भस्मासुरपुत्रदुरासदःकृता शिवस्तुतिः

भस्मासुरपुत्रदुरासदःकृता शिवस्तुतिः

त्वं जगत्कारणं देव परमानन्दविग्रहः । क्षराक्षरातीततनुर्गुणत्रयविकारकृत् ॥ ४९॥ गुणातीतो ज्ञानमयो व्यक्ताव्यक्तविधानवित् । मुनिध्येयतनुः सर्वभक्तानुग्रहकारकः ॥ ५०॥ ब्रह्माण्डानामनन्तानां हेतुः श्रेयस्करः सताम् । अखण्डानन्दपूर्णस्त्वममोघफलदायकः ॥ ५१॥ सर्वाधारः सर्वसहः सर्वशक्त्युपबृंहितः । पृथिवीवायुसलिलवह्नितेजः स्वरूपवान् ॥ ५२॥ अद्य धन्यं तपो नेत्रे पितरौ जन्म ते यतः । दृष्टं स्वरूपं साक्षान्मे गतं पापं लयं परम् ॥ ५३॥ योगित्दृच्छ्रुतिवाचो यो गोचरो न कदाचन । इदानीं वरये देव तन्मे त्वं दातुमर्हसि ॥ शिव उवाच । निश्शङ्कं वरयाशु त्वं सर्वं दास्येऽतिदुर्लभम् ॥ ५४॥ स्तोत्रेण तपसा चैव प्रणयेन सुतोषितः । मुनिरुवाच । ततो वव्रेऽयं देवात् सुप्रसन्नात् सदाशिवात् ॥ ५५॥ चतुराकरजेभ्यो मे मा मृत्युः सम्भवेदिति । यक्षरक्षःपिशाचेभ्यो देवदानवकिन्नरात् ॥ ५६॥ मुनिमानवगन्धर्वसर्पेभ्यो हि वनेचरात् । दृष्ट्वा रूपं मदीयं तु त्रसेयू रणमूर्द्धनि ॥ ५७॥ सर्वे देवा महाभाग ! सुरराज्यं चयच्छ मे । संस्मृतिश्चरणे नित्यं भक्तिस्तेऽव्यभिचारिणी ॥ ५८॥ शिव उवाच । एकां शक्तिं विना सर्वं देवेभ्योऽदायि तेऽभयम् । शक्तितेजोद्भवः कश्चिज्जित्वा सञ्जीवयिष्यति ॥ ५९॥ शिरसि स्थाप्य चरणं धरिष्यति निरन्तरं । निष्काशितो यदा तेन चरणस्ते शिरोगतः ॥ ६०॥ तदा पुनस्त्रिलोकीं त्वं बलाज्जेष्यसि तेजसा । भक्तिश्च मे दृढतरा स्मृतिस्ते वै भविष्यति ॥ ६१॥ गृत्समद उवाच । एवं दत्त्वा वराँस्तस्मै शिवोऽन्तर्धानमन्वगात् । दुरासदोऽपि स्वगृहमाययौ हर्षनिर्भरः ॥ ६२॥ इदं स्तोत्रं पठेद् यस्तु सर्वान् कामानवाप्नुयात् ॥ ६३॥ इति भस्मासुरपुत्र दुरासदःकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ३८ । २.३८ ४९-६३॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 38 . 2.38 49-63.. Proofread by Preeti Bhandare
% Text title            : Bhasmasuraputradurasadahkrita Shiva Stuti
% File name             : shivastutiHbhasmAsuraputradurAsadaHkRRitA.itx
% itxtitle              : shivastutiH bhasmAsuraputra durAsadakRitA (gaNeshapurANAntargatA)
% engtitle              : shivastutiH bhasmAsuraputra durAsadakRRitA
% Category              : shiva, gaNeshapurANa, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 38 | 2.38 49-63||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org