्ञानविज्ञानप्रदानैकमहात्मने
नमस्ते देवदेवेश सर्वभूतहिते रत ॥ १॥
अनन्तकान्तिसम्पन्न अनन्तासनसंस्थित ।
अनन्तकान्तिसम्भोग परमेश नमोऽस्तु ते ॥ २॥
परापरपरातीत उत्पत्तिस्थितिकारक ।
सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तु ते ॥ ३॥
सर्वार्थनिर्मलाभोग सर्वव्याधिविनाशन ।
योगियोगी महायोगी योगीश्वर नमोऽस्तु ते ॥ ४॥
कृत्वा लिङ्गप्रतिष्ठाञ्च ध्यात्वा देवं सदाशिवम् ।
पूजयित्वा विधानेन स्तवपाठमुदीरयेत् ॥ ५॥
लिङ्गस्तवं महापुण्यं यः शृणोति सदा नरः ।
नोत्पद्यते च संसारे स्थानं प्राप्नोति शाश्वतम् ॥ ६॥
तस्मात्सर्वप्रयत्नेन शृणुयाच्च सुसंस्तवम् ।
पापकर्ता कलेर्मुक्तः प्राप्नोति एरमं पदम् ॥ ७॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे शिवस्तवः समाप्तः ।
सप्तमः पटलः
Proofread by Divya KS