स्मरगौरीशस्तवः
(४८)
ॐ श्रीगणेशाय नमः ।
भगवत्पादयतीश्वरममलं परशिवलीलाकलितशरीरम् ।
परमतभेदनिरासनचतुरं परमं गुरुवरमाश्रय इह तम् ॥ १॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥ ध्रुवपदम् ॥
यस्मादेतद् विश्वमशेषं समभूद् येन समन्वितमन्ते ।
लयमपि गच्छेत् परमानन्दे परशिवरूपपरात्परतत्त्वे ॥ २॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
मायाशक्तिः समजनि यस्मात् त्रिगुणव्यक्तिं सृजते कार्यम् ।
यदनु क्रमतः सकलं जनितं परशिवरूपे परमाधारे ॥ ३॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
यन्मुखचरणौ हरिधातारौ द्रष्टुं यातौ तिर्यग्भावम् ।
दिवि भुवि नेशौ समभूतां तौ परमं दैवं नास्ति यतोऽन्यत् ॥ ४॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
यत्प्राप्त्यर्थं कर्म समस्तं नालं योगः साङ्ख्यमतं वा ।
भक्तिग्राह्यं परमानन्दं भवरोगैकनिवारणचतुरम् ॥ ५॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
लिङ्गे वार्चां कुरुते मर्त्यो यस्य परस्य प्रतिपत्त्यर्थम् ।
तस्य समीर्षं वाप्यथ गन्तुं बिभ्यति दूताः शमनस्यापि ॥ ६॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
यस्माद् भीत्योदेति विवस्वान् वातो वात्यपि भीत्या यस्मात् ।
सर्वं शास्ति यदन्तस्तिष्ठन्नन्तर्यामिश्रुतिकथितो यः ॥ ७॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
वर्णाश्रमिकृतकर्म समस्तं यत्प्रीत्यर्थं क्रियते चेत् तत् ।
सम्यग् भवतीत्युक्तमतोऽन्यः को वा देवो भवतीशानात् ॥ ८॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
यो वै रुद्रो भगवानिति यं श्रुतिरपि साध्वी सकलात्मानम् ।
प्राह परेशो मोक्षद इति च स्वाहावचनादाथर्वणगात् ॥ ९॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
शतरुद्रीयं जपतां विदुषां सर्वक्लेशविनाशनमूचे ।
यदनुग्रहतः सर्वनराणां भुक्तिर्मुक्तिर्भवत इहेति ॥ १०॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
शिव शङ्कर हर भक्तशरण्येत्यनिशं पठतां नतिनुतिसमये ।
पापविनाशं कुरुते भगवान् परशिवभावप्रकटनमपि च ॥ ११॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
श्रीमद्व्याघ्रपुरस्थितममलं चित्सुखनटनविराजितचरणम् ।
देवमुनीश्वरसेवितविभवं चिन्तकसज्जनभावितसुषमम् ॥ १२॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
वेदान्तेषु यमाहुरजस्रं विश्वाधिक इति सर्वमुनीन्द्राः ।
मूर्त्यष्टकवपुषं कथयन्ते केचित् सुधियः सकलात्मानम् ॥ १३॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
विजयी भव हे परमेश्वर भो विश्वोत्तीर्ण विभो परमात्मन् ।
मम हृदि भासित मङ्गलमूर्ते'' कुरु तव चिन्तारसिकं हृदयम् ॥ १४॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
गुणवैतृष्ण्यं परवैराग्यं गुणचिन्तानां यमनिष्ठानाम् ।
यत्कृपयात्मशिवैक्यपराणां न भवेज्जननीजठरे वासः ॥ १५॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
कणभुग्वादपरिश्रमतो वा जैमिनितन्त्रकृतश्रमतो वा ।
न भवति जन्मशतेष्वपि मुक्तिः शिवचरणं भज मुक्तिनिदानम् ॥ १६॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
नित्यं शुद्धं बुद्धं मुक्तं त्वक्षरमनुभवगम्यं पूर्णम् ।
यं शिवमेकं पश्यन्तोऽमी सङ्गच्छन्ते कृतकृत्यत्वम् ॥ १७॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
इन्द्रं विष्णुं ब्रह्माणं वा ध्यायन्तस्ते यत्कृपयैव ।
क्रमतोऽवाप्य सदाशिवभावं परमोदाराः स्युर्भयहीनाः ॥ १८॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
सामान्यात्मतया हि समस्तं प्रविलाप्यैतत् स्वप्नसदृक्षम् ।
यं पश्यन्ति ज्ञानसमाधौ शिवमद्वैतं प्रत्यक्प्रवणाः ॥ १९॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
जीवन्मुक्ततया कृतकृत्या अपि विद्वांसः परमेशस्य ।
प्रारब्धक्षयपर्यन्तं ते भक्तिं कुर्वन्तीति हि शिष्टाः ॥ २०॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
अन्वहमेतत् परशिवभजनं बुधरमणीयं भवतीत्याहुः ।
श्रुतयः स्मृतयः सुधियो लोके कलितरणादिसमस्तपुमर्थम् ॥ २१॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
काशीपुरवरवासपराणां कलिकल्मषहरतीर्थरतानाम् ।
प्रदिशति भगवानन्तिमसमये भवभयतारकतारकबोधम् ॥ २२॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
सवितुर्देवस्यान्तर्हृदये तिष्ठन् भर्गो बुद्धिं नोऽसौ ।
ईष्टे सोऽक्षिण्येकतयोक्तो गायत्र्याख्यच्छन्दोवचसाम् ॥ २३॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
न शिवादधिकं श्रुतिशासनतो न शिवादधिकं स्मृतिशासनतः ।
न शिवादधिकं मुनिशासनतो न शिवाधिकं गुरुशासनतः ॥ २४॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
भजगोविन्दस्तुतिरिह कथिता भगवत्पादयतीश्वरगुरुभिः ।
तत्कृपयैव शिवस्तवनं मे कृतमिति सन्तः करुणां कुर्युः ॥ २५॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥
सोमकलाधरशम्भोरेतत् स्तोत्रं यः पठतीह मनुष्यः ।
स हि भुवि धन्यः स हि भुवि मान्यः स हि भुवि भक्तः स हि भुवि मुक्तः ॥
स्मर गौरीशं स्मर गौरीशं स्मर गौरीशं पापमते ॥ २६॥
इति श्रीस्मरगौरीशस्तवः सम्पूर्णः ।
भजगौरीशस्तुतिः
This stotra is on the model of the Bhajagovindam
(also known as mohamudgara) of Shankaracharya,
as is expressly stated in the last but one
verse of this stotra.
It also resembles the updeshashikhAmaNi of
Tyagaraja, disciple of AnandanAtha.
Proofread by Sivakumar Thyagarajan Iyer