देवीकृतशिवस्तवः
श्री देव्युवाच -
दीनबन्धो ! दयासिन्धो ! प्रभो ! शङ्कर ! भो हर ! ।
श्रोतुमिच्छामि ! देवेश ज्ञानदः शङ्करो यतः ॥ १॥
देवदेव ! महादेव ! नमस्तुभ्यं सदाशिव ! ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ! ॥ २॥
विश्वेश्वर ! जगद्बन्धो ! नीलकण्ठ ! नमोऽस्तु ते ।
ज्ञानेश ! ज्ञानदानन्ददायक ! ज्ञानवर्द्धक ! ॥ ३॥
ज्ञानाधीश ! ज्ञानपते ! नमः कोचवधूपते ! ।
नमस्ते परमानन्द ! नमस्ते भक्तवत्सल ! ॥ ४॥
नमस्ते पार्वतीनाथ ! गङ्गाधर ! नमोऽस्तु ते ।
विश्वेश्वर ! जगद्बन्धो ! जगदीश ! सदाशिव ! ॥ ५॥
नमस्तेऽस्तु महादेव ! त्रिलोकेश ! महेश्वर ! ।
नमस्ते योगतन्त्रज्ञ ! नमः कालीपते नमः ॥ ६॥
नमस्तारापते ! तुभ्यं नमस्ते भैरवीपते ! ।
गौरीपते ! जगन्नाथ ! नमस्ते चण्डिकापते ! ॥ ७॥
गुरुरूपतरोर्बीज-फलरूप ! फलप्रद ! ।
नमस्ते सर्वबीजज्ञ ! बीजाधार ! नमोऽस्तु ते ॥ ८॥
उमापते ! नमस्तुभ्यं नमस्तुभ्यं त्रिलोचन ! ।
पञ्चानन ! नमस्तुभ्यं नमस्ते शशिशेखर ! ॥ ९॥
शम्भो ! महेश्वर ! विभो ! विरूपाक्ष ! चतुर्भुज ! ।
नमस्ते पर्वतात्मजा-पते ! चण्डीपते ! नमः ॥ १०॥
त्रिलोकेश ! दयासिन्धो ! करुणामय ! शङ्कर ! ।
भक्त-वत्सल ! देवेश ! नीलकण्ठ ! सदाशिव ! ॥ ११॥
नमः काशीपते ! तुभ्यं नमस्ते चन्द्रशेखर ! ।
नमश्चण्डीपते तुभ्यं नमस्ते मुक्तिद ! प्रभो ! ॥ १२॥
नमस्ते जगदाधार! चतुरानन ! वत्सल ! ।
नमः क्रियापते ! तुभ्यं नमस्ते मुक्तिद ! प्रभो ! ॥ १३॥
अहमेवाऽबला बाला कथं जानामि ! शङ्कर ! ।
निर्गुणं सगुणं ज्ञातुं न समर्था कथञ्चन ॥ १४॥
श्री शिव उवाच -
निर्गुणा प्रकृतिः सत्यमहमेव च निर्गुणः ।
यदैव सगुणा त्वं हि सुगुणो हि सदाशिवः ॥ १५॥
सत्यञ्च निर्गुणा देवी सत्यं सत्यं हि निर्गुणः ।
उपासकानां सिद्ध्यर्थं सगुणा सगुणो मतः ॥ १६॥
नानातन्त्रमतं देवि ! नानायत्नात् प्रकाशितम् ।
ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले ॥ १७॥
नानामार्गे विधावन्ति पशवो हतबुद्धयः ।
श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् ॥ १८॥
सत्यं वाच्मि दृढ वच्मि हितं पथ्यं पुनः पुनः ।
न भुक्तिश्च न मुक्तिश्च विना दुर्गा-निषेवनात् ॥ १९॥
देवि ! दुर्गा परं ब्रह्म श्रुतं काली-श्रुतौ त्वया ।
तारा-श्रुतौ श्रुतं देवि! श्रुता ब्रह्मविचारणा ॥ २०॥
ब्रह्मा विष्णुश्च रुद्रश्च वासवश्च दिवौकसः ।
त्वत्पाद-सेवनाद् देवि ! वयं वै साधकोत्तमाः ॥ २१॥
न देवेशो गणपतिर्नो ब्रह्मा नो हरो हरिः ।
हरिर्हरिरहं देवि! सर्वे पादाब्ज-भावुकाः ॥ २२॥
त्वत्-प्रसादान्महेशानि ! ब्रह्मा सृष्टिं करोत्यसौ ।
तत्प्रसादाद्धरिः पाता हरो हर्ता महीतले ॥ २३॥
वासवश्चामराधीशोऽमरा देवताः स्मृताः ।
ते सर्वे निर्जरा देवि ! त्वत्-प्रसादान्महेश्वरि ! ॥ २४॥
त्वत्पाद-पद्मसम्पर्का देव देवोऽपि शङ्करः ।
अतस्त्वं जगदीशान-दयिता ! भक्तवत्सले ! ॥ २५॥
दृष्टिं कुरु महामाये ! नमस्तेस्यै नमो नमः ।
त्वञ्च काली त्वञ्च तारा षोडशी त्वं वरानने ! ॥ २६॥
त्वं देवि ! भुवना बाला छिन्ना धूमा महेश्वरि ! ।
त्वं देवि बगला भीमा कमला त्वं महेश्वरि ! ॥ २७॥
मातङ्गी त्वन्नपूर्णा त्वं धनदा त्वं शिव प्रिये ! ।
दुर्गा त्वं विश्वजननी दशाष्टादशरूपिणी ॥ २८॥
सप्तकोटि-महाविद्या उपविद्या-स्वरूपिणी ।
कुमारी रमणी-रूपा सुरूपा नगनन्दिनी ॥ २९॥
शिवपूज्या शिवाराध्या ब्रह्मपूज्या सुरेश्वरी ।
शिवो भिन्नः शिवाभिन्ना न जीवो वामलोचना ।
इति जानामि विश्वेशि ! सत्यं सत्यं न संशयः ॥ ३०॥
श्री पार्वत्युवाच -
सत्यं मे कथितं नाथ नित्यरूपोऽसि शङ्कर !।
अहञ्च त्रिषु लोकेषु पार्वतीश्वरी शङ्कर !।
विशेषं देवदेवेश! सर्वज्ञ! कथयस्व मे ॥ ३१॥
श्री शिव उवाच -
विशेषं न च जानामि कथयस्व वरानने ! ।
सर्वज्ञासि महेशानि ! यतः सर्वज्ञ वल्लभा ॥ ३२॥
श्री पार्वत्युवाच -
गोलोके चैव राधाऽहं वैकुण्ठे कमलात्मिका ।
ब्रह्मलोके च सावित्री भारती वाक्-स्वरूपिणी ॥ ३३॥
कैलासे पार्वती देवी मिथिलायाञ्च जानकी ।
द्वारकायां रूक्मिणी च द्रौपदी पाण्डवालये ॥ ३४॥
गायत्री वेद-जननी सन्ध्याऽहञ्च द्विजन्मनाम् ।
ज्योतिर्मध्ये पुषाऽहञ्च पुष्पे कृष्णा पराजिता ॥ ३५॥
पत्रे मालूरपत्रं हि पीठे योनि-स्वरूपिणी ।
हरिहरात्मिका विद्या ब्रह्म-विष्णु-शिवार्चिता ॥ ३६॥
विशेषानुग्रहेणैव विज्ञेया शङ्कर ! प्रभो ! ।
यत्र कुत्र स्थले नाथ ! शक्तिस्तिष्ठति गच्छति ।
तत्रैवाऽहं महादेव ! निश्चितं मतमुत्तमम् ॥ ३७॥
शक्तिमार्गं परित्यज्य योऽन्यमार्गं विधावति ।
करस्थं स मणिं त्यक्त्वा भूति-भावं विधावति ॥ ३८॥
इत्येवञ्च महादेव ! मयोक्तं जगदीश्वर ! ।
अतः परतरं नास्ति नास्ति नास्ति सदाशिव ! ॥ ३९॥
इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे सप्तमः पटलान्तर्गतः
देवीकृतशिवस्तवः सम्पूर्णः ॥ ७॥
श्लोकानि ४२-८०
Proofread by Aruna Narayanan