भट्टनारायणविरचिता स्तवचिन्तामणिः

भट्टनारायणविरचिता स्तवचिन्तामणिः

सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्दमहिमा परमेश्वरः ॥ १॥ यः स्फीतः श्रीदयाबोधपरमानन्दसम्पदा । विद्योद्योतितमाहात्म्यः स जयत्यपराजितः ॥ २॥ प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे ॥ ३॥ द्विष्मस्त्वां त्वां स्तुमस्तुभ्यं मन्त्रयामोऽम्बिकापते । अतिवाल्लभ्यतः साधु विश्वङ्नो धृतवानसि ॥ ४॥ संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये । वियन्मायास्वरूपाय विभवे शम्भवे नमः ॥ ५॥ भिन्नेष्वपि न भिन्नं यच्छिन्नेष्वछिन्नमेव च । नमामः सर्वसामान्यं रूपं तत्पारमेश्वरम् ॥ ६॥ प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते पुनः । ब्रह्माण्डादपि नैर्गुण्यगुणाय स्थाणवे नमः ॥ ७॥ ब्रह्माण्डगर्भिणीं व्योमव्यापिनः सर्वतोगतेः । परमेश्वरहंसस्य शक्तिं हंसीमिव स्तुमः ॥ ८॥ निरुपादानसम्भारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ९॥ मायाजलोदरात्सम्यगुद्धृत्य विमलीकृतम् । शिवज्ञानं स्वतो दुग्धं देह्येहि हरहंस नः ॥ १०॥ षट्प्रमाणीपरिच्छेदभेदयोगेऽप्यभेदिने । परमार्थैकभावाय बलिं यामो भवाय ते ॥ ११॥ अपि पश्येम गम्भीरां परेण ज्योतिषाभितः । उन्मृष्टतमसं रम्यामन्तर्भव भवद्गुहाम् ॥ १२॥ नमस्तेभ्योऽपि ये सोमकलाकलितशेखरम् । नाथं स्वप्नेऽपि पश्यन्ति परमानन्ददायिनम् ॥ १३॥ भगवन्भव भावत्कं भावं भावयितुं रुचिः । पुनर्भवभयोच्छेददक्षा कस्मै न रोचते ॥ १४॥ यावज्जीवं जगन्नाथ कर्तव्यमिदमस्तु नः । त्वत्प्रसादात्त्वदेकाग्रमनस्कत्वेन या स्थितिः ॥ १५॥ शाखासहस्रविस्तीर्णवेदागममयात्मने । नमोऽनन्तफलोत्पादकल्पवृक्षाय शम्भवे ॥ १६॥ वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो । त्वन्मयीभूय निर्द्वन्द्वाः कच्चित्स्यामापि कर्हिचित् ॥ १७॥ जगतां सर्गसंहारतत्तद्धितनियुक्तिषु । अनन्यापेक्षसामर्थ्यशालिनि शूलिने नमः ॥ १८॥ व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः । नामापि ध्यायतां ध्यानैः किमन्यालम्बनैः फलम् ॥ १९॥ नमो नमः शिवायेति मन्त्रसामर्थ्यमाश्रिताः । श्लाघ्यास्ते शाम्भवीं भूतिमुपभोक्तुं य उद्यताः ॥ २०॥ कः पन्था येन न प्राप्यः का च वाङ्नोच्यसे यया । किं ध्यानं येन न ध्येयः किं वा किं नासि यत्प्रभो ॥ २१॥ अर्चितोऽयमयं ध्यात एष तोषित इत्ययम् । रसः स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥ २२॥ नमो निःशेषधीपत्रिमालालयमयात्मने । नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने ॥ २३॥ अज्ञानतिमिरस्यैकमौषधं संस्मृतिस्तव । भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि ॥ २४॥ नम ईशाय निःशेषपुरुषार्थप्रसाधकः । प्रणन्तव्यः प्रणामोऽपि यदीय इह धीमताम् ॥ २५॥ मग्नैर्भीमे भवाम्भोधौ निलये दुःखयादसाम् । भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितम् ॥ २६॥ निरावरणनिर्द्वन्द्वनिश्चलज्ञानसम्पदाम् । ज्ञेयोऽसि किल केऽप्येते ये त्वां जानन्ति धूर्जटे ॥ २७॥ निर्गुणोऽपि गुणज्ञानां ज्ञेय एको जयत्यजः । निष्कामोऽपि प्रकृत्या यः कामनानां परं फलम् ॥ २८॥ श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः । तत्क्षीरोदमैश्वर्यं तवैव सहजं विभो ॥ २९॥ नमो भक्त्या नृणां मुक्त्यै भवते भव तेऽवते । स्मृत्या नुत्या च ददते शम्भवे शं भवेऽभवे ॥ ३०॥ सर्वज्ञः सर्वकृत्सर्वमसीति ज्ञानशालिनाम् । वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयार्प्यते ॥ ३१॥ इच्छाया एव यस्येयत्फलं लोकत्रयात्मकम् । तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः ॥ ३२॥ ब्रह्मादयोऽपि तद्यस्य कर्मसोपानमालया । उपर्युपरि धावन्ति लब्धुं धाम नमामि तम् ॥ ३३॥ अयं ब्रह्मा महेन्द्रोऽयं सूर्यचन्द्रमसाविमौ । इति शक्तिलता यस्य पुष्पिता पात्वसौ भवः ॥ ३४॥ भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि । दूरगैरपि यस्यान्तो दुर्गमस्तं स्तुमो मृडम् ॥ ३५॥ नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा । प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने ॥ ३६॥ किं स्मयेनेति मत्वापि मनसा परमेश्वर । स्मयेन त्वन्मयोऽस्मीति मामि नात्मनि किं मुदा ॥ ३७॥ चिन्तयित्वापि कर्तव्यकोटीश्चित्तस्य चापलात् । विश्राम्यन्भव भावत्कचित्तानन्दे रमे भृशम् ॥ ३८॥ सूक्ष्मोऽपि चेत्त्रिलोकीयं कलामात्रं कथं तव । स्थूलोऽथ किं सुदर्शो न ब्रह्मादिभिरपि प्रभो ॥ ३९॥ वाच्य एषां त्वमेवेति नाभविष्यदिदं यदि । कः क्लेशं देव वाग्जालेष्वकरिष्यत्सुधीस्तदा ॥ ४०॥ क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो । दृश्योऽसीत्युपदेशेन प्रसादः क्रियतां मम ॥ ४१॥ नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे । सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥ ४२॥ अहो क्षेत्रज्ञता सेयं कार्याय महते सताम् । ययानन्तफलां भक्तिं वपन्ति त्वय्यमी प्रभो ॥ ४३॥ महतीयमहो माया तव मायिन्ययावृतः । त्वद्‍ध्याननिधिलाभेऽपि मुग्धो लोकः श्लथायते ॥ ४४॥ आरम्भे भव सर्वत्र कर्म वा करणादि वा । विश्वमस्तु स्वतन्त्रस्तु कर्ता तत्रैकको भवान् ॥ ४५॥ त्रिगुणत्रिपरिस्पन्दद्वन्द्वग्रस्तं जगत्त्रयम् । उद्धर्तुं भवतोऽन्यस्य कस्य शक्तिः कृपाथवा ॥ ४६॥ दोषोऽपि देव को दोषस्त्वामाप्तुं यः समास्थितः । गुणोऽपि च गुणः को नु त्वां नाप्तुं यः समास्थितः ॥ ४७॥ रागोऽप्यस्तु जगन्नाथ मम त्वय्येव यः स्थितः । लोभायापि नमस्तस्मै त्वल्लाभालम्बनाय मे ॥ ४७॥ अहो महदिदं कर्म देव त्वद्भावनात्मकम् । आब्रह्मक्रिमि यस्मिन्नो मुक्तयेऽधिक्रियेत कः ॥ ४८॥ आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणाम् । तदन्तर्वृत्तयश्चित्रास्तवैवेशो धियः पथि ॥ ४९॥ यावदुत्तरमास्वादसहस्रगुणविस्तरः । त्वद्भक्तिरसपीयूषान्नाथ नान्यत्र दृश्यते ॥ ५०॥ उपसंहृतकामाय कामायतिमतन्वते । अवतंसितसोमाय सोमाय स्वामिने नमः ॥ ५१॥ किमशक्तः करोमीति सर्वत्रानध्यवस्यतः । सर्वानुग्राहिका शक्तिः शाङ्करी शरणं मम ॥ ५२॥ गुणातीतस्य निर्दिष्टनिःशेषातिशयात्मनः । लभ्यते भव कुत्रांशे परः प्रतिनिधिस्तव ॥ ५३॥ निर्द्वन्द्वे निरुपाधौ च त्वय्यात्मनि सति प्रभो । वयं वञ्च्यामहेऽद्यापि माययामेयया तव ॥ ५४॥ अणिमादिगुणावाप्तिः सदैश्वर्यं भवक्षयः । अमी भव भवद्भक्तिकल्पपादपपल्लवाः ॥ ५५॥ या या दिक्तत्र न क्वासि सर्वः कालो भवन्मयः । इति लब्धोऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यताम् ॥ ५६॥ नमः प्रसन्नसद्वृत्तमानसैकनिवासिने । भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे ॥ ५७॥ हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना । त्वद्बोधदीपिका मेऽस्तु नाथ त्वद्भक्तिदीपिका ॥ ५८॥ विसृष्टानेकसद्बीजगर्भं त्रैलोक्यनाटकम् । प्रस्ताव्य हर संहर्तुं त्वत्तः कोऽन्यः कविः क्षमः ॥ ५९॥ नमः सदसतां कर्तुमसत्त्वं सत्त्वमेव वा । स्वतन्त्रायास्वतन्त्राय व्ययैश्वर्यैकशालिने ॥ ६०॥ त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते । स बिन्दुर्यस्य तं वन्दे देवमानन्दसागरम् ॥ ६१॥ अहो ब्रह्मादयो धन्या ये विमुक्तान्यसङ्कथम् । नमो नमः शिवायेति जपन्त्याह्लादविह्वलाः ॥ ६२॥ निष्कामायापि कामानामनन्तानां विधायिने । अनादित्वेऽपि विश्वस्य भोक्त्रे भव नमोऽस्तु ते ॥ ६३॥ स्तुमस्त्रिभुवनारम्भमूलप्रकृतिमीश्वरम् । लिप्सेरन्नोपकारं के यतः सम्पूर्णधर्मणः ॥ ६४॥ महत्स्वप्यर्थकृच्छ्रेषु मोहौघमलिनीकृताः । स्मृते यस्मिन्प्रसीदन्ति मतयस्तं शिवं स्तुमः ॥ ६५॥ प्रभो भवत एवेह प्रभुशक्तिरभङ्गुरा । यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥ ६६॥ कुकर्मापि यमुद्दिश्य देवं स्यात्सुकृतं परम् । सुकृतस्यापि सौकृत्यं यतोऽन्यत्र न सोऽसि भोः ॥ ६७॥ एष मुष्ट्या गृहीतोऽसि दृष्ट एष क्व यासि नः । इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिम् ॥ ६८॥ स्तुमस्त्वां ऋग्यजुःसाम्नां शुक्रतः परतः परम् । यस्य वेदात्मिकाज्ञेयमहो गम्भीरसुन्दरी ॥ ६९॥ विधिरादिस्तथान्तोऽसि विश्वस्य परमेश्वर । धर्मग्रामः प्रवृत्तो यस्त्वत्तो न स कुतो भवेत् ॥ ७०॥ नमस्ते भवसम्भ्रान्तभ्रान्तिमुद्भाव्य भिन्दते । ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥ ७१॥ यस्याः प्राप्येत पर्यन्तविशेषः कैर्मनोरथैः । मायामेकनिमेषेण मुष्णंस्तां पातु नः शिवः ॥ ७२॥ वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियम् । नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः ॥ ७३॥ ब्रह्मणोऽपि भवान्ब्रह्म कस्य नेशस्त्वमीशितुः । जगत्कल्याणकल्याणं कियत्त्वमिति वेत्ति कः ॥ ७४॥ किमन्यैर्बन्धुभिः किं च सुहृद्भिः स्वामिभिस्तथा । सर्वस्थाने ममेश त्वं य उद्धर्ता भवार्णवात् ॥ ७५॥ जयन्ति मोहमायादिमलसङ्क्षालनक्षमाः । शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः ॥ ७६॥ गायत्र्या गीयते यस्य धियां तेजः प्रचोदकम् । चोदयेदपि कच्चिन्नः स धियः सत्पथे प्रभुः ॥ ७७॥ अष्टमूर्ते किमेकस्यामपि मूर्तौ न नः स्थितिम् । शाश्वतीं कुरुषे यद्वा तुष्टः सर्वं करिष्यसि ॥ ७८॥ वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरम् । भवतस्त्वीश नामापि मोक्षपर्यन्तसिद्धिदम् ॥ ७९॥ मुहुर्मुहुर्जगच्चित्रस्यान्यान्यां स्थितिमूहितुम् । शक्तिर्या ते तया नाथ को मनस्वी न विस्मितः ॥ ८०॥ दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा । एकवीरा स्मृतिर्यस्य तं स्मरामः स्मरद्विषम् ॥ ८१॥ जयन्ति गीतयो यासां स गेयः परमेश्वरः । यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः ॥ ८२॥ भवानिव भवानेव भवेद्यदि परं भव । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिः ॥ ८३॥ मन्त्रोऽसि मन्त्रणीयोऽसि मन्त्री त्वत्तः कुतोऽपरः । स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो ॥ ८४॥ भारूपः सत्यसङ्कल्पस्त्वमात्मा यस्य सोऽप्यहम् । संसारीति किमीशैष स्वप्नः सोऽपि कुतस्त्वयि ॥ ८५॥ तदभङ्गि तदग्राम्यं तदेकमुपपत्तिमत् । त्वयि कर्मफलन्यासकृतामैश्वर्यमीश यत् ॥ ८६॥ क्षमः कां नापदं हन्तुं कां दातुं सम्पदं न वा । योऽसौ स दयितोऽस्माकं देवदेवो वृषध्वजः ॥ ८७॥ मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः । निर्मलीकरणे नाथ त्वद्भक्तिः परमाञ्जनम् ॥ ८८॥ निर्भयं यद्यदानन्दमयमेकं यदव्ययम् । पदं देह्येहि मे देव तूर्णं तत्किं प्रतीक्षसे ॥ ८९॥ अहो निसर्गगम्भीरो घोरः संसारसागरः । अहो तत्तरणोपायः परः कोऽपि महेश्वरः ॥ ९०॥ नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने । मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥ ९१॥ ऐश्वर्यज्ञानवैराग्यधर्मेभ्योऽप्युपरि स्थितिम् । नाथ प्रार्थयमानानां त्वदृते का परा गतिः ॥ ९२॥ त्वय्यनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणम् । त्वदिच्छानुगृहीतस्तु वहेद्ब्राह्मीं धुरं न कः ॥ ९३॥ हरप्रणतिमाणिक्यमुकुटोत्कटमस्तकाः । नमेयुः कं परं कं वा नमयेयुर्न धीधनाः ॥ ९४॥ सर्वविभ्रमनिर्मोकनिष्कम्पममृतह्रदम् । भवज्ज्ञानाम्बुधेर्मध्यमध्यासीयापि धूर्जटे ॥ ९५॥ चित्रं यच्चित्रदृष्टोऽपि मनोरथगतोऽपि वा । परमार्थफलं नाथ परिपूर्णं प्रयच्छसि ॥ ९६॥ को गुणैरधिकस्त्वत्तस्त्वत्तः को निर्गुणोऽधिकः । इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे ॥ ९७॥ कीर्तनेऽप्यमृतौघस्य यत्प्रसत्तेः फलं तव । तत्पातुमपि कोऽन्योऽलं किमु दातुं जगत्पते ॥ ९८॥ निःशेषप्रार्थनीयार्थसार्थसिद्धिनिधानतः । त्वत्तस्त्वद्भक्तिमेवाप्तुं प्रार्थये नाथ सर्वथा ॥ ९९॥ नमस्त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषाम् । त्रिलोकीनाथतादाननिर्विनायकशक्तये ॥ १००॥ निःशेषक्लेशहानस्य हेतुः क इति संशये । स्वामिन्सोऽसीति निश्चित्य कस्त्वां न शरणं गतः ॥ १०१॥ भुक्त्वा भोगान्भवभ्रान्तिं हित्वा लप्स्ये परं पदम् । इत्याशंसेह शोभेत शम्भौ भक्तिमतः परम् ॥ १०२॥ नाथ स्वप्नेऽपि यत्कुर्यां ब्रूयां वा साध्वसाधु वा । त्वदधीनत्वदर्पेण सर्वत्रात्रास्मि निर्वृतः ॥ १०३॥ ज्योतिषामपि यज्ज्योतिस्तत्र त्वद्धाम्नि धावतः । चित्तस्येश तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः ॥ १०४॥ मन्ये न्यस्तपदः सोऽपि क्षेम्ये मोक्षस्य वर्त्मनि । मनोरथः स्थितो यस्य सेविष्ये शिवमित्ययम् ॥ १०५॥ स्थित्युत्पत्तिलयैर्लोकत्रयस्योपक्रियास्विह । एकैवेश भवच्छक्तिः स्वतन्त्रं तन्त्रमीक्षसे ॥ १०६॥ त्रिलोक्यामिह कस्त्रातस्त्रिताप्या नोपतापितः । तस्मै नमोऽस्तु ते यस्त्वं तन्निर्वाणामृतह्रदः ॥ १०७॥ कृत्रिमापि भवद्भक्तिरकृत्रिमफलोदया । निश्छद्मा चेद्भवेदेषा किम्फलेति त्वयोच्यताम् ॥ १०८॥ तच्चक्षुरीक्ष्यसे येन सा गतिर्गम्यसे यया । फलं तदज जातं यत्त्वत्कथाकल्पपादपात् ॥ १०९॥ श्रेयसा श्रेय एवैतदुपरि त्वयि या स्थितिः । तदन्तरायहृतये त्वमीश शरणं मम ॥ ११०॥ अहो स्वादुतमः शर्वसेवाशंसासुधारसः । कुत्र कालकलामात्रे न यो नवनवायते ॥ १११॥ मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥ ११२॥ मलतैलाक्तसंसारवासनावर्तिदाहिना । ज्ञानदीपेन देव त्वां कदा नु स्यामुपस्थितः ॥ ११३॥ निमेषमपि यद्येकं क्षीणदोषे करिष्यसि । पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि ॥ ११४॥ धन्योऽस्मि कृतकृत्योऽस्मि महानस्मीति भावना । भवेत्सालम्बना तस्य यस्त्वदालम्बनः प्रभो ॥ ११५॥ शुभाशुभस्य सर्वस्य स्वयं कर्ता भवानपि । भवद्भक्तिस्तु जननी शुभस्यैवेश केवलम् ॥ ११६॥ प्रसन्ने मनसि स्वामिन्किं त्वं निविशसे किमु । त्वत्प्रवेशात्प्रसीदेत्तदिति दोलायते जनः ॥ ११७॥ निश्चयः पुनरेषोऽत्र त्वदधिष्ठानमेव हि । प्रसादो मनसः स्वामिन्सा सिद्धिस्तत्परं पदम् ॥ ११८॥ वचश्चेतश्च कार्यं च शरीरं मम यत्प्रभो । त्वत्प्रसादेन तद्भूयाद्भवद्भावैकभूषणम् ॥ ११९॥ स्तवचिन्तामणिं भूरिमनोरथफलप्रदम् । भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधात् ॥ १२०॥ इति श्रीमहामाहेश्वराचार्यवर्यश्रीभट्टनारायणविरचितः स्तवचिन्तामणिः समाप्ता । Proofread by PSA Easwaran psawaswaran
% Text title            : stavachintAmaNI by Bhatta Narayana
% File name             : stavachintAmaNI.itx
% itxtitle              : stavachintAmaNiH (bhaTTanArayaNavirachitA)
% engtitle              : Stavachintamani by Bhatta Narayana
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : advaitaparaka stavana of paramashiva, Kashmir Shaivism
% Indexextra            : (Text with Sanskrit commentary 1, 2, 3)
% Latest update         : March 19, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org