शिवस्तुतिः मत्सरासुरकृता
श्रीगणेशाय नमः ।
मत्सरासुर उवाच ।
नमस्ते त्रिदशेशाय शङ्कराय शिवाय च ।
निर्गुणाय गुणानां चेशाय सर्वगुणाय ते ॥ १२॥
अपाराय महादेव पिनाकधर ते नमः ।
नमो नमो महेशाय सर्वाधिपतये नमः ॥ १३॥
उमाकान्त नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥ १४॥
वृषध्वजाय नन्दीशवाहनाय त्रिशूलिने ।
भस्माङ्गरागधाराय व्याघ्राम्बरधराय ते ॥ १५॥
भालचन्द्र नमस्तुभ्यं पञ्चव्क्त्राय शम्भवे ।
दशबाहुधरायैव त्रिनेत्राय कपालिने ॥ १६॥
जटाजूटधरायैव नमो गङ्गाधराय ते ।
गिरिशाय नमस्तुभ्यं गजचर्मधराय ते ॥ १७॥
सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने ।
निराधाराय नित्याय सुयोगिपतये नमः ॥ १८॥
अपारगुणधाराय रुद्राय तु नमो नमः ॥
किं स्तौमि त्वां महादेव यत्र वेदा विकुण्ठिताः ॥ १९॥
इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम् ।
उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥ २०॥
इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम् ।
पठते शृण्वते सर्वकामदं प्रभविष्यति ॥ २१॥
विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत् ।
भुक्तिं मुक्ति प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥ २२॥
श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत् ।
विनयावनतो भूत्वा शिव भक्तवरप्रदम् ॥ २३॥
मत्सर उवाच ।
यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान् ।
तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥ २४॥
पञ्चभूतात्मकं सर्वं त्रिगुणैः सुविराजितम् ।
तस्मान्मे मरणं शम्भो न कदाचिद्भवेदिह ॥ २५॥
आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् ।
ब्रह्माण्डस्य च राज्यं मे देहि देहि सदाशिव ॥ २६॥
मुद्गल उवाच ।
तस्यैतद्वचनं श्रुत्वा शिवो विस्मितमानसः ।
देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥ २७॥
किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति ।
तपसोग्रेण सन्तुष्टः शिवस्तं प्रत्युवाच ह ॥ २८॥
शिव उवाच ।
यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति ।
उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥ २९॥
इति मत्सरासुरकृता शिवस्तुतिः समाप्ता । १.२४