कैलासशैले अष्टदिक्प्रतिष्ठितान् निषधहेमकूटादिकृता शिवस्तुतिः

कैलासशैले अष्टदिक्प्रतिष्ठितान् निषधहेमकूटादिकृता शिवस्तुतिः

स्कन्दः - तत्र शैलाश्शिवेनैव चाष्टदिक्षु प्रतिष्ठिताः । निषधो हेमकूटश्च विन्ध्यो मलयदर्दुरौ ॥ २८.४॥ मन्दरो हिमवांश्चैव नीलोऽत्रैव प्रकाशितः । तेषां तपस्यया शम्भुस्सन्तुष्टो नितरां तदा ॥ २८.५॥ स्वावासेऽपि महाशैले महाकैलासपर्वते । तेषां नित्यं निवसतिं ददौ कारुण्यतश्शिवः ॥ २८.६॥ पूर्वतो निषधो भाति चाग्नेय्यां हेमकूटकः । विन्ध्योऽसौ दक्षिणे भाति मलयो नैरृते स्थितः ॥ २८.८॥ वारुण्यां दर्दुरो भाति वायव्यां भाति मन्दरः । हिमवानुत्तरे भाति चैशान्यां नीलपर्वतः ॥ २८.९॥ अष्टदिक्षु स्थिता एते महाकैलासपर्वते । स्वमौलिभिर्भासयन्ति दिशां स्तोमं नगोत्तमाः ॥ २८.१०॥ श‍ृणुष्व जैगीषव्यत्वं पापभङ्गाय केवलम् । निषधेशो हेमकेशो विन्ध्येशो मलयेश्वरः ॥ ३०.६३॥ दर्दुरेशो मन्दरेशो हिमशैलेश्वरो हरः । नीलेश्वरोऽहि परितो महासौधवराश्रयाः ॥ ३०.६४॥ रम्यगोपुरकोपेता नगास्तत्र वपुर्धराः । पूजयन्त्यत्र लिङ्गानि बिल्वपत्रैर्मनोहरैः ॥ ३०.६५॥ - - निषधः - निषधेशं भवरोगभेषजं सुनिषण्णं सकलेऽपि भूतवर्गे । विषमाक्षं कलुषैर्विहीनदेहं प्रणमामीश्वरमेवमेव नित्यम् ॥ २८.३१॥ हेमकूटः - पापाद्रिकूटकुलिशोत्तम हेमकूट वीटीकृताखिल सुमेरुज हेमकूट । प्रोद्यत्सुधांशुचयमौलितटोरुभास्वत्कोटीर घोटककृतागमकूट पाहि ॥ २८.४९॥ विन्ध्यः - विन्ध्येश वन्ध्यदिवसो न भवेत्कदाचित्वत्पादपुजननतिस्तुतिभिर्ममाद्य । वन्ध्योऽपि त्वत्पदनिवेदितभोज्यभुक्स्याद्विन्ध्योपमं दृढतरं हि सुतं लभेत ॥ २९.२०॥ मलयः - मलयेश महेश शङ्कर प्रमथाधीश्वर चारुचन्द्रमौले । त्वयि जातमिदं जगत्किलापि शम्भो प्रलयं याति लये त्वदीयकुक्षौ ॥ २९.३४॥ दर्दुरः - पापापारमतङ्गकुम्भहरणे त्वं शङ्करो दर्दुरो भीमोऽहीश्वरकङ्कणोत्तमलसत्पाणीनखोद्यत्प्रभः । सिह्मस्सर्वसुरेश्वरो हि भगवानिन्दूकपर्दोज्वलः सर्वेषां जनिता गराञ्चितगलः काशे गुणैर्वाचकः ॥ २९.५०॥ (सर्वेषां जनिता गरञ्जरयिता केशं गुणैर्वाचकः) ॥ २९.५०॥ (सर्वेषां जनिता गहरञ्जरयिता केशो गुणैर्वाचकः) ॥ २९.५०॥ मन्दरः - श्रीमन्दरेश विविधागममौलिवृन्दसन्दोहनन्दितपदाम्बुजभृङ्गभावम् । सम्प्रार्थयामि तरुणेन्दुकलाललाम वृन्दारवन्दितपदाम्बुजसेवयाहम् ॥ ३०.१८॥ हिमवान् - परिणतहिमधामकान्तिराजज्जटयालङ्कृतगङ्गयोरुभासम् । भवदाननपङ्कजोत्पलाभै रविसोमानललोचनैर्विलोकयाशु(+मान्तवम्) ॥ ३०.४६॥ नीलः - नीललोहित महागरकन्धरामलकपालभुजङ्गविभूषण । कालकालभगवन्कृपाम्बुधे तारयाशु भवसंसृतिजालम् ॥ ३०.६७॥ गिरयः - हर हर परमेश देवदेव त्रिपुरयमान्धकजातभीतिनाश । अगपतितनयाधव प्रभो नः परिपाहीश्वर देवसार्वभौम ॥ ३०.६९॥ भवता भवतापहारिणा वसता नाकशिरोत्थसौधमौलौ । वयमप्यमला नगाश्शिलाभिर्नगवल्लीतृणपक्षिवीरुधैः ॥ ३०.७०॥ सुमृगैरपि चन्द्रचूड शम्भो गतिभाजस्सुतरां च धन्यधन्याः । वेदेषु प्रथितोऽसि रुद्र भगवन् मीढुष्टमशङ्करो बभ्रुश्शम्भुरखण्डघोषकरणश्चोग्रोऽसि भीमोऽसि च । अस्माकन्त्वधिपोऽसि पाहि दयया ख्यातो निरीशोऽपि च ॥ ३०.७१॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले अष्टदिक्प्रतिष्ठितान् निषधहेमकूटादिकृता शिवस्तुतिः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २८-२९-३०। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 28-29-30. vAvRRittashlokAH .. Notes: Skanda स्कन्द outlines to Jaigīṣavya जैगीषव्य; the eulogies to Śiva शिव, recited by the eight mountains stationed in the eight directions - Aṣṭadiśāḥ अष्टदिशाः around Mount Kailāsa कैलास शैल (viz. in Niṣadha निषध in the East, Hemakūṭaka हेमकूटक in SouthEast, Vindhya विन्ध्य in the South, Malaya मलय in SouthWest, Dardura दर्दुर in the West, Mandara मन्दर in NorthWest, Himavān हिमवान् in the North and Nīla नील in NorthEast), as they worship the respective Śivaliṅga-s शिवलिङ्ग (viz. Niṣadheśvaram निषधेश्वरम्, Hemakūṭeśvaram हेमकूटेश्वरम्, Vindhyeśvaram विन्ध्येश्वरम्, Malayeśvaram मलयेश्वरम्, Dardureśam दर्दुरेशम्, Mandareśam मन्दरेशम्, Himācaleśvaram हिमाचलेश्वरम्, Nīleśam नीलेशम् ) at their residences - central to which is the Residence of the ever compassionate Śiva शिव, who also sports with the Devī देवी in all the eight directions. Encoded and proofread by Ruma Dewan
% Text title            : Kailasashaile Ashtadikpratishthitan Nishadhahemakutadikrita Shiva Stuti
% File name             : shivastutiHniShadhahemakUTAdikRRitA.itx
% itxtitle              : shivastutiH niShadhahemakUTAdikRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH niShadhahemakUTAdikRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 28-29-30| vAvRittashlokAH ||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org