श्रीशिवस्तुतिः
(श्रीवक्यक्षेत्रे)
वक्यक्षेत्रनिवासिञ्छक्त्या विनतेष्टवितरणसमर्थ ।
शाक्यमताविषय विभो तर्कविदूरात्मरूप पाहि शिव ॥ १॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीशिवस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran