शिवस्तुतिः व्यासकृता
(सौरपुराणे पञ्चमाध्यायान्तर्गता)
अहो विश्वेश्वरो देवः कथं कैर्वा न सेव्यते ।
यस्मिन्दृष्टे क्षणाज्ज्ञानमुदितं मम निर्मलम् ॥ १७॥
नमो भगवते तुभ्यं विश्वनाथाय शूलिने ।
पिनाकिने जगत्कर्त्रे विश्वमायाप्रवर्तिने ॥ १८॥
दुर्विज्ञेयाप्रमेयाय परमानन्दरूपिणे ।
भक्तिप्रियाय सूक्ष्माय पार्वतीशाय ते नमः ॥ १९॥
नमो जगत्प्रतिष्ठाय जगज्जननहेतवे ।
संहर्त्रे ऋग्यजुःसाममूर्तये तत्प्रवर्तिने ॥ २०॥
जानाति कस्त्वां विश्वेश तत्त्वतो मादृशो जनः ।
वेदा अपि न जानन्ति साङ्गोपनिषदक्रमाः ॥ २१॥
इति सौरपुराणे पञ्चमाध्यायान्तर्गता व्यासकृता शिवस्तुतिः समाप्ता ।
Encoded and proofread by PSA Easwaran