देवीकृतशिवस्तवः

देवीकृतशिवस्तवः

श्री देव्युवाच - दीनबन्धो ! दयासिन्धो ! प्रभो ! शङ्कर ! भो हर ! । श्रोतुमिच्छामि ! देवेश ज्ञानदः शङ्करो यतः ॥ १॥ देवदेव ! महादेव ! नमस्तुभ्यं सदाशिव ! । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ! ॥ २॥ विश्वेश्वर ! जगद्बन्धो ! नीलकण्ठ ! नमोऽस्तु ते । ज्ञानेश ! ज्ञानदानन्ददायक ! ज्ञानवर्द्धक ! ॥ ३॥ ज्ञानाधीश ! ज्ञानपते ! नमः कोचवधूपते ! । नमस्ते परमानन्द ! नमस्ते भक्तवत्सल ! ॥ ४॥ नमस्ते पार्वतीनाथ ! गङ्गाधर ! नमोऽस्तु ते । विश्वेश्वर ! जगद्बन्धो ! जगदीश ! सदाशिव ! ॥ ५॥ नमस्तेऽस्तु महादेव ! त्रिलोकेश ! महेश्वर ! । नमस्ते योगतन्त्रज्ञ ! नमः कालीपते नमः ॥ ६॥ नमस्तारापते ! तुभ्यं नमस्ते भैरवीपते ! । गौरीपते ! जगन्नाथ ! नमस्ते चण्डिकापते ! ॥ ७॥ गुरुरूपतरोर्बीज-फलरूप ! फलप्रद ! । नमस्ते सर्वबीजज्ञ ! बीजाधार ! नमोऽस्तु ते ॥ ८॥ उमापते ! नमस्तुभ्यं नमस्तुभ्यं त्रिलोचन ! । पञ्चानन ! नमस्तुभ्यं नमस्ते शशिशेखर ! ॥ ९॥ शम्भो ! महेश्वर ! विभो ! विरूपाक्ष ! चतुर्भुज ! । नमस्ते पर्वतात्मजा-पते ! चण्डीपते ! नमः ॥ १०॥ त्रिलोकेश ! दयासिन्धो ! करुणामय ! शङ्कर ! । भक्त-वत्सल ! देवेश ! नीलकण्ठ ! सदाशिव ! ॥ ११॥ नमः काशीपते ! तुभ्यं नमस्ते चन्द्रशेखर ! । नमश्चण्डीपते तुभ्यं नमस्ते मुक्तिद ! प्रभो ! ॥ १२॥ नमस्ते जगदाधार! चतुरानन ! वत्सल ! । नमः क्रियापते ! तुभ्यं नमस्ते मुक्तिद ! प्रभो ! ॥ १३॥ अहमेवाऽबला बाला कथं जानामि ! शङ्कर ! । निर्गुणं सगुणं ज्ञातुं न समर्था कथञ्चन ॥ १४॥ श्री शिव उवाच - निर्गुणा प्रकृतिः सत्यमहमेव च निर्गुणः । यदैव सगुणा त्वं हि सुगुणो हि सदाशिवः ॥ १५॥ सत्यञ्च निर्गुणा देवी सत्यं सत्यं हि निर्गुणः । उपासकानां सिद्ध्यर्थं सगुणा सगुणो मतः ॥ १६॥ नानातन्त्रमतं देवि ! नानायत्नात् प्रकाशितम् । ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले ॥ १७॥ नानामार्गे विधावन्ति पशवो हतबुद्धयः । श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् ॥ १८॥ सत्यं वाच्मि दृढ वच्मि हितं पथ्यं पुनः पुनः । न भुक्तिश्च न मुक्तिश्च विना दुर्गा-निषेवनात् ॥ १९॥ देवि ! दुर्गा परं ब्रह्म श्रुतं काली-श्रुतौ त्वया । तारा-श्रुतौ श्रुतं देवि! श्रुता ब्रह्मविचारणा ॥ २०॥ ब्रह्मा विष्णुश्च रुद्रश्च वासवश्च दिवौकसः । त्वत्पाद-सेवनाद् देवि ! वयं वै साधकोत्तमाः ॥ २१॥ न देवेशो गणपतिर्नो ब्रह्मा नो हरो हरिः । हरिर्हरिरहं देवि! सर्वे पादाब्ज-भावुकाः ॥ २२॥ त्वत्-प्रसादान्महेशानि ! ब्रह्मा सृष्टिं करोत्यसौ । तत्प्रसादाद्धरिः पाता हरो हर्ता महीतले ॥ २३॥ वासवश्चामराधीशोऽमरा देवताः स्मृताः । ते सर्वे निर्जरा देवि ! त्वत्-प्रसादान्महेश्वरि ! ॥ २४॥ त्वत्पाद-पद्मसम्पर्का देव देवोऽपि शङ्करः । अतस्त्वं जगदीशान-दयिता ! भक्तवत्सले ! ॥ २५॥ दृष्टिं कुरु महामाये ! नमस्तेस्यै नमो नमः । त्वञ्च काली त्वञ्च तारा षोडशी त्वं वरानने ! ॥ २६॥ त्वं देवि ! भुवना बाला छिन्ना धूमा महेश्वरि ! । त्वं देवि बगला भीमा कमला त्वं महेश्वरि ! ॥ २७॥ मातङ्गी त्वन्नपूर्णा त्वं धनदा त्वं शिव प्रिये ! । दुर्गा त्वं विश्वजननी दशाष्टादशरूपिणी ॥ २८॥ सप्तकोटि-महाविद्या उपविद्या-स्वरूपिणी । कुमारी रमणी-रूपा सुरूपा नगनन्दिनी ॥ २९॥ शिवपूज्या शिवाराध्या ब्रह्मपूज्या सुरेश्वरी । शिवो भिन्नः शिवाभिन्ना न जीवो वामलोचना । इति जानामि विश्वेशि ! सत्यं सत्यं न संशयः ॥ ३०॥ श्री पार्वत्युवाच - सत्यं मे कथितं नाथ नित्यरूपोऽसि शङ्कर !। अहञ्च त्रिषु लोकेषु पार्वतीश्वरी शङ्कर !। विशेषं देवदेवेश! सर्वज्ञ! कथयस्व मे ॥ ३१॥ श्री शिव उवाच - विशेषं न च जानामि कथयस्व वरानने ! । सर्वज्ञासि महेशानि ! यतः सर्वज्ञ वल्लभा ॥ ३२॥ श्री पार्वत्युवाच - गोलोके चैव राधाऽहं वैकुण्ठे कमलात्मिका । ब्रह्मलोके च सावित्री भारती वाक्-स्वरूपिणी ॥ ३३॥ कैलासे पार्वती देवी मिथिलायाञ्च जानकी । द्वारकायां रूक्मिणी च द्रौपदी पाण्डवालये ॥ ३४॥ गायत्री वेद-जननी सन्ध्याऽहञ्च द्विजन्मनाम् । ज्योतिर्मध्ये पुषाऽहञ्च पुष्पे कृष्णा पराजिता ॥ ३५॥ पत्रे मालूरपत्रं हि पीठे योनि-स्वरूपिणी । हरिहरात्मिका विद्या ब्रह्म-विष्णु-शिवार्चिता ॥ ३६॥ विशेषानुग्रहेणैव विज्ञेया शङ्कर ! प्रभो ! । यत्र कुत्र स्थले नाथ ! शक्तिस्तिष्ठति गच्छति । तत्रैवाऽहं महादेव ! निश्चितं मतमुत्तमम् ॥ ३७॥ शक्तिमार्गं परित्यज्य योऽन्यमार्गं विधावति । करस्थं स मणिं त्यक्त्वा भूति-भावं विधावति ॥ ३८॥ इत्येवञ्च महादेव ! मयोक्तं जगदीश्वर ! । अतः परतरं नास्ति नास्ति नास्ति सदाशिव ! ॥ ३९॥ इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे सप्तमः पटलान्तर्गतः देवीकृतशिवस्तवः सम्पूर्णः ॥ ७॥ श्लोकानि ४२-८० Proofread by Aruna Narayanan
% Text title            : shivastavaH 3 devIkRRitaH
% File name             : shivastavaHdevIkRRita.itx
% itxtitle              : shivastavaH 3 devIkRitaH (muNDamAlAtantrAntargataH dInabandho dayAsindho)
% engtitle              : shivastavaH 3 devIkRitaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Latest update         : October 17, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org