पापमूर्तिर्प्रोक्तं शिवविद्यामहिमावर्णनम्
शैवविद्यादीक्षितोऽयं अत्र तत्पापसाधनम् ।
यस्यास्ति शैवविद्यायां बुद्धिः सोऽपि महान् खलु ॥ ८७॥
तत्र निष्ठुरमुक्त्वान्ते नरकं याति सर्वथा ।
अज्ञानेन प्रमादाद्वा प्रसङ्गाद्वा कदाचन ॥ ८८॥
शिवज्ञानान्वितं दृष्ट्वा न नमेद्यः स पापधीः ।
शैवविद्यादूपकानां नरके वसतिः खलु ॥ ८९॥
अतः परं त्वयाऽप्याशु गन्तव्यं नरके ध्रुवम् ।
शैवदीक्षापूतदेहः पुण्यपुञ्ज इति स्मृतः ॥ ९०॥
तत्र निष्ठुरमुक्त्वाऽन्ते यान्त्येव नरकं ध्रुवम् ।
विभूतिधारणे भक्तिः शङ्करे शाङ्करेऽपि वा ॥ ९१॥
यस्य स्यात् स तु मुक्तः स्यात् अन्यस्य तु न सा खलु ।
भस्मधारणपूतात्मा यः पूतः शिवविद्यया ॥ ९२॥
स एव तावदुष्कृष्टः तत्रेष्टं चेष्टभाषणम् ।
शिवविद्यादीक्षितेषु विनयेनानुवर्तनम् ॥ ९३॥
सर्वपापविनाशाय सद्य एव प्रजायते ।
शिवविद्यामणिः कण्ठे यदा यस्याधितिष्ठति ॥ ९४॥
तदा तद्वशमायान्ति सर्वे ब्रह्मादयः सुराः ।
कल्पान्तवह्निरूपस्य बालस्यास्याधुना मया ॥ ९५॥
तेजो न सह्यते सोढुं निष्ठुरोक्तिस्तु दूरतः ।
यस्तु स्वापेक्षया नीचः तत्र निष्ठुरभाषणम् ॥ ९६॥
कदाचिदुचितं तत्राप्युचितं तत् कथं सदा ।
स्वाधीनां रसनां प्राप्य निष्ठुरं यो वदिष्यति ॥ ९७॥
स नारकीति विज्ञेयो यतस्तत् पापसाधनम् ।
शिवनामोच्चारणाय सृष्टा जिह्वा विशेषतः ॥ ९८॥
ततस्तया निष्ठुरोक्तिः न युक्ता देहिनां खलु ।
मधुरान्मधुरं मनोहरं सुकरं शङ्करनाम केवलम् ।
वदति श्रुतिभूतिपावनो मधुरास्वादनलोलजिह्वया ॥ ९९॥
मधुरोक्तिभिरेव तोषणं मधुरालापसुधारसज्ञया ।
अनया खलु जिह्वया मुहुः शिवनामामृतपानमीप्सितम् ॥ १००॥
आरोग्यं परमायुरुत्तममतिः सौभाग्यवृद्विर्यशः
श्रेयो रूपमुदारता रतिसुखं सन्तानवृद्धिर्महः ।
कान्तिः शौर्यमपारशत्रुविजयो विद्याऽपि सम्प्राप्यते
नित्यं शङ्करपूजया शिवमहाविद्यावता सर्वथा ॥ १०१॥
॥ इति शिवरहस्यान्तर्गते पापमूर्तिर्प्रोक्तं शिवविद्यामहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ६ -
नारदात् राजबालस्य शिवविद्योपदेशमहिमवर्णनम् । ८७-१०१॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 6 -
nAradAt rAjabAlasya shivavidyopadeshamahimavarNanam . 87-101..
Proofread by Ruma Dewan