शुक्रकृता शिवस्तुतिः
शुक्र उवाच ।
नमोऽस्तुशितिकण्ठाय कनिष्ठाय सुवर्चसे ।
लेलिहानाय काव्याय वत्सरायान्धसः पते ॥ १॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।
संस्तुताय सुतीर्थाय देवदेवाय रंहसे ॥ २॥
उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे ।
वसुरेताय रुद्राय तपसे चित्रवाससे ॥ ३॥
ह्रस्वाय व्युप्तकेशाय सेनान्ये रोहिताय च ।
कवये राजवृक्षाय तक्षकक्रीडनाय च ॥ ४॥
सहस्रशिरसे चैव सहस्राक्षाय मीढुषे ।
वराय भव्यरूपाय श्वेताय पुरुषाय च ॥ ५॥
गिरशाय नमोऽर्काय बलिने आज्यपाय च ।
सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च ॥ ६॥
निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च ।
ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ ७॥
महादेवाय शर्वाय विश्वरूपशिवाय च ।
हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च ॥ ८॥
वास्तोष्पते पिनाकाय मुक्तये केवलाय च ।
मृगव्याधाय दक्षाय स्थाणवे भाषणाय च ॥ ९॥
बहुनेत्राय धुर्य्याय त्रिनेत्रायेश्वराय च ।
कपालिने च वीराय मृत्यवे त्र्यम्बकाय च ॥ १०॥
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ।
पिनाकिने चेषुमते चित्राय रोहिताय च ॥ ११॥
दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च ।
आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ १२॥
साङ्ख्याय चैव योगाय व्यापिने दीक्षिताय च ।
अनाहताय शर्वाय भव्येशाय यमाय च ॥ १३॥
रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये ।
चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च ॥ १४॥
शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे ।
भास्वराय प्रतीताय सुदीप्ताय सुमेधसे ॥ १५॥
क्रूरायाविकृतायैव भीषणाय शिवाय च ।
सौम्याय चैव मुख्याय धार्मिकाय शुभायच ॥ १६॥
अवध्यायामृतायैव नित्याय शाश्वताय च ।
व्यापृताय विशिष्टाय भरताय च साक्षिणे ॥ १७॥
क्षेमाय सहमानाय सत्याय चामृताय च ।
कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे ॥ १८॥
सोमपायाऽऽज्यपायैव धूमपायोष्मपाय च ।
शुचये परिधानाय सद्योजाताय मृत्यवे ॥ १९॥
पिशिताशाय सर्वाय मेघाय विद्युताय च ।
व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे ॥ २०॥
त्रिपुरघ्नाय तीर्थायावक्राय रोमशाय च ।
तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये ॥ २१॥
रोचमानाय चण्डाय स्फीताय ऋषभायच ।
व्रतिने युङ्जमानाय शुचये चोर्ध्वरेतसे ॥ २२॥
असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च ।
कृशानवे प्रचेताय वह्नये निर्मलाय च ॥ २३॥
रक्षोघ्नाय पशुघ्नायाविघ्नाय श्वसिताय च ।
विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च ॥ २४॥
कृष्णाय च जयन्ताय लोकानामीश्वराय च ।
अनाश्रिताय वेध्याय समत्वाधिष्ठितायच ॥ २५॥
हिरण्यबाहवे चैव व्याप्ताय च महाय च ।
सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे ॥ २६॥
क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च ।
कपिलाय पिशङ्गाय महादेवाय धीमते ॥ २७॥
महाकायाय दीप्ताय रोदनाय सहाय च ।
दृढधन्विने कवचिने रथिने च वरूथिने ॥ २८॥
भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे ।
अमोघाय प्रशान्ताय सुमेधाय वृषाय च ॥ २९॥
नमोऽस्तु तुभ्यं भगवन् विश्वाय कृत्तिवाससे ।
पशूनां पतये तुभ्यं भूतानां पतये नमः ॥ ३०॥
प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च ।
वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः ॥ ३१॥
त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुः श्रोत्रमयाय च ।
भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ॥ ३२॥
वसवे चैव साध्याय रुद्रादित्यसुराय च ।
विषाय मारुतायैव तुभ्यं देवात्मने नमः ॥ ३३॥
अग्नीष्टोमविधिज्ञाय पशुमन्त्रौषधाय च ।
स्वयम्भुवे ह्यजायैव अपूर्वप्रथमाय च ।
प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः ॥ ३४॥
आत्मेशायात्मवश्याय सर्वेशातिशयाय च ।
सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः ॥ ३५॥
निर्गुणाय गुणज्ञाय व्याकृतायामृताय च ।
निरुपाख्याय मित्राय तुभ्यं साङ्ख्यात्मने नमः ॥ ३६॥
पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च ।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ ३७॥
अव्यक्ताय च महते भूतादेरिन्द्रियाय च ।
आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः ॥ ३८॥
नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च ।
बुद्ध्याय विभवे चैव तुभ्यं मोक्षात्मने नमः ॥ ३९॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।
सत्यान्तेषु महाद्येषु चतुर्षु च नमोऽस्तु ते ॥ ४०॥
नमः स्तोत्रे मया ह्यस्मिन् यदि न व्याहृतं भवेत् ।
मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि ॥ ४१॥
इति मत्स्यपुराणान्तर्गता शुक्रकृता शिवस्तुतिः समाप्ता ।
matsyapurANAntargataM adhyAya 47 sholkAH 128-168
Transliterated by Subrahmanyam Yvs yvspmp at gmail.com/
Proofread by Subrahmanyam Yvs, Malleswara Rao Yellapragada malleswararaoy at yahoo.com