देवीकृतः शिवस्तवः
असारसारं प्रवदन्ति वेदास्त्रियः प्रजानां पशवो हिरण्यम् ।
गुणत्रयीमध्यगता प्ररोचना गुणानि गत्वा न भजन्ति केऽपि ॥ ४६॥
प्रवृत्युन्मुखा बालकाः कामयन्ते सुखापारबुद्ध्या महादुःखजालम् ।
यथा भक्ष्यबुद्ध्या महापाशजालैर्गृहीतास्तु मत्स्या जले धीवरैश्च ॥ ४७॥
कथं त्वत्पदाब्जं खनिं वै विमुक्तेस्समायान्ति दुःखाकुलादुर्मुखास्ते ।
यथा त्वां चिदानन्दरूपञ्च सत्यमसत्यैकलीला भवन्त्येव बालाः ॥ ४८॥
शशेशृङ्गवार्ता यथा स्याद्यथा वा तथा कूर्मदुग्धं मरौ वा यथापः ।
तथा विश्वगाः प्रार्थयन्तीह कामान्मनोमूलमेतन्मनो नास्ति यत्र ॥ ४९॥
भूमा त्वं गिरिजापतिश्शिवतरस्सोमार्धधारी हरो
वामार्धाकृतिरप्रमेयविभवस्त्वं सोमधामाननः ।
कामाङ्गारिरकामसक्तहृदयस्त्वं सामचर्माम्बरः
त्वामप्राप्य महेश सामरवतस्तोषप्रदं शङ्करम् ॥ ५०॥
कामान्प्रार्थयते विमूढहृदयास्तेषां श्रमः केवलं
सामागोमनतो रमापतिलसन्नेत्राङ्घ्रिरीशस्सदा ।
धूमाकारघनस्थितोऽसि भगवंस्त्वं व्योमकेशस्सदा
धौम्याग्न्यार्चितपादपद्मयुगलश्चोमापतिश्शङ्करः ॥ ५१॥
कामान्मे दिश गौतमादिमुनिभिर्देस्स्तुतोऽसि प्रभो ॥ ५२॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवीकृतं शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २१ - शिवगौरीसंवादे प्राणिगतिनिरूपणम् । ४६-५२॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 21 - shivagaurIsaMvAde prANigatinirUpaNam . 46-52..
Notes:
Devī देवी eulogizes Śiva शिव as He describes to Her the fate of beings who do vs those who don’t worship Him.
Encoded and proofread by Ruma Dewan