शिवस्तुतिः कुबेरकृता
(सौरपुराणे ४७-अध्यायान्तर्गतम्)
कुबेर उवाच-
नमाम्यहं। देवमजं पुराणमुपेन्द्रवेधोमरराजजुष्टम् ।
शशाङ्कसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं विलयादिहेतुम् ॥ ६३॥
सर्वेश्वरैकं त्रिदशैकबन्धुं ध्यानाधिगम्यं जगतोऽधिवासम् ॥
तं वाङ्मयाधारमनन्तशक्तिं ज्ञानार्णवं स्थैर्यगुणाकरं च ॥ ६४॥
पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् ।
स्कालवूटं स्फटिकावभासं नमामि शम्भुं भुवनैकनाथम् ॥ ६५॥
कपालिनं मालिनमादिदेवं जटाधरं भीमभुजङ्गहारम् ।
प्रशासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं वरिष्ठम् ॥ ६६॥
यमक्षरं निर्गुणमप्रमेयं तं ज्योतिरेकं प्रवदन्ति सन्तः ।
दूरङ्गमं वेदविदां च वन्द्यं सरवस्य हृत्स्थं परमं पवित्रम् ॥ ६७॥
तेजोनिधिं बालमृगाङ्गमौलिं नमामि रद्रं स्फुरदुग्रवक्त्रम् ।
कालेन्धनं कामदमस्तसङ्गं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥ ६८॥
अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ।
मनोमयं वेदमयं च हंसं प्रजापतीशं पुरुहूतमिन्द्रम् ॥ ६९॥
अनाहतैकध्वनिरूपमाद्यं ध्यायन्ति यं योगविदो यतीन्द्राः ।
संसारपाशच्छिदुरं विमुक्त्यै पुनः पुनस्तं प्रणमामि नित्यम् ॥ ७०॥
न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिन्त्यम् ॥ ७१॥
शिवं समाराध्य यमुग्रमूर्ति पपौ समुद्रं भगवानगस्त्यः ।
लेभे दिलीपोऽप्यखिलां स चोर्वीं तं विश्वयोनिं शरणं प्रपद्ये ॥ ७२॥
सम्पूजयन्तो दिवि देवसङ्घा ब्रह्मेन्द्रमुख्या विविधांश्च कामान् ।
तं स्तैमि नौमीह जपामि शर्वं वन्देऽभिवन्द्यं शरणं प्रपद्ये ॥ ७३
स्तुत्वैवमीशं विरराम यावत्तावत्सहस्रार्कसमानतेजाः ।
ददौ स तस्मै वरदोऽन्धकारिर्वरत्रयं वैश्रवणाय देवः ॥ ७४॥
इति सौरपुराणे पऽचचत्वारिंशोऽध्यायान्तर्गता कुबेरकृता
शिवस्तुतिः समाप्ता ।
Encoded and proofread by PSA Easwaran