विघ्नेश्वरविरचितं शिवस्तवः
भवत्पदाम्भोजविलोकनाय पुनः पुनश्चित्तमिदं प्रवृत्तम् ।
नान्यत्र गन्तुं यतते महेश त्वमेव माता च पिता त्वमेव ॥ १॥
यत्पादपद्मभ्रमरत्वमेतत् मनोऽभिवाञ्छत्यतिलालसं च ।
किमुत्तमं वस्तु विहाय याति पवित्रवृत्तिः सुखवृद्धिकामः ॥ २॥
यन्न श्रुतं वेदवचः प्रपन्नं विचारविस्तारपरैरपारैः ।
तदद्य दृष्ट्वाऽपि विहाय याति चित्तं तपलब्धमिदं कथं वा ॥ ३॥
अतः परं ते मयि सत्कृपा चेत् नयामि कालं खलु कालकाल ।
त्वत्पादुकाराधनसेवनाभ्यामन्यत्र तावन्न रुचिर्ममाद्य ॥ ४॥
अम्बा समायास्यति चेदिदानीं त्वत्पादपद्मार्चनविघ्न एव ।
नूनं तदभ्यागमनं तदानीमविघ्नितं तत्त्वत्पदपूजनेन ॥ ५॥
योषा जारमिव प्रियं प्रियतमं त्वत्पादपद्मं ममा- (प्रिया प्रियतमं)
प्यालिङ्ग्याद्य मम प्रयाति न कथं स्वाभीष्टसिद्धिं विना ।
त्यक्तुं वाञ्च्छति जारमप्यतिधनं तद्वन्मनो मे प्रभो
मच्चित्तभ्रमरो जहाति न भवत्पादाम्बुजं शङ्कर ॥ ६॥
अनन्तजनिसञ्चितैरमितपुण्यपूर्णार्णवैः
इदं शिवपदाम्बुजं नयनगोचरं जायते ।
जगज्जनक शङ्कर त्रिदशनायकाव
प्रभो भवत्पदसरोरुहभ्रमर एव चित्तं मम ॥ ७॥
भवन्तु बहवः सुराः त्रिपुरसूदनाराधकाः
परन्तु न सुरैरिदं तव पदाम्बुजं दृश्यते ।
अपारगुणसागर प्रमथवीर गौरीपते
चिरं मम मनः पदे तव विहारमन्विच्छति ॥ ८॥
अलं विमलयोगिहृत्कमलमध्यवासैश्चिरं
शिवाङ्घ्रिकमलाधुना शरणदाऽग्रगण्यादरात् ।
वसस्व मम मानसे कुगतिभूरिभारालसे
विचारगिरिगह्वरप्रकरभूतभूसाध्वसे ॥ ९॥
अनाथशरणागतासुरसुरैकरक्षामणे
त्रियम्बक सदाशिव त्रिपुरमर्दनाऽऽशाम्बर ।
कृपासुरससागर स्मरहरान्धकारे हर
प्रसीद भगवन्प्रभो भव भवाब्धिसंशोषक ॥ १०॥
यदि त्रिनयनाधुना तव पदाम्बुजं त्यज्यते
मदीयमपि मानसभ्रमरमद्य सम्मूर्छितम् ।
क्षणेन हतमेव वा विगतजीवनं मन्महे
न जीवनविवर्जितं क्वचन जीवजातं प्रभो ॥ ११॥
शिवैकशरणस्य मे शरणमन्यदस्तीति किं
भ्रमोऽपि भवति प्रभो शिवपदाम्बुजाराधनम् ।
निधानमिति मे मतिः तदितरं निधानं न मे
तदेव निधनेऽपि मे धनमनन्यलभ्यं धनम् ॥ १२॥
महेश्वर कदापि वा न च जिहास्यमास्या-
न्तरस्थितान्नमतिनिर्मलं शिवनिवेदितं सादरम् ।
अमूल्यसितशर्करामधुरमेव मीशाधुना
भवत्पदमरोरुहं न मम मानसं त्यक्ष्यति ॥ १३॥
क्षणार्धमपि वा मनः स्मरहराङ्घ्रिपङ्केरुह
प्रभूतमकरन्दजप्रमुधारया धीरया ।
सुधामपि विहाय तां विहर सादरं क्वादरः
तवापि मम वा मनः शरणमिन्दुमौलिं व्रज ॥ १४॥
व्रज व्रज निरन्तरं व्रज महेशपादाम्बुजं
भजाभयदमन्वहं भज भजाधुना वा भज ।
कथं न भजने रतिः शिवपदाम्बुजस्यान्यथा
ज्वलज्ज्वलनतेजसा ज्वलतु ते स्वरूपं मुहुः ॥ १५॥
निधानमिदमेव मे सुकृतसिन्धुसङ्घार्जितं
ममाद्य निधयो नव त्रिपुरवैरिपादाम्बुजम् ।
इदं खलु सुदुर्लभं न निधयस्तथा दुर्लभाः
किमन्यदपि वाञ्छितं मम शिवाङ्घ्रिपद्मं विना ॥ १६॥
प्रयाति मरणे धनं न निधयः प्रयान्त्येव किं
प्रयान्ति पशवः प्रियाः प्रियतमाः प्रयान्त्येव ताः ।
तदन्यदपि याति तत् हितसुपुत्रमित्रादिकं
न याति सुकृतं परं पशुपतिप्रसादार्जितम् ॥ १७॥
न सातिशयमीदृशं पशुपतिप्रसादं विदुः
स्मरारिचरणार्चनादधिकमस्ति किं वा फलम् ।
श्रुतिश्रुतमनेकधा शिवपदाम्बुजाराधनं
प्रधानधनमित्यपि प्रथितमेव वेदेष्वपि ॥ १८॥
निरन्तरमुमापतिस्मरणकारणं दुर्लभं
तपः फलमिदं मतं शिवपदाम्बुजानुग्रहात् ।
किमन्यदधिकं फलं शिव शपामि पादाम्बुजे
किमस्ति भुवनत्रयेऽप्यधिकमेतदन्यत् तव ॥ १९॥
(शिव शिवेति वाचादरात्)
यदङ्घ्रिकमलार्चनं जगति दुर्लभं देहिनां
सुरासुरमुनीश्वरप्रवरखाञ्छितं तत्परम् ।
तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितं
तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितम् ॥ २०॥
इदं शिवपदाम्बुजं यदि विहाय मोहान्मुहुः
प्रयाति मदनान्तकस्मरणहीनमेतन्मनः ।
प्रणश्यतु न तेन मे गिरिश कृत्यमस्ति प्रभो
न चाहितमिहेप्सितं भवति याति सङ्ग्राह्यताम् ॥ २१॥
परात्परसरामरप्रवरशङ्कराधीरितां
हराऽऽदरवशान्मम त्वमसि मे गतिः सर्वथा ।
अनन्यशरणं कथं हर विहातुमिच्छा तव
प्रचोदय धियः प्रियाः सदय भर्ग नस्ते पदे ॥ २२॥
॥ इति शिवरहस्यान्तर्गते विघ्नेश्वरविरचितं शिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ११। २६-४७ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 11. 26-47 ..
Proofread by Ruma Dewan