सदाशिवयोगीश्वरविरचिता शिवयोगदीपिका

सदाशिवयोगीश्वरविरचिता शिवयोगदीपिका

मन्त्र -लय -हठ-राजाख्यचतुर्विधयोगानां विवरणं ॐ तत्सद्ब्रह्मणे नमः । श्रीदक्षिणामूर्तये नमः । अथ सदाशिवयोगीश्वरविरचिता शिवयोगदीपिका ।

तत्र प्रथमः पटलः ।

परमयोगिमनोम्बुजषट्पदं त्रिविधकारणकारणमव्ययम् । सगुणनिर्गुणतत्त्वमनामयं गुरुसदाशिवलिङ्गमहं भजे ॥ १॥ श्रीमद्गुरुप्रसादेन योगं ज्ञात्वा शिवात्मकम् । वक्ष्यामि सुप्रबोधाय शिवयोगप्रदीपिकाम् ॥ २॥ शिवतत्त्वविदां श्रेष्ठ वक्ष्यामि श‍ृणु तेऽधुना । शिवयोगं परं गुह्यमपि त्वद्भक्तिगौरवात् ॥ ३॥ मन्त्रो लयो हठो राजा चेति योगाश्चतुर्विधाः । तानाहुः पूर्वमुनयः सिद्धाः शम्भुप्रबोधितान् ॥ ४॥ एकाक्षरं द्व्यक्षरं वा षडक्षरमथापि वा । अष्टाक्षरं वा मोक्षाय मन्त्रयोगी सदा जपेत् ॥ ५॥ यस्य चित्तं निजं ध्यायेन्मनसा मरुता सह । लीनं भवति नादेन लपयोगी स एव हि ॥ ६॥ भवेदष्टाङ्गमार्गेण मुद्राकरणबन्धनैः । तथा केवलकुम्भेन हठयोगी वशानिलः ॥ ७॥ त्रिषु लक्ष्येषु यो ब्रह्मसाक्षात्कारं गमिष्यति । ज्ञानोपायमनोवृत्तिरहितो राजयोगवित् ॥ ८॥ उत्तरोत्तरवैशिष्ट्याद्योगाश्चत्वार एव हि । तेष्वेक एव मुख्योऽसौ राजयोगोत्तमोत्तमः ॥ ९॥ सोऽपि त्रिधा भवेत्साङ्ख्यस्तारकश्चामना इति । पञ्चविंशतितत्त्वानां ज्ञानं यत्साङ्ख्यमुच्यते ॥ १०॥ बहिर्मुद्रा परिज्ञानाद्योगस्तारक उच्यते । अन्तर्मुद्रापरिज्ञानादमनस्क इतीरितः ॥ ११॥ श्लाघ्यः साङ्ख्यात्तारकोऽयममनस्कोऽपि तारकात् । राजत्वात्सर्वयोगाणां राजयोग इति स्मृतः ॥ १२॥ नाभेदः शिवयोगस्य राजयोगस्य तत्त्वतः । शिवार्चिनां तथाऽप्येवमुक्तो बुद्धेः प्रवर्तते ॥ १३॥ प्रतिपाद्यस्तयोर्भेदस्तथा शिवरतात्मनाम् । तस्मान्मनीषिभिर्ग्राह्यः शिवयोगस्तु केवल ॥ १४॥ ज्ञानं शिवमयं भक्तिः शैवं ज्ञानं शिवात्मकम् । शैवं व्रतं शिवार्चेति शिवयोगो हि पञ्चधा ॥ १५॥ शिवाचारविहीनो यः पशुरेव न संशयः । स तु संसारचक्रेऽस्मिन्नजस्रं परिवर्तते ॥ १६॥ सत्यं वदामि तत्तत्त्वं निर्णीतं पूर्वसूरिभिः । सर्वदेवमयः साक्षात्सर्वभूतमयस्तथा ॥ १७॥ सर्वज्ञानसमः सम्यक्सर्वतत्वोत्तरोत्तरः । सर्वतेजोमयः साक्षात्सर्वानन्दस्वरूपवान् ॥ १८॥ मायासमेतः सकलो निष्कलः केवलः परः । अस्तिनास्तिद्वयातीतो वाङ्मनोगोचरात्मकः ॥ १९॥ अवर्णो वर्णसंयुक्तो नीरूपी विश्वरूपभृत् । परमात्मा परं ब्रह्म कश्चिद्देवोऽस्ति चिच्छिवः ॥ २०॥ शिवादुत्पद्यते शक्तिः शान्त्यतीता परात्मिका । अप्रतर्क्यगुणोपेता जृम्भते सा शिवाज्ञया ॥ २१॥ सा शक्तिः पञ्चधा भिन्ना भवति ब्रह्मरूपिणी । पञ्चभूतात्मिका नित्या तस्या आसीदिदं जगत् ॥ २२॥ आदौ व्योन्नि स्थितो भाति साक्षादेवः सदाशिवः । मदाशिवादीश्वरोऽपि सम्भूतः पवने स्थितः ॥ २३॥ ईश्वरादभवदुद्रो वह्नौ स्थित्वा प्रतापवान् । रुद्राद्विष्णुर्महातेजा वारितत्त्वे व्यवस्थितः ॥ २४॥ विष्णुतत्त्वोदितो ब्रह्मा पृथ्वीतत्त्वे व्यवस्थितः । एवं पराशक्तिजाता विश्वपाः पञ्च मूर्तयः ॥ २५॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । शान्त्यतीता कला ह्येताः स्थिता ब्रह्मादिमूर्तिषु ॥ २६॥ तथा शिवाज्ञया ह्येता वर्तन्ते सुमहोज्ज्वलाः । ब्रह्मणो देवता दैत्या मुनयो मानवास्तथा ॥ २७॥ स्वेदजा अण्डजाः सर्वे प्राणिनश्च जरायुजाः । तृणगुल्मलतावृक्षाद्यनेकोद्भिज्जकोटयः ॥ २८॥ गिरयः सरितश्चान्ये समुद्राश्च सरांसि च । सम्भवन्ति क्रमेणैव तस्माच्छिवमयं जगत् ॥ २९॥ यस्तं शिवं केवलचित्स्वरूपं सूर्येन्दुवैश्वानरमण्डलस्थम् । गुरुप्रसादात्त्रिमलं क्षयित्वा ध्यात्वा यजन्मोक्षसुखं प्रयाति ॥ ३०॥ शिवज्ञानं द्विधा ज्ञेयं सगुणं निर्गुणं तथा । आदौ सगुणमाश्रित्य पश्चान्निर्गुणमाचरेत् ॥ ३१॥ सगुणं बहुधा प्रोक्तं बाह्याभ्यन्तरगोचरम् । इन्द्रियादिभिरग्राह्यं निर्गुणं त्वन्तरिक्षवत् ॥ ३२॥ एवं तत्त्वपरिज्ञानं गुरुष्वेव व्यवस्थितम् । अत एव मुमुक्षूणां पूजनीयच सद्गुरुः ॥ ३३॥ सदायुरारोग्यमपारभूतिं विद्या यशः स्वर्गसुखं च मोक्षम् । कलानि सर्वाणि नरः समाप्तुं कथं समर्थो गुरुणा विहीनः ॥ ३४॥ उक्तलक्षणसम्पन्नमाचार्यं सर्ववेदिनम् । कर्मणा मनसा वाचा शिववत्पूजयेद्गुरुम् ॥ ३५॥ तस्माद्गुरूमुखेणैव दीक्षितो यः शिवार्चकः । चतुर्वर्गफलावाप्तिः सुखं तस्य करे स्थिता ॥ ३६॥ त्रिकालं वा द्विकालं वा एककालमथापि वा । भक्त्या गुरूक्तमार्गेण पूजयेच्चिन्मयं शिवम् ॥ ३७॥ अन्तर्यागो बहिर्यागो द्विविधं तच्छिवार्चनम् । मुख्या चाभ्यन्तरे पूजा सा च बाह्यार्चनोदिता ॥ ३८॥ आत्मस्थमत्यन्तरुचिप्रशान्त- मश्रान्तमीशं हि यजन्ति सन्तः । तं वाह्यनानाप्रतिमासु बाह्य- क्रियाभिरेवाल्पधियो यजन्ति ॥ ३९॥ हृत्पद्मं शिवधर्मकन्दसहितं सुज्ञाननालं तथा । नित्यैश्वर्यदलाष्टकं शशिनिभं वैराग्यसत्कर्णिकम् ॥ ४०॥ श्रीरुद्रेश्वरकेसराञ्चितमिदं सञ्चिन्त्य तन्मध्यमे । सूर्येन्दुज्वलवह्निमण्डलगतं ध्यायेच्छिवं चिन्मयम् ॥ ४१॥ प्रसन्नवदनं शान्तं द्व्यष्टवर्पीमुज्ज्वलं अनेककोटिकन्दर्पलावण्यसमविग्रहम् । चतुर्भुजं मृगीटङ्कवरदाभयधारिणं चन्द्ररेखाशिरोभूषं शरच्चन्द्रनिभद्युतिम् ॥ ४२॥ दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम् । दिव्याभरणशोभाढ्यं दिव्यपुष्पैरलङ्कृतम् ॥ ४३॥ त्रिनेत्रं त्रिगुणाधारं त्रिमलक्षयकारणम् । सर्वमङ्गलया देव्या निजवामाङ्कशोभितम् ॥ ४४॥ भास्वत्कल्पतरोर्मूले फलपुष्पसमन्विते । वेदिकायां समासीनं नवरत्नमयासनम् ॥ ४५॥ अद्वैतमच्युतं विष्णुं नित्यं निर्वाणगोचरम् । अचिन्त्यमजमव्यक्तमादिमध्यान्तवर्जितम् ॥ ४६॥ परं शिवं हृदि ध्यात्वा निश्चयीभूतमानसः । यजेदाभ्यन्तरद्रव्यैरवधानेन तद्यथा ॥ ४७॥ शमाम्बुपरिषेचनं सकलपूर्णभावाम्बरं त्रिशक्तिगुणसंयुतं विहितयज्ञसूत्रं तथा । स्वसंविदनुलेपनं समधिकानुकम्पाक्षतान् शिवाय विनिवेदयेत्प्रकटमक्तिपुष्पणि च ॥ ४८॥ धूपमान्तरचतुष्टयेन वै दीपमिन्द्रिगुणोत्तरेण तु । कल्पयेच्च सुखदुःखवर्जितं जीवरूपमुपहारमान्तरे ॥ ४९॥ रजस्तमःसत्त्वगुणत्रयं च ताम्बूलकं प्राणनमस्कृतिं च । इत्येवमाभ्यन्तर मुख्यपूजा- द्रव्याणि सम्पादय शङ्कराय ॥ ५०॥ अथवाऽऽवाहनाद्यैस्तमुपचारैश्च राजवत् । पूजयस्व शिवं भक्त्या परमात्मानमान्तरे ॥ ५१॥ अत एव सदा पूजाभिमामाभ्यन्तरीं कुरु । समस्तपापदलनीं सर्वदुःखविनाशिनीम् ॥ ५२॥ शिवभक्तिप्रदां साक्षान्मनोनैर्मल्यकारिणीम् । सर्वैश्वर्यकरीं सम्यग्योगज्ञानप्रदायिनीम् ॥ ५३॥ इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां प्रथमः पटलः ।

अथ द्वितीयः पटलः ।

अथ ते सम्प्रवक्ष्यामि शिवपूजाविधिं बुधैः । पुनःप्रकारमाख्यातं योगमार्गैकगोचरम् ॥ १॥ योगात्सञ्जायते ज्ञानं ज्ञानायोगः प्रवर्तते । द्वयोः संसिद्धये भूमौ शरीरं रक्षयेद्बुधः ॥ २॥ शरीरं कफनाशेन सुस्थैर्यं याति निश्चितम् । स कफो हठयोगेन विनश्यति शरीरिणाम् ॥ ३॥ शिवयोगः साधकानां साध्यस्तत्साधनं हठः । यमादिमिरथाष्टाङ्गैर्देवपूजां समाचरेत् ॥ ४॥ यमनियमगुणैश्च स्वात्मसिद्धिं विधाय स्ववशविविधपीठैरेव भूत्वा स्थितात्मा । असुनियमजलेन स्नापयेद्दिव्यलिङ्गं प्रकटितचतुरङ्गं बाह्यमेतद्विधानम् ॥ ५॥ शम्भोरपीन्द्रियनिवर्तनमेव गन्धो ध्यानं प्रसूननिचयो दृढधारणा सा । धूपः समाधिरिति शुद्ध महोपहार- माभ्यन्तरराख्यचतुरङ्गविधानमेतत् ॥ ६॥ एवमष्टाङ्गयोगेन सदाऽन्तःपद्मसद्मनि । पूजयेत्परमं देवं किं बाह्यैर्देवपूजनैः ॥ ७॥ स्वात्मन्येव सदाऽष्टाङ्गैः पूजयेच्छिवमव्ययम् । शैवः स एव विद्वांश्च स च योगविदां वरः ॥ ८॥ सुब्रह्मचर्यं नियताशनं च धृतिर्दया सूनुतमार्जवं च । शौचं क्षमाऽस्तेयमथो अहिंसा यमा दशैते मुनिभिः प्रणीताः ॥ ९॥ सन्तोष आस्तिक्यगुणो मतिश्च तपो व्रतं शङ्करपूजनं च । ह्रीर्योगशास्त्रश्रवणं जपश्च प्रदानमेते नियमा दश स्मृताः ॥ १०॥ यमैश्च नियमैः सम्यगेवं विंशतिसङ्ख्यया । स्थिरश्च नियतो भूत्वा स्वात्मशुद्धिं समाचरेत् ॥ ११॥ सिद्धाम्बुजं स्वस्तिकमुक्तवीर- भद्राहिभुक्केसरिगोमुखानि । सुखासनं चैव समङ्कितानि तथा दशैतानि वरासनानि ॥ १२॥ गृहिणामम्बुजं नित्यं सिद्धं त्वितरवर्त्मानाम् । सुखासनं च सर्वेषामित्येतत्रिविधं वरम् ॥ १३॥ यानि कानि प्रशस्तानि ह्यासनानि वशानि च तेष्वभीष्टासनासीनो विविक्तस्थानमाश्रयेत् ॥ १४॥ तत्र रम्यं मठं कुर्यान्सूक्ष्मद्वारं च निर्व्रणम् । प्राकारवेष्ठितं शुद्धं बहिःशालासमन्वितम् ॥ १५॥ सुगन्धकुसुमाकीर्णं वितानपरिशोभितम् । मृदूपधानशय्याद्यैरासनाद्यैः समाकुलम् ॥ १६॥ सुधूपवासितं नित्यं गोमयेन सुलेपितम् । समित्पुष्पफलोपेतं कन्दमूलफलान्वितम् ॥ १७॥ समग्रभस्मरुद्राक्षकुशाजिनविभूषितम् । शुद्धान्नपानसम्पन्नं सर्वौषधसमाश्रितम् ॥ १८॥ सदा मनोहरास्पन्दं मठे वासमुपेत्य च । सदाशिवं प्रपूजयेद्हृदि स्थिरसमाहितः ॥ १९॥ तद्यथा श‍ृणु हे विद्वान्नादौ केवलकुम्भके । प्राणायामजलेनैव स्नापयेच्चिन्मयं शिवम् ॥ २०॥ प्राणायामस्तथा प्रोक्तः प्राकृतो वैकृतस्तथा । ताभ्यां विना जृम्भतेऽसौ केवलः कुम्भकः स्वयम् ॥ २१॥ निश्वासोच्छ्वासरूपेण रेचपूरस्वभावतः । प्राणानिले वर्तमाने प्राकृतः स उदाहृतः ॥ २२॥ आगमोक्तविधानेन रेचपूरककुम्भकैः । यदि प्राणनिरोधः स्याद्वैकृतः स उदाहृतः ॥ २३॥ प्राकृतं वैकृतं चेति द्वयमेतन्महात्मनः । क्षणात्संस्तम्भयेद्यस्तु स हि केवलकुम्भकः ॥ २४॥ प्राकृतो मन्त्रयोगः स्याद्वैकृतो लय एव हि । हठः केवलकुम्भाख्यो राजयोगोऽमनाः स्मृतः ॥ २५॥ प्रथमस्त्वजपायोगो नादो वायोर्लयस्तथा । मनोनिलस्थिरं पश्चाद्वृत्तिशून्यं चतुर्थकम् ॥ २६॥ प्राणवायुनिरोधेन लभते च चतुष्टयम् । तस्माद्भ्यासशूरस्त्वं प्राणायामपरो भव ॥ २७॥ सकारान्तमिदं बीजं बहिर्याति सबिन्दुकम् । सविसर्गं सकारान्तं तद्बीजं प्रविशत्यधः ॥ २८॥ प्राणानिलश्च सर्वेषां प्रवर्तकनिवर्तकः । एवं जीवोऽजपानामगायत्रीं जपतेऽन्वहम् ॥ २९॥ एकविंशतिसहस्रसङ्ख्यया षट्शताधिकमहर्निशं नरः । श्रीगुरूक्तविधिनाऽरुणोदये संस्मरन्वहति सोऽजपाफलम् ॥ ३०॥ अजपां नाम सङ्कल्प्य नरः पापैः प्रमुच्यते । शिवयोगमवाप्नोति शीघ्रमेव न संशयः ॥ ३१॥ अजपानामगायत्रीमन्त्रं वर्णद्वयं यदा । त्रिवेणीसङ्गमे लीनं स शब्दः प्रणवो भवेत् ॥ ३२॥ सोऽहं कृत्वाऽऽत्ममन्त्रं स्वपदपरतरं व्यक्तवर्णद्वयं त- । द्व्यालुम्पेद्व्यञ्जने द्वे पुनरपि रचयेद्दिव्यमोङ्कारमन्त्रम् ॥ ३३॥ कृत्वाऽनुस्वारयुक्तं सकलमनुपरं ब्रह्मनाडीं नयेद्यः पूर्णानन्दः स कुण्डल्यनुभवविकलः कर्मणे सूतिमेति ॥ ३४॥ इला स्मृतेन्दुरिति सूर्यसुतेति योगात् सा पिङ्गलाऽर्क इति विष्णुपदीति तासाम् । सा मध्यमाऽग्निरिति गीरिति या त्रिवेणी योगस्थलं तदिदमेव हि यत्त्रिकूटम् ॥ ३५॥ तस्मात्त्रिकूटनामापि त्रिवेणीसङ्गमस्थलम् । श‍ृङ्गाटकचतुष्पीठनामान्येकस्थलस्य हि ॥ ३६॥ शब्दद्वारे गते यत्र गन्धद्वारे तथैव च । समायोगैश्चतुष्पीठश‍ृङ्गाटकसुसंज्ञिकम् ॥ ३७॥ उच्छासनिश्वासकृतासुवायुना त्रिकूटदेशे मनसा सहाङ्ग । स्थित्वा सुषुम्नाख्यतदूर्ध्वनाडिका- त्रिकोणमार्गे गमनं कुरुष्व ॥ ३८॥ प्राणानिलस्योद्गमने निरोध निपातिता चोर्ध्वसुसूक्ष्मशक्तिः । प्रत्याहते मध्यगता प्रबोधिता सा योगतो मूलनिकुञ्जनी स्यात् ॥ ३९॥ तस्मात्त्रिविधशक्तीनां पातेन प्रविबोधनात् । आकुञ्चनेन योगीन्द्रा यान्त्यमी परमं पदम् ॥ ४०॥ अत एव महाश्चर्य चन्द्रसूर्याग्निसद्मनि । सन्धानं कुरु तद्भक्त्या प्रणवध्वनिना सह ॥ ४१॥ त्रयो वेदास्त्रयो देवस्त्रयो लोकास्त्रयो गुणाः । ओमित्येकाक्षरे मन्त्रे परे ब्रह्मणि सन्ति वै ॥ ४२॥ इति सर्वे च संसिद्धा विदुः केवलकुम्भकम् । हठे ह्येकमिदं श्रेष्ठं गोपितं परमाद्भुतम् ॥ ४३॥ गमागमौ प्राणवायोर्विन्धानेन हि गच्छतः । यथा तस्य शरीरस्य गमागमविधिस्तथा ॥ ४४॥ सिद्धसम्मतशास्त्रेषु स्थितः केवलकुम्भकः । तथाऽप्यतिरहस्यत्वान्न विजानाति मूढधीः ॥ ४५॥ गुरोर्यस्य प्रसादाच्च सिध्येत्केवलकुम्भकः । यदि किं करणैर्मुद्राबन्धनैर्वा समाधिभिः ॥ ४६॥ निःशब्दे केवले कुम्भे प्राप्ते विष्णोः पदं महत् । तथा खलु तयोरैक्यं जीवात्मपरमात्मनोः ॥ ४७॥ निःशब्दं तत्त्वमित्याहुरनिर्वाच्यं परं पदम् । भूतेन्द्रियादिप्रकृतेस्तत्त्वानां च लयात्मकम् ॥ ४८॥ मूलोड्याणजलन्द्रबन्धनविधामभ्यस्पतो योगिनो वायोरुद्गमने निरङ्कुशविधेस्तव्द्योमसंरोधनात् । भूतानीन्द्रियवर्गतद्गुणमनोहञ्चित्तबुद्ध्यादयः सर्वं लीनमुपैति वृत्तिरहितं सौख्यं तदा किञ्चन ॥ ४९॥ योऽपानसूर्यमथ वायुनिरोधनेन प्राणेन्दुना सह तदूर्ध्वगतं प्रकृत्या । योगैकासिद्धिमनिशं कुरुते समस्तां प्रज्ञावतामपि स एव हि मूलबन्धः ॥ ५०॥ अधश्चोर्ध्वं च नाभेर्यो बन्धनं कुरुते बलात् । उड्डियानमसौ बन्धो रुग्जरामृत्युन्नाशनः ॥ ५१॥ कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । एष जालन्धरो बन्ध ऊर्ध्वामृतनिबन्धकः ॥ ५२॥ अथोर्ध्वमध्यस्थिरबन्धनाभ्या- माकुञ्चनादूर्ध्वमपानवायोः । घ्राणैकरन्ध्रे मरुतां प्रवेशा- च्छीघ्रं भवेत्केवलकुम्भसिद्धिः ॥ ५३॥ अयं केवलकुम्भाख्यो यस्याजस्रं वशो भवेत् । सदा भवति विख्यातः स एव प्राणसंयमी ॥ ५४॥ प्राणायामविधानं यो मासत्रयमपि समाचरेन्नियत । तनुलघुता दीपनता नाडीशुद्धिर्ध्वानश्वतस्य भवेत् ॥ ५५॥ गगनं पवने प्राप्ते तत्क्षणादुन्मनी भवेत् । केवलं कुम्भकं प्राप्तो तावदेव समभ्यसेत् ॥ ५६॥ नत्वा गुरुं ब्रह्मविदां वरेण्यं जित्वाऽन्तरस्थं षडमित्रवर्गम् । स्थित्वा सदैकान्तविशुद्धदेशे ध्यात्वा शिवं भ्रूयुगमध्यपद्मे ॥ ५७॥ अश्वा सदाऽनाहतदिव्यनादं धृत्वा विभिन्नामलबिन्दुरत्नम् । पीत्वा सुधां चन्द्रमसः पतन्तीं छित्त्वाऽथ सङ्कल्पविकल्पजालम् ॥ ५८॥ कृत्वा त्रिकूटे दृढबन्धनं ततो गत्वा त्रिकोणे मनसाऽनिलैः सह । भित्त्वा तथैवोपरि सूक्ष्मकुण्डलीं नीत्वा सखे विष्णुपदं सुखी भव ॥ ५९॥ इत्थं शिवं विष्णुषदस्वरूपं विष्णुं सदा भावितविष्णुमूर्तिम् । विष्णोः पदं केवलकुम्भशुद्धं प्राणाम्बुना स्नानविधौ भजस्व ॥ ६०॥ इति श्रीसदाशिवयोगीश्वरविराचितायां शिवयोगदीपिकायां द्वितीयः पटलः ।

अथ तृतीयः पटलः ।

इति यमादिचतुरङ्गविधानं बाह्यमुक्तमभिराञ्जतवाक्यैः । अथ शिवार्पितमनाः श‍ृणु वक्ष्ये अन्तरङ्गचतुरङ्गविधानम् ॥ १॥ सन्मनोमहित शोणतलेऽस्मिञ्श्रोत्रमुख्यविजितेन्द्रियवर्गात । जातघृष्टविमलामलगन्धैर्लेपनं गुरुसदाशिवलिङ्गे ॥ २॥ सङ्कोचभाचरति कूर्म इहाङ्गकाना- मङ्गे यथा भुवि तथा निखिलेन्द्रियाणि । प्रत्याहरस्व नियतात्मनि संयतात्मा मन्यामहे परमतत्त्वमिदं तदेव ॥ ३॥ आधारमुख्यनलिनौर्विविधै सुवर्णै स्तन्मध्यभासुरतरैः सुमनोभिरङ्ग । नानाविधैः सगुणनिर्गुणभापुष्पैः श्रीलिङ्गमूर्तिमनिशं हृदि पूजयस्व ॥ ४॥ आधारलिङ्गमणिपूरक हृद्विशुद्धि- भ्रूमध्यमस्तकनभोबिलसंज्ञकानि । एतानि तानि यमिनां सुखदायकानि ध्यानस्थलानि सुविचित्रतराणि नूनम् ॥ ५॥ अन्तश्चेतोनियमित बहिश्चक्षुरिष्ठासनं च कायावक्रत्वमनिशमहो ध्यानमुद्रेयमस्याम् । स्वात्मानन्दं समरसगतं शान्तमद्वैतरूपं शैवध्यानं कुरु हृदि सखे ह्यद्यमुक्तस्त्वमेव ॥ ६॥ ध्यानस्थलेषु सर्वेषु नव चक्रणि योगिभिः । श्रेष्ठानि तानि कथ्यन्ते वक्ष्यामि श‍ृणु तेऽधुना ॥ ७॥ मूलाधारे त्रिधा वृत्तं ब्रह्मचक्रं भगोपमम् । तत्कन्देऽग्निनिभां ध्यायेदथ शक्तिमभीष्टदाम् ॥ ८॥ स्वाधिष्ठानं ततश्चक्रं तत्र चातुर्दलाम्बुजम् । तदेवोड्यायनं ध्यायेत्पश्चिमाभिमुख शिवम् ॥ ९॥ पञ्चावर्ते नाभिचक्रं सर्पाकारं तडिन्निभम् । तत्र कुण्डलिनीं मध्ये शक्तिं सिद्धिप्रदां स्मरेत् ॥ १०॥ अधोमुखाष्टपत्राब्जयुतं हृच्चक्रमिष्टदम् । तन्मध्ये कर्णिकां ज्योतिर्लिंङ्गाकारमिमं स्मरेत् ॥ ११॥ पञ्चमं कण्ठचक्रं च तत्राङ्गुलिचतुष्टये । इडापिङ्गलयोर्मध्ये सुषुम्नां सुस्थितां स्मरेत् ॥ १२॥ षष्ठं च घण्टिकालिङ्गमूलं तद्राजदन्तकम् । ध्यायेत्तदूर्ध्वं तद्वारं तत्र शून्यं सुसिद्धये ॥ १३॥ भूचक्रं सप्तमं त्वेकं नालं कन्दं सुवाक्प्रदम् । ध्यायेद्दीपशिखाकारं तन्मध्ये ज्ञानलाञ्छनम् ॥ १४॥ ब्रह्मरन्ध्रेऽष्टमं चक्रं निर्वाणाख्यं सुसूक्ष्मकम् । तत्र जालन्धरं धूमशिखाभं मोक्षदं स्मरेत् ॥ १५॥ आकाशचक्रं नवमं प्रशस्तं त्रिकूटकं पूर्णगिरीशपीठम् । तत्रोर्ध्वशक्तिं शुभदां सुशून्यां ध्यायेद्द्वयाष्टरसरोजमध्ये ॥ १६॥ अथ ते षोडशाधारान्कथयामि विशेषतः । तेजोध्यानं पदाङ्गुष्ठे कुर्याद्दृष्टिःस्थिरा भवेत् ॥ १७॥ पादस्य पार्ष्णिकामूलं द्वितीयाधारसंज्ञिकम् । सम्पीड्य स्थापयेदग्निदीपनं भवति क्षणात् ॥ १८॥ आकुञ्चयेत्तथाऽऽधारं सदा सङ्कोचनेन तु । अपानमरुतस्थैर्य जायते तद्वितीयकम् ॥ १९॥ मेढ्रागारे दण्डसङ्कोचनेन ब्रह्मग्रन्थींस्त्रीन्समुत्पाट्य पश्चात् । चेतोवायूपस्थनाड्यां प्रवेशा- द्बिन्दुस्तम्भः सम्भवत्येव सिद्धम् ॥ २०॥ पञ्चमाधारमोड्यानं ध्यानं कृत्वा मुहुर्मुहुः । मलमूत्रकृमीणां च मारणं भवति ध्रुवम् ॥ २१॥ नाभ्याधारं ततः षष्ठे प्रणवं यो वदेद्बुधः । समाधिनैकाचत्तेन तस्य नादे लयो भवेत् ॥ २२॥ सप्तमं तु हृदाधारं तत्र प्राणान्निरोधयेत् । तदा तन्मध्यकमलं विकासं भजति क्षणात् ॥ २३॥ कण्ठाधारं कण्ठमूलं पडियेच्चिबुकेन तु । ईडापिङ्गलयोर्वायुप्रवाहः सुस्थिरो भवेत् ॥ २४॥ नवमं घण्टिकाधारं जिह्वाग्रं तत्र दापयेत् । सुधासारं स्रवत्येव सदा सन्तृप्तिकारणम् ॥ २५॥ या लम्बिका चालनदोहनाभ्यां दीर्घकृता तां विपरीतमार्गात । यस्तालुमूलान्तरगर्भदेशे प्रवेशयेत्तोन्मनितां प्रयाति ॥ २६॥ जिह्वादौ रसनाधारं कुर्याद्यो मथनं यदि । सिध्येत्तस्यामृतास्वादः कविता च स्फुटा भवेत् ॥ २७॥ द्वादशं दशनाधारमूर्ध्वं तद्राजदन्तकम् । षण्मासाद्दृश्यते ज्योतिरन्तजिह्वाग्रघट्टनात् ॥ २८॥ त्रयोदशं प्राणमूलं तत्र दृष्टिः स्थिरीकृता । यदि चेन्मनसा नित्यं वायुस्तत्र स्थिरो भवेत् ॥ २९॥ चतुर्दशं ललाटाख्यमाधारं तत्र योगवित् । मनसा वायुमारोप्य सर्वसिद्धिमवाप्नुयात् ॥ ३०॥ भ्रुवाधारं पञ्चदशं तदूर्ध्वं चक्षुषा बुधः । पश्येत्सङ्किरणाकारं शीघ्रमेव हि पश्यति ॥ ३१॥ नेत्राधारं षोडशं तु तदूर्ध्वं चालयेद्बुधः । ज्योतिष्पुञ्जमपाङ्गे तत्पश्यति क्षिप्रमेव हि ॥ ३२॥ बन्धत्रयेणाऽऽसनबन्धनेन मन्त्रेण नादश्रवणेन योगी । भवेत्तदा केवलकुम्भकेन ध्यानेन चित्ताष्टविधावधानी ॥ ३३॥ देहपात्रे ज्वलज्ज्ञानवह्नौ भूतगुणाधिकम् । क्षिप्त्वा दशाङ्गवल्लिङ्गं धूपयेद्धारणाद्बुधः ॥ ३४॥ ध्यानैकगोचरमतिस्थिरता भवेद्या सा धारणेति शिवयोगविदो वदन्ति । शैवक्रमेण रचितेह पुनः प्रकाराद् भूम्यादिभूतवरणेन पृथक्पृथक्च ॥ ३५॥ धारिणी वारुणी चैव आग्नेया मारुती तथा । नभोमयीति कथ्यन्ते सूरिभिः पञ्च धारणाः ॥ ३६॥ अत एव तथा प्रोक्ता धारणा योगवित्तमैः । सर्वसिद्धिप्रदास्ताश्च सदाभ्यासरतात्मनाम् ॥ ३७॥ पादादिजान्वन्तमहीतलेऽस्मिन्- वायुं लकारेण समाधिरोप्य । स्मरंश्चतुर्बाहुधरं चतुर्मुखं सन्धारयेद्भूमिजयं समाप्नुयात् ॥ ३८॥ वकारेणोपेतं सलिलनिलये जानुनाभ्यन्तदेशे स्थिरं कृत्वा वायुं मधुरिपुममुं संस्मरेत्पतिचेलम् । प्रसन्नास्यं शुद्धस्फटिकमणिनिभं शङ्खचक्राङ्कबाहुं जलादुत्पन्नोद्यद्वयजयमिदं त्वं भजे वारुणीयम् ॥ ३९॥ नाभेः कण्ठान्तदेशे वरशिखिनिलये वायुमारोप्य रेफा- त्र्यक्षं रुद्रस्वरूपं तरुणरविनिभं भस्मनोद्धूलिताङ्गम् । शान्तं शीघ्रप्रसन्नं वरदमभयदं संस्मरन्भावयेत्तं यस्तस्याभ्यासिनोऽग्नेर्भयहरणमिहा सम्भवेद्धारणायाः ॥ ४०॥ गलादिम्रुबोर्मध्यदेशे समीरस्थले मान्तवर्णेन देदीप्यमानम् । प्रकाशस्वरूपं स्मरेदीश्वरं यः सखे वायुवत्क्रीडतीशप्रभावात् ॥ ४१॥ अभ्रूमध्यादिकान्ते पवनमतिदृढं व्योमदेशे प्रकुर्व- न्सोमं सोमार्धमौलिं दशकरकमलं पञ्चवक्त्रं त्रिनेत्रम् । श्रीकण्ठं सायुधं तं समधिकवरदं सर्वतत्त्वादितत्त्वं बिन्दुं व्योमस्वरूपं शिवमभययुतं चिन्तयेद्यः स मुक्तः ॥ ४२॥ इत्येवं धारणाः पञ्च घटिकापञ्चकान्विताः । एकैकां धारयेत्ताभिर्देहासिद्धिं भजेन्नरः ॥ ४३॥ एतासु भूम्यादिकधारणासु नृणां सदा प्राणनिरोधनेन । ये दोषजाः सर्वपुराणरोगा नश्यन्ति शीघ्रं न हि संशयोऽत्र ॥ ४४॥ ज्ञानेन कर्मणा पञ्च धारणा योगिभिर्धृताः । समभ्यासरता यत्र तरन्ति भवसागरम् ॥ ४५॥ इयं धारणा । अथ समाधिः- सुज्ञानदीपं सुधियाऽवलम्ब्य हृदालये त्वं मनसाऽवलोक्य । स्वात्मोपहारं परमात्मलिङ्ग समाधिनाऽस्मिन्विनिवेदयस्व ॥ ४६॥ जलसैन्धवयोर्यथैक्ययोगो भवतीहापि तथैव सामरस्यम् । मनसश्च सदाऽऽत्मनश्च योगात्स समाधिरिति कथ्यते मुनीन्द्रैः ॥ ४७॥ यदा भवति चैकत्वं जीवात्मपरमात्मनोः । तदा समाध्यवस्थायां गमिष्यन्ति यमीश्वराः ॥ ४८॥ श्रोत्रादीने न चेन्द्रियाणि विषयाः शब्दादयोऽहं मनो वृत्तिर्नैव सुखासुखानि च तथा मानावमानावपि । शीतोष्णामितपुण्यपापसुमहासङ्कल्पजालान्यहो नैवानेव समाधिना सह मनालीने परब्रह्मणि ॥ ४९॥ युक्ताहारो मुनीन्द्रो निरशनपर एवाथवा युक्तनिद्रो निद्रात्यक्तो गुहायां वसति विचरति क्ष्मातले निस्पृहात्मा । नानाकर्मक्रियासु प्रथितकुशलयुक्तोऽपि वा निष्क्रियो वा नानाचेष्टास्वजस्रं विहरति च समाधौ समासक्तचेताः ॥ ५०॥ एवमष्टाङ्गथोगेन हठेनानेन नैष्ठिकैः । अनालस्यकृताभ्यासात्सिद्धयः श‍ृणु तस्य ताः ॥ ५१॥ प्रथमे हतरुग्वर्षे सर्वलोकप्रियो भव । वत्सरे च द्वितीयेऽथ कवितां कुरुते सुवाक् । भुजगाद्यैस्तथा दुष्टैस्तृतीये न प्रवाध्यते ॥ ५२॥ चतुर्थकेऽनातुरता विपासा निद्रादिशीतातपवर्जितः स्यात् । दूरश्रवाः पञ्चमवत्सरे वाक्- सिद्धिं परेषां तनुषु प्रवेशः ॥ ५३॥ षष्ठेन वज्रैरपि नैव भिद्यते ततोऽतिवेगी च स दूरदर्शनः । त्यजेद्भुवं सप्तमवत्सरेऽथ विभूतयस्तस्य भवेयुरष्टमे ॥ ५४॥ गगनचरो दिग्विचरो नवमेऽब्दे यस्तु वज्रकायः स्यात् । स मनोवेगी दशमे यत्रेच्छा तत्र गच्छति प्रमनाः ॥ ५५॥ एकादशके वर्षे सर्वज्ञः सिद्धिमान्भवेद्योगी । द्वादशके शिवतुल्यो कर्ता हर्ता स्वयं भवति ॥ ५६॥ द्वादशवर्षैरेवं सद्गुरुनाथस्य पादयोर्भक्त्या । निर्विघ्नेन धृतात्मा सिद्धो भवतीति संसिद्धम् ॥ ५७॥ अत एव महाश्वर्यं योगमष्टाङ्गमादरात् । शिवपूजाङ्गमेतद्धि त्वमेवाभ्यसनं कुरु ॥ ५८॥ निरन्तरकृताभ्यासाज्जरामरजवर्जितः । स जीवेदिच्छया लोके ततो मुक्तिमवाप्नुयात् ॥ ५९॥ यमेन नियमेनैव मन्ये भक्तिरिव स्वयम् । स्थिरासनसमायुक्तो महेश्वरपरान्वितः ॥ ६०॥ चराचरलयस्थानं लिङ्गमाकाशसंज्ञिकम् । प्राणेत व्योम्नि संलीने प्राणलिङ्गी भवेन्नरः ॥ ६१॥ प्रत्याहारेण संयुक्तः प्रसीदति न संशयः । ध्यानधारणसंयुक्तो चरणस्थलवान्सुधीः ॥ ६२॥ लिङ्गैक्याद्वैतभावात्मा निश्चलैक्यसमाधिना । एवमष्टाङ्गयोगेन वीरशैवो भवेन्नरः ॥ ६३॥ तस्मात्सर्वप्रयत्नेन कर्मणा ज्ञानतोऽपि वा । त्वमप्यष्टाङ्गयोगेन शिवयोगी भवानघ ॥ ६४॥ इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां तृतीयः पटलः ।

अथ चतुर्थः पटलः ।

यत्सर्वगं श्रुतिशिरःपरमैकमाद्यं ज्योतिर्मयं दृढविरक्तजनाभिगम्यम् । गोसंस्थितं गुरुसदाशिव योगिनाथं लिङ्गस्वरूपमहमन्वहमाश्रयामि ॥ १॥ राजयोगः परिग्राह्यो विद्वद्भिस्तेन हेतुना । यस्य साधनमष्टाङ्गहठयोग इहोच्यते ॥ २॥ पूर्वोत्काष्टविधाङ्गगानि हठे तानि स्थितानि च । एकैकश्लोकरूपेण कृतानि च मया श‍ृणु ॥ ३॥ आहारनिद्रेन्द्रियदेहसर्व- व्यापारशीतातपसंज्ञितानाम् । जयश्च शान्तिश्च भवेद्यमाङ्गः- शनैः शनैः साधयितुं स योग्यः ॥ ४॥ भक्तिर्गुरौ परमतत्त्वपदेऽनुरक्ति- र्निःसङ्गता स्वयमुपागतलाभतुष्टिः । एकान्तवासपरता च मनोनिवृत्ति- र्वैराग्यभाव इति ये नियमास्त एव ॥ ५॥ स्वस्वरूपे सर्वकालमासनत्वं सुखासनम् । सर्ववस्तुन्युदासीनभावश्चाऽऽननमीरितम् ॥ ६॥ विदुर्बुधा रेचकपूरकुम्भ- सङ्घट्टनश्वासतया प्रयत्नात् । प्राणस्थिरत्वं जगतां च मिथ्या चित्तं स्थिरं प्राणनिरोधभावः ॥ ७॥ चित्तस्यान्तर्मुखेन प्रतिहतबहुचैतन्यकल्लोलजाल स्योत्पन्नस्यास्य नानाविपुलमतिविकारस्य संसक्तिरेव । तत्तन्नानाविकारग्रसनमिति तथा कथ्यते योगविद्भिः प्रत्याहारः स एवाविचलितसुमनास्तं कदाऽहं भजामि ॥ ८॥ सोऽहम्भावात्प्रकटितपदमद्वैतमुख्यस्वभावं यद्यल्लोके स्फुरति खलु तदात्मस्वरूपस्वभावम् । सम्यग्दृष्टिर्गुरुकरुणया सर्वभूतेषु याति स्वात्मारामः स भवति सखे ध्यानमार्गैकनिष्ठः ॥ ९॥ स्फुरति परमतत्त्वं तस्य बाह्यान्तरे यत् सततममलमत्या धारणं निश्चलेन । पुनरपि च वदामस्ते प्रकाशोऽयमास्ते चलनरहितचित्तं केवलं धारणा मा ॥ १०॥ निजानुभवशीलता निखिलतत्त्वसाम्यश्रुतेः स्मृतेरपि चलस्थितिस्थिरतया निदिध्यासता । सदैकपरिभावनासहजता ह्यनायासनात् । समाधिरिति कीर्तिता सततनिर्विकल्पात्मता ॥ ११॥ बाह्ये चाभ्यन्तरे ब्रह्म सर्वजन्तुषु भासते । तथाऽपि गुरुमज्ञात्वा ते न पश्यन्ति तत्पदम् ॥ १२॥ अथ श‍ृणु महाश्वर्यं राजयोगाभिधानकम् । इमं सद्गुरुणा याति सज्जनो नान्यकर्मभिः ॥ १३॥ दुष्कराभ्यासयोगेन महायासेन किं फलम् । क्षणेन लभ्यते ब्रह्म सद्गुरोरवलोकनात् ॥ १४॥ खण्डज्ञानवेतां च षट्समयसम्मोहान्धकारात्मनां नानावेदपुराणशास्त्रकवितावाग्वैखरीशालिनाम् । मूढानां चतुराश्रमैकनियमाद्गुर्वात्मकानां कथं योगज्ञानमिदं भवेद्गुरुमुखाभावेऽपरोक्षात्मकम् ॥ १५॥ क्षेत्रार्थरम्यगृहपुत्रकलत्रमित्रै- र्वादैर्महारसरसायनधातुवादः । तैः काममन्त्रलययोगहठादिभेदै- र्बन्द्धात्मनां कथमिहास्ति गुरुप्रसादः ॥ १६॥ आदौ वर्णाश्रमाचारगुरौ ब्रह्मज्ञताऽस्ति चेत् । भजेत्तमेव यत्नेन नोचेदन्यं गुरुं भजेत् ॥ १७॥ आत्मानमद्वन्द्वमनन्तमाद्यं निरञ्जनं निश्चलनित्यदीप्तम् । सच्चिन्मयानन्दपरामृतं यो वेत्ति स्वभावेन गुरुः स एव ॥ १८॥ ज्ञानवैराग्यलाभेन तृणीकृत्य जगत्त्रयम् । आदौ सद्गुरुमाश्रित्य तत्त्वज्ञानं समभ्यसेत् ॥ १९॥ ज्ञातृत्वमन्तरिक्षं च समानो वायुरेव च । श्रोत्रमग्निर्ध्वनिर्वारिवाग्भूः खे तत्त्वपञ्चकम् ॥ २०॥ मनश्चैव वियद्व्यानो वायुश्चर्म धनञ्जयः । स्पर्शाऽम्भश्च क्षमा पाणिर्मरुतस्तत्त्वपञ्चकम् ॥ २१॥ नमो बुद्धिरुदानं च मरुदूर्वाग्निरेव च । पायू रूपं धरा पादो वह्नेर्यत्तत्त्वपञ्चकम् ॥ २२॥ चित्तं विष्णुपदं वायुरपानो रसनानलः । रसो जलमुपस्थं भूरपां तत्त्वानि पञ्चकम् ॥ २३॥ अहङ्कारस्तथा प्राणो घ्राणो गन्धो गुदं च हि । भूमितत्त्वानि कीर्त्यन्ते पञ्चधा तत्त्ववेदिभिः ॥ २४॥ पञ्चविंशतित्त्वानि पञ्चभूतस्थितानि च । तानि यो वेत्ति तत्त्वज्ञः स शिवः स च मुक्तिभाक् ॥ २५॥ आध्यात्मिकाधिभूताघिदेवतानि यथाक्रमम् । दशेन्द्रियेषु विभजञ्जीवान्तःकरणेषु च ॥ २६॥ नाहं भूतगुणेन्द्रियाणि च मनोऽहञ्चित्तबुद्धिर्वपुः प्राणाश्वाऽऽश्रमधर्मकर्मनिरतो नैव प्रपञ्चोऽखिलम् । नित्यं निश्वलमेकमच्युतमजं शान्तं शिवं निर्गुणं शुद्धं बुद्धपदं तु यत्तदहमस्मीति स्मरञ्जीवति ॥ २७॥ देहत्रये प्रथितषोडशधाविकारान् लिङ्गानि सप्तदशधा नवधा पदार्थान् । आत्मानमष्टविधया प्रकृतेः स्वमावान् ज्ञात्वा तदन्य इति जीवति यो महात्मा ॥ २८॥ सत्यं ज्ञानमनन्तं यद्ब्रह्मेति वदति श्रुतिः । मुक्तानन्दस्वरूपं च ननु तत्त्वमिति स्थितः ॥ २९॥ नैतदहं नैतदहं चेति च यदन्यद्विभावयाऽऽत्मानम् । सोऽहमिति सोऽहमिति ननु भावय सर्वं त्वमात्मानम् ॥ ३०॥ हृदि ज्ञानादेव मोक्ष इत्येतद्वाक्यमादरात् । गृहीत्वा ज्ञानयोगेऽस्मिन्समाहितमना भव ॥ ३१॥ अतः परं तारकं गृह्यं दृष्टप्रत्ययसंयुतम् । ममानुभवसंसिद्धं योगं प्राणसखे श‍ृणु ॥ ३२॥ मन्त्रेण लययोगेन हठयोगेन सर्वदा । यावद्ब्रह्म न जानन्ति तावत्क्लिश्यन्ति पण्डिताः ॥ ३३॥ नेत्रे निमीलिते नित्यं किञ्चिदुन्मीलिते तदा । यो मनश्चक्षुषा ब्रह्म पश्यतीति स योगिराट् ॥ ३४॥ शशिभास्करयोर्मध्ये तारयो स्थिरतेजसः । बिन्दुद्वयं च संयोज्य ब्रह्मतारकमभ्यसेत् ॥ ३५॥ बाह्यान्तर्मध्यलक्ष्येषु ब्रह्मदर्शनतत्परः । दृष्टादृष्टस्वरूपाणि ननु तानि विलोकय ॥ ३६॥ मूलकन्दादण्डलग्नाद्ब्रह्मनाडी शशिप्रभा । तस्य मध्ये ताडत्कोटिनिभा तामूर्ध्वगामिनीम् ॥ ३७॥ मनसा लक्षयेन्मूर्ति सदृशीं बिसतन्तुना । आब्रह्मरन्ध्रपर्यन्तगतां सिद्धिप्रदां स्मरेत् ॥ ३८॥ ललाटोर्ध्वे तथा लक्ष्ये योगी गोल्लाटमण्डपे । विस्फुरत्तारकाकारं मनसा लक्षयेत्सदा ॥ ३९॥ अथवा कर्णयोर्द्वारे तर्जनीभ्यां निरोधयेत् । श्रीहट्टमस्तके नादं घुङ्घुङ्कारं श‍ृणोति च ॥ ४०॥ चक्षुर्मध्ये तथा नीलज्योतीरूपं विलोकयेत् । अन्तर्लक्ष्यामति ज्ञेयं बहिर्लक्ष्यमथ श‍ृणु ॥ ४१॥ नासाग्रदेशाच्चतुरः षडष्ट तथा दश द्वादश सङ्ख्ययाऽङ्गुलिः । बहिस्थनीलं च सुधूम्ररक्त- तरङ्गपीताद्भुततत्त्वपञ्चकम् ॥ ४२॥ अथवा सन्मुखाकाशं स्थिरदृष्ट्या विलोकयेत् । ज्योतिर्मयूखा दृश्यन्ते योगिभिर्धीरमानसैः ॥ ४३॥ दृष्ट्यग्रे वाऽप्यपाङ्गे वा तप्तकाञ्चनसन्निभाम् । भूमिं संलक्षयेद्दृष्टिः स्थिरा भवति योगिनः ॥ ४४॥ अथवा शिरसश्वोर्ध्वं द्वादशाङ्गुलसम्मिते । ज्योतिष्पुञ्जं निराकारं लक्षयेन्मुक्तिदं भवेत् ॥ ४५॥ यत्र यत्रार्थवान्योगी तत्र तत्र विलक्षयेत् । आकाशमेव यत्तस्य चित्तं भवति तादृशम् ॥ ४६॥ इत्येवं विविधाकारं बहिर्लक्ष्यमुदीरितम् । श‍ृणुष्व मध्यलक्ष्यं च कथितं पूर्वसूरिभिः ॥ ४७॥ श्वेतादिवर्णनवखण्डसुचन्द्रसूर्य- सौदामिनीवह्निशिखेन बिम्बात् । ज्वलन्नमो वा स्थलहीनमेकं विलक्षयेत्तत्खलु मध्यलक्ष्यम् ॥ ४८॥ निराकारं पश्येद्गुणरहितमाकाशमथवा तमोरूपं गाढं स्फुरदुरुपराकाशमथवा । महाकाशं कालानलनिभमथास्यन्तरुचिरं परं तत्त्वाकाशं रविशतनिभं सूर्यखमिति ॥ ४९॥ व्योमपञ्चकमेतद्धि तद्बाह्याभ्यन्तरस्थितम् । यः पश्यति नरो लक्ष्ये स व्योमसदृशो भवेत् ॥ ५०॥ तारणाच्च गुरुशिष्ययोर्द्वयोस्तारकोऽयामिति योगसंज्ञिकः । तारकं भवमहाब्धितारकं तत्त्वमेव परिशीलनं कुरु ॥ ५१॥ फलमेकं द्विधाऽऽचार्या यथार्थं साङ्ख्यतारयोः । उपाधिरहितः साङ्ख्यो योगः सोपाधिकः स्वयम् ॥ ५२॥ इति श्री सदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां चतुर्थः पटलः ।

अथ पञ्चमः पटलः ।

पुनश्चातिरहस्यं यज्ज्योतिषां निलयं महत । दिव्यलिङ्गस्थलं दृष्टमन्तर्लक्ष्यात्मकं श‍ृणु ॥ १॥ नान्तस्थलं बहिर्व्याप्तमपरोक्षस्वरूपकम् । आकाशाभ्यन्तराकाशमन्तर्लक्ष्यं तदेव हि ॥ २॥ लक्ष्यलीनमनसाऽनिलेन यो वर्तते चलिततारको भवेत् । खेचरीयमथ सैव शाम्भवी मुद्रयाऽस्तु कृतया जगद्गुरुः ॥ ३॥ लोकेऽन्तःखेचरी मुद्रा अज्ञात्वा बाह्यखेचरीम् । अवलम्ब्य रता कोचज्जिह्वाछेदनकर्मणा ॥ ४॥ तालुमूलद्वादशान्तमध्यं प्रत्यक्कलात्मकम् । यत्तस्मिञ्ज्योतिषि मनो दत्त्वा निजहृदि क्रमात् ॥ ५॥ दृष्टिस्तु पूर्णिमा ज्ञेयं दृश्यमादौ तमोमयम् । तन्मध्ये मनसा पश्येज्ज्योतिर्लिंङ्ग सुनिश्चलम् ॥ ६॥ नासाग्रदत्तनिमिषोन्मिषबाह्यदृष्ट्या लक्ष्ये सदाशिवविमर्शकगूढदृष्ट्या । ज्योतिःस्वरूपमचलं परिणामहीनं पश्यन्ति ये त इह संयमिनः कृतार्थाः ॥ ७॥ पश्चिमाभिमुखं लिङ्गमभिन्नवलयाकृतिम् । त्वं पूर्वाभिमुखो भूत्वा पश्य पश्य महाद्भुतम् ॥ ८॥ यदा तज्ज्योतिरोङ्कारं ब्रह्माच्युतशिवात्मकम् । पश्यन्ति सूरयः शान्तं तद्विष्णोः परमं पदम् ॥ ९॥ पूर्णेन्दुबिम्ब इव सन्मणिदीपिकेव मध्याह्नसूर्य इव वह्निशिखेव नित्यम् । विद्युत्प्रभेव शिवलिङ्गमहो विचित्रं लक्ष्यान्तरे ज्वलति पश्यति चक्षुरग्रे ॥ १०॥ आत्मलिङ्गमिदं पश्य किमन्यैः कर्मविभ्रमैः । अहिंसाद्यष्टपुष्पैस्त मानसैरङ्ग पूजय ॥ ११॥ पुष्पाण्यहिंसेन्द्रियनिग्रहश्च दयाक्षमाज्ञानसमाह्वयानि । ध्यानं तपः सत्यममीभिरेवं प्रपूजयेदात्मानि सिद्धलिङ्गम् ॥ १२॥ यो निमीलदनिमीलदम्बको रेचपूरपरिवर्जितानिलः । सर्वसंशयविभिन्नमानसो राजयोगपदभाक्स एव हि ॥ १३॥ श‍ृङ्गाटके यस्तु मनो नियम्य त्रिकोणगामी शशिभास्कराभ्याम् । बाह्यान्तरङ्गप्रवणैकगोभि- रष्टावधानी हठराजयोगी ॥ १४॥ दृग्दृश्यमानसम्बन्धादुन्मन्यन्तं विचिन्तयेत् । शिवयोगमिदं गुह्यं जीवन्मुक्तिकरं मुने ॥ १५॥ रोचिस्तडिद्धूम्रकबिन्दुनादं कलाभखद्योतरवीन्दुदीप्ताः । तत्प्रत्ययानेकसुवर्णवर्णा किञ्जल्कदण्डा नवरन्नमुख्याः ॥ १६॥ वक्त्रेणाऽऽपूर्य वायुं हुतवहनिलयेऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठाद्यङ्गुलीभिः स्वकरतलयोः षड्भिरेवं निरुध्य । श्रोत्रे नेत्रे च नासापुटयुगलमथानेन मार्गेण धीराः पश्यन्ति प्रत्ययांस्तान्प्रणवबहुविधध्यानसंलीनचित्ताः ॥ १७॥ दृष्टिर्वा रविसोमपावकयुतां चन्द्रार्कयोरागमे दीप्तानिश्चलगेहदीपनिकटे वानिर्मितीनामपि । दृश्यन्ते स्फुरिता स्फुटा नयनयोरग्रे च तत्प्रत्यया- स्तेषां तत्परचेतसां विगलिता तद्व्यावृतीनां मुने ॥ १८॥ प्रमाणप्रत्ययातीतं शान्तं तेजोमयात्मकम् । तदतीतं परब्रह्म चेति विद्वद्भिरीरितम् ॥ १९॥ भावयोगमसङ्कल्पविकल्पास्पदमद्भुतम् । सम्प्राप्तो यस्तस्य भवेदवस्था चोन्मनी हि सा ॥ २०॥ आधारमध्यहृद्व्याप्तं नादबिन्दुकलात्मकम् । तदतीतं स्वरूपं यत्तदेव परमं पदम् ॥ २१॥ यः समेति मनसा निराश्रयं निरवलम्बपदतत्त्वमव्ययम् । भावनाविरहितं निरामयं परशिवो हृदि स तन्मयो भवेत् ॥ २२॥ अणुमात्रं यदि भवेदस्तित्वं विदुषां भुवि । तदेव बन्धहेतुः स्याद्भावाभावावुभौ त्यजेत् ॥ २३॥ ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये भवाभवौ । ऊहापोहौ यो दृग्दृश्ये सर्व त्यक्त्वा जीवन्मुक्तः ॥ २४॥ सर्वास्ववस्थास्वकृतप्रयत्नो निश्चिन्तभावो मृतवत्स तिष्ठन् । कल्लोलहीनाम्बुधिवन्निवात- प्रदीपवत्तत्त्वमयः सुखी स्यात् ॥ २५॥ श‍ृणु चिच्छिवपूजायाः प्रकारं कथयाम्यहम् । रहस्यं सर्वशास्त्रार्थसारं सद्यो विमुक्तिदम् ॥ २६॥ निश्चिन्तैव शिवध्यानं निष्क्रिया तस्य पूजनम् । प्रदक्षिणं निश्चलत्वं सोऽहम्भावो नमस्क्रिया ॥ २७॥ मौनं सङ्कीर्तनं तस्य जपस्तु परिपूर्णता । कृत्याकृत्यज्ञता शीलं निर्वाणं समदर्शनम् ॥ २८॥ सर्वेन्द्रियगुणरहिता रूपातीता निरञ्जना शान्ता । भावाभावविदूरा सहजावस्थेति सा कथिता ॥ २९॥ जाग्रत्स्वमसुषुप्तिश्च तुरीयं च तथैव च । तुर्यातीतं च सहजं न किञ्चिच्चिन्तयेत्ततः ॥ ३०॥ विहाय कर्माण्यघसंयुतानि गृह्णाति कर्माणि शुभान्वितानि । स्वर्गोन्मुखो यः पुरुषः प्रवृत्तो- नैवाधिकारी स तु जागरेऽपि ॥ ३१॥ अलमलमखिलसुखैकपदश्चेति कदाचिभिवृत्तमनो यः । स तु जाग्रदवस्थायां तिष्ठन्मोक्षोन्मुखो भवति ॥ ३२॥ संसारोत्तरणं ममास्ति कथमित्याचार्यसंसेवनं विद्वत्सङ्गमकामविस्मृतिसदाचारैः समं मौनताम् । वैराग्यश्रुतिशास्त्रनिश्चयधिया कामाद्यरिध्वंसनं योगाभ्यासमुपैति दम्भरहितं जाग्रतयत्स्वभावान्वितः ॥ ३३॥ मृतो जाग्रदवस्थासु यदि चेदन्यजन्मानि । स्वनावस्थां गतो याति पूर्वाभ्यासवशाद्भुवि ॥ ३४॥ स्वप्ने यदखिलं लोकं पश्यञ्शरदभ्ररूप इव चित्ते । तिष्ठन्सत्तामात्रः स्वप्नावस्थान्वितश्चरति ॥ ३५॥ गते द्वैतभावे स्थिते शान्तिशेषे प्रकाशस्वभावे चिदानन्दमानौ । बहिर्वृत्तियुक्तोऽप्यहो हृत्प्रवृत्तः सुषुप्तिस्थितश्चित्रवद्भाति योगी ॥ ३६॥ अनमृतोऽप्यमृतक्षयमानसो विदितशान्ततनुर्निरहङ्कृतिः । गलितगन्धगुणः स तुर्यभाग्वहति जीवति मुक्तिमभावनः ॥ ३७॥ सम्पूर्णकुम्भ इव वारिनिधानमध्ये संशून्यकुम्भ इव विष्णुपदान्तराले । अन्तर्बहिः प्रथितपूर्णशून्यभावः सचित्रदीप इव भाति तुरीययुक्तः ॥ ३८॥ कैश्चिद्ब्रह्मेति कैश्चिद्धारिरिति शिव इत्यादि कैश्चित्स नाना- भेदैः प्रोक्तं सशून्यप्रकृतिपुरुषकालार्थरूपति कैश्चित् । कैश्विल्लोकैविकल्पात्मकबहुवचनैर्देहयुक्तोऽपि नित्यं मुक्तः स्याद्यस्तुरीयातीतसमाख्यामवस्थां समेत्य ॥ ३९॥ तस्मात्सर्वप्रयत्नेन क्रमाद्भ्यासयोगतः । तुर्यातीतां तामवस्थां समासाद्य सुखी भव ॥ ४०॥ सर्वावस्थां गतो वाऽपि सर्वावस्थां न संस्मर । त्यज सङ्गमशेषं च मनोऽन्तर्बहिरन्वितम् ॥ ४१॥ निवर्तमान्यकर्माणि शिवयोगं प्रवर्तय । सहजायमनस्कान्तां मुद्रां सच्चिन्मयीं भज ॥ ४२॥ आत्मानं गगनं कृत्वा बिन्दुं कृत्वा तथैव च । द्वयं समरसं कुर्यादमनस्ककला हि सा ॥ ४३॥ स्वप्नजागरणातीतं मृतजीवनवर्जितम् । स्वामिञ्शिवामनस्काख्यं गमिष्यामः कदा वयम् ॥ ४४॥ सचराचरजगदखिलं यत्किञ्चिदिदं भवेन्मनोदृश्यम् । मनसोऽप्युन्मानितां याति स तत्त्वं कथं न भवेत् ॥ ४५॥ अथवा यत्र मनः संयाति हि तत्रैव तन्मनः स्थाप्य । तत्कारणाल्लयः स्याद्वृद्धिः स्याद्वार्यमाणं तु ॥ ४६॥ यथेच्छया मनो गच्छेत्स्वयमेव निवर्तते । निरङ्कुशेन विधिना करटीव मदोत्कटः ॥ ४७॥ नाद एव लयश्रेष्ठो मुद्राणां खेचरी वरा । योगश्रेष्ठो निरालम्बो ह्यवस्थासु मनोन्मनी ॥ ४८॥ राजयोगस्य मुद्रां तामेत्य योगी मनोन्मनीम् । विचरत्याखिलांल्लोकान्बालोन्मत्तपिशाचवत् ॥ ४९॥ जीवन्मुक्तिप्रकारस्य योग एव न चान्यथा । स एव सिद्धिदः सम्यक्सर्वदर्शनसम्मतः ॥ ५०॥ मन्त्रलयावारम्भकघटसंज्ञौ परिचयो हठः स्यातत् । समनिष्पत्तिस्मृत एव महान्राजयोगस्तु ॥ ५१॥ तस्मात्संसेव्य एवंविध इह यमिना श्रेयसे योगमार्गो ह्यालस्यं धूर्तसङ्गं स्वजनकुपितशास्त्रान्धकारोरुरोगान् । जित्वा मन्वन्तरायान्पुनरपि च महायोगजैश्वर्यसिद्धि स्त्यक्त्वा स्थित्वा सुदेशे सजनपरिवृतेऽबाधिते धर्मराज्ये ॥ ५२॥ तापत्रयं नवविधं व्यवहारभावाः षट्कौशिकानि षडमित्रकपञ्चकोशा । षड्भावजा विकृतयश्च षडूर्मयश्च निष्पन्नयोगमहतां भुवि न स्युरेव ॥ ५३॥ महादीप्तवह्निर्दहेच्छुष्कमात्रं यथा पुण्यपापात्मकं सर्वकर्म । तथा निर्दहेत्क्षणाज्ज्ञानवह्नि- स्ततो मुक्तिमायाति निष्पन्न योगी ॥ ५४॥ अत्यल्पदीपः सुमहत्तमस्तु विनाशयेद्यो निबिडं हठाद्यथा । अल्पोऽप्यहो योगसमाधिरेष विनाशयेत्कर्म शुभाशुभं तथा ॥ ५५॥ यो यो योगसमुद्यतोऽवनितले यात्यन्तिकामापदं स्वर्लोकान्समुपेत्य शाश्वतसुखं तत्रानुभूय स्वयम् । सञ्जायेत ततः सतां श्रुतिमतां यस्मिन्कुले योगिनां तुष्टिं प्राप्य निवर्तयेदविभवं योगी शिवाख्यं परम् ॥ ५६॥ ब्रह्मणि परे हृदयमपि यस्य लीनं तस्य मातापितराविह परत्र चरितार्थौ । तस्य कुलजाः स्युरनघा जयन्ति सर्वे तस्य पदसङ्घटितभूरतिपवित्रा ॥ ५७॥ योगशास्त्रे रहस्यानि सिद्धसिद्धान्तपद्धतिः । सङ्क्षेपेण कृता बोध्या शिवयोगप्रदीपिका ॥ ५८॥ अभ्यासशूराय जितेन्द्रियाय शिवे गुरौ भक्तिसुनिश्चलाय । देयं रहस्यं शिवयोगशास्त्रं यो मूढदाता गुरुपातकी स्यात् ॥ ५९॥ पुरबाणानजसायकान्समुद्रऋतून्करेषूंस्तथा निधिबाणांश्च पञ्च पञ्चधा पटलिकास्वेवं शिवाङ्कं मया । परमित्यादिकशब्दजालविविधच्छन्दोभिरेस्तकृतं गिरिनागाम्बकसङ्ख्ययाऽपि सकलं वन्यैश्च योगान्बहून् ॥ ६०॥ इति श्रीसदाशिवयोगीश्वरविराचेतायां शिवयोगदीपिकायां योगशास्त्रे राजयोगप्रकारेऽमनस्कविधानो नाम पञ्चमः पटलः । सदाशिवब्रह्मेन्द्र समाप्तश्चायं ग्रन्थः । Proofread by Ruma Dewan
% Text title            : Shiva Yoga Dipika
% File name             : shivayogadIpikA.itx
% itxtitle              : shivayogadIpikA (sadAshivayogIshvaravirachitA)
% engtitle              : shivayogadIpikA
% Category              : shiva, yoga, sadAshivabrahmendra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sadashivendra Sarasvati 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : mantra\-laya\-haTha\-rAjAkhyachaturvidhayogAnAM vivaraNaM
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : June 28, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org