शिवस्तवराजः
श्रीगणेशाय नमः ।
सूत उवाच ।
एकदा नारदो योगी परानुग्रहतत्परः ।
विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ १॥
तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् ।
प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ २॥
नारद उवाच ।
ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम् ।
कृपया परया देव यत्पृछामि तदुच्यताम् ॥ ३॥
श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च ।
तथापि मन्मनो याति सन्देहं मोहकारणम् ॥ ४॥
सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते ।
सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥ ५॥
वेदोपनिषदां सारमायुःश्रीजयवर्धनम् ।
मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ ६॥
इमं मत्संशयं तात स्वं भेत्तासि न कश्चन ।
ब्रूहि कारुणयभावेन मह्यं शुश्रूषवे हितम् ॥ ७॥
श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः ।
देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥ ८॥
ब्रह्मोवाच ।
साधु पृष्टं महाप्राज्ञ लोकानुग्रहतत्पर ।
सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥ ९॥
प्रणवं पूर्वमुच्चार्य नमःशब्दं समुच्चरेत् ।
सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥ १०॥
एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः ।
सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥ ११॥
अनेन मन्त्रराजेन नाशयितुं न शक्यते ।
तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥ १२॥
अयं संसारदावाग्निर्मोहसागरवाडवः ।
तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥ १३॥
मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः ।
सकृदुच्चारणादस्य सायुज्यमुक्तिमाप्नुयात् ॥ १४॥
किं पुनर्वक्ष्यते पुत्र स्वाचारपर्रिनिष्ठितः ।
सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप ॥ १५॥
ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यते चिरात् ।
वेदोपनिषदोक्तं च योगगम्यं सनातनम् ॥ १६॥
इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः ।
स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥ १७॥
नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् ।
रक्तवर्णमष्टदलं चन्त्रसूर्यादिशोभितम् ॥ १८॥
समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा ।
तन्मध्ये शङ्करं ध्यायेद्देवदैवं जगद्गुरुम् ॥ १९॥
कर्पूरसदृशं चन्दशेखरं शूलपाणिनम् ।
त्रिलोचन महादेवं द्विभुजं भस्मभूषितम् ॥ २०॥।
परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् ।
सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥ २१॥
नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम् ।
ग्रैवेयादिप्रबन्धढ्यं पार्वतीसहितं पुरम् ॥ २२॥
कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम् ।
इन्द्रेण पूजितं यक्षराजेन व्यञ्जितं विभुम् ॥ २३॥
प्रेतराजस्तुतं नीरनाथेन नमितं मुहुः ।
ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥ २४॥
ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् ।
सर्वपापक्षयकरं जयसम्पत्तिवर्धनम् ॥ २५॥
अनेन सदृशं तात नास्ति संसारतारकम् ।
सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया ॥ २६॥
कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते ।
तत्सर्वं नाशमायाति ध्यानात्सत्यं वचो मम ॥ २७॥
वेदशास्त्रपुराणानि सेतिहासानि यानि च ।
ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥ २८॥
प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् ।
अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥ २९॥
ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितम् ।
शिवो वै दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥ ३०॥
कीलिकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा ।
नियोगः सर्वसिद्ध्यर्थं मुक्तिकामाय वै मतः ॥ ३१॥
शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके ।
ऋषयदीनि क्रमाद्युञ्जेत्साङ्गुष्टाङ्गुलिभिः सुत ॥ ३२॥
मन्त्रन्यासं ततः कुर्याच्छ्रुणु चैकाग्रमानस्वः ।
षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥ ३३॥
हृदये च शिरस्येव शिखायां कवचे यथा ।
नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट क्रमात् ॥ ३४॥
नमः स्वाहा वषट् हुं च सर्वौषट् फट्क्रमो वदेत् ।
मन्त्रन्यासमिमं कृत्वा स्तवन्यामं सामाचरेत् ॥ ३५॥
शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् ।
भवं चैव क्रमादेवमङ्गुष्टादिहृदादिषु ॥ ३६॥
सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत ।
नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥ ३७॥
शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् ।
सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥ ३८॥
कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् ।
कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥ ३९॥
परेशं परमं देवं परम्ब्रह्म परात्परम् ।
परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥ ४०॥
लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् ।
लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥ ४१॥
शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् ।
प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥ ४२॥
भूतेशं भूतनाथं च भूतप्रेतविनाशनम् ।
भूधर भूपतिं शान्तं शूलपाणिमहं भजे ॥ ४३॥
कैलासवासिनं रौद्रं फणिराजविभूषणम् ।
फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥ ४४॥
नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् ।
दिगम्बरं दिशाधीशं नमामि विषभूषणम् ॥ ४५॥
मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् ।
सत्पतिं निर्मलं शम्भुं नतोऽस्मि सकलार्थदम् ॥ ४६॥
विश्वेशं विश्वनाथं च विश्वपालनतत्परम् ।
विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥ ४७॥
गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् ।
विद्युत्कोटिप्रतीकाशं वन्दऽहं पार्वतापतिम् ॥ ४८॥
स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् ।
त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥ ४९॥
अव्यक्तमक्षरं दान्तं मोहसागरतारकम् ।
स्तुतिप्रीयं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥ ५०॥
अमलं निर्मलं नाथमपमृत्युभयापहम् ।
भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥ ५१॥
हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गलम् ।
गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥ ५२॥
आनन्दकारिणं सोम्यं सुन्दरं भुवनेश्वरम् ।
काशीप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥ ५३॥
श्मशानवसिनं भव्यं ग्रहपीडाविनाशनम् ।
महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥ ५४॥
ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् ।
अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥ ५५॥
वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम् ।
सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥ ५६॥
द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् ।
अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥ ५७॥
शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् ।
लिङ्गमूर्ति सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥ ५८॥
अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् ।
योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥ ५९॥
अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् ।
परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥ ६०॥
आनन्दं निर्भयं भक्तवाञ्च्छितार्थप्रदायकम् ।
भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥ ६१॥
सोमप्रियं सोमनाथं यक्षराजनिषेवितम् ।
सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥ ६२॥
अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्वम् ।
चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥ ६३॥
वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् ।
कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥ ६४॥
गणाधिणाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् ।
सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥ ६५॥
विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् ।
मृत्युञ्जयं भालविलोचनं च चेतः सदा चिन्तय देवदेवम् ॥ ६६॥
कपालिनं सर्पकृतावतंसं मनोवचोगोचरमम्बुजाक्षम् ।
क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥ ६७॥
सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् ।
अनन्तबाहूदरमस्तक्राक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥ ६८॥
सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च ।
त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥ ६९॥
आनन्दमूर्ति सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् ।
यज्ञादिनाथं परमप्रकाशं नमामि विश्वम्भरमीशितारम् ॥ ७०॥
इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः ।
पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥ ७१॥
सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् ।
माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥ ७२॥
सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् ।
पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥ ७३॥
गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा ।
विश्वासधातचारी च खाद्यपेयादिदूषक्रः ॥ ७४॥
कोटिजन्मार्जितैः पापैरसंख्यातैश्च वेष्टितः ।
अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥ ७५॥
महारोगयुतो वापि मृत्युग्रहयुतस्तथा ।
त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥ ७६॥
राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् ।
मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥ ७७॥
लक्षपाठाद्भवेच्चैव शिव एव न संशयः ।
बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥ ७८॥
पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे
पीठे संस्थिनमिन्दुशेखरमहर्नाथादिसंसेवितम् ।
पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं
त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥ ७९॥
इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः सम्पूर्णः ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com