स्तुतिपद्धतिः

स्तुतिपद्धतिः

श्रीशिवाभ्यां नमः । नमस्ते भीमाय श्रुतिशिखरसीमाय च नमो नमस्ते शर्वाय क्षपितयमगर्वाय च नमः । नमस्ते रुद्राय स्फुरदवनमुद्राय च नमो नमस्ते साम्बाय त्रिजगदवलम्बाय च नमः ॥ १॥ अळिन्दसुरपादपः श्रितवतां दयातोऽर्जुने पुळिन्दवपुराप्तवानघहरस्वनामाक्षरः । मिळिन्दकचयैकया मिळितवामभागः स्फुर- त्कळिन्दतनयोर्मि निर्मलगळोऽयमस्मत्प्रभुः ॥ २॥ नैवाकारं कमपि सहते तात्त्विकं नो गुणं वा पार्थक्यं वा न तव कियदप्यन्ततोऽस्मत्प्रतीचः । आम्नायानां विततिरपरिच्छेदमावेदयन्ती त्वद्रूपस्यानघसुखचिदेकायनस्य स्मरारे ॥ ३॥ आत्मानं नश्शिव परचिदानन्दरूपं भवन्तं मन्दात्मनो वयमकुशलाः पर्युपेतुं तदास्ताम् । उच्चान्नीचानपि हि गहनादुद्धरन्तीन्दुगौरी गौरीजानेर्जयति करुणा कापि ते सा गतिर्नः ॥ ४॥ ब्रूमः किं वा पुरहर चिदानन्दरूपस्वरूपं साम्राज्यं नस्त्वमसि तदपभ्रंशसङ्क्लेशिताः स्मः । तल्लाभाय प्रतिभवति तत्तावकं दिव्यरूपं गौरं गौरीलसितमसितग्रीवमर्धेन्दुचूडम् ॥ ५॥ रूपं मे चिद्घनमनुपमं दर्शयन्त्यागमान्ताः हन्त श्रान्तो गहनकुहनैकान्तदक्षैस्तदक्षैः । नाप्नोम्येतैरुपगत भवत्सन्निधिश्चोपरुध्ये नार्हस्येनं पुनरशरणं नाथ सर्वज्ञ हातुम् ॥ ६॥ मान्द्यं क्वैतत् गहनकुहनैकान्तिकः क्वाक्षवर्गों निस्तीर्यैतत् कुसृति शिवतल्लभ्यते न प्रवक्तुम् । दिष्ट्या तु त्वामधिगतवतो हस्तलग्ना जयश्रीः दृष्टेभानौ न खलु तमसां प्रागिव स्यात्प्रचारः ॥ ७॥ रूपं ते चित्सुखमपि शिव त्रिव्यवच्छेदशून्यं तल्लीलैतद् भवति चिदचिद्वस्तुजातं तदास्ताम् । नन्दामि त्वामहमनुभवंस्तत्तदुत्कर्षरूपं स्यादुत्कर्षः किमु सुखचिदुन्मेषतः कश्चिदन्यः ॥ ८॥ अमूर्तं परं वाऽपरं वाऽथमूर्तं परं वापि यत्ते वपुर्यच्च नाम । दिशैकत्र तत्रानिशैकाग्रतां मे तदभ्यर्थये त्वां दयस्वेन्दुमौळे ॥ ९॥ त्वद्दिव्यमूर्तिपरिचिन्तन धारया वा त्वद्दिव्यनामपरिकीर्तनधारया वा । कालं यथा शिव नयामि तथा दयस्व नो चेदनेन मम किं हतजीवनेन ॥ १०॥ उच्चनीचसदसत्सुखदुःखा- द्युच्चलद्विविधरूपधरः किम् । वञ्चयस्यहह पञ्चशरारे वञ्चनां तदिह मुञ्च नमस्ते ॥ ११॥ तत्तद्रूपं वहसि विहरन्नैकरूपैः प्रकर्षैः तांस्तान् गोपायसि तदुपधिस्त्वं तदाराध्यमानः । विश्वत्राणप्रणय शिव ते वैभवं तद्वराको बोद्धुं नेशे भवसि शरणं त्वं ममेदं तु जाने ॥ १२॥ स्वकरप्रतिपाटितस्वचापः स्वदृगम्भोजसमर्चितस्वकाङ्घ्रिः । स्वपदाम्ब्ववतंसितस्वमूर्धा शरणं मेऽस्तु स कोऽपि विश्वहेतुः ॥ १३॥ श्रीपत्युमापतिपदाद्यभिधेयमूर्ति- रूपं तथा हरिहरादिमनामरूपम् । रूपं तवेश सुखचिद्वपुषो द्विरूपं त्वत्प्राप्तिकल्पलतिकोदयबीजभूतम् ॥ १४॥ ज्योत्स्नागौरं यदचलसुताजानि संविद्धनं यन्- मेघश्यामं गिरिश कमलावल्लभं वापि रूपम् । तद्धन्यानां भवभयहरं दर्शयन्त्याद्यवाचः तत्राद्ये मे वहति कुतुकं चित्तमुत्तंसितेन्दौ ॥ १५॥ वाच्यं शिवाविति पदस्य वयं कथं वा निर्णेतुमीदृशतया निपुणीभवामः । यस्य स्वरूपमकुतोजनुषामशेषाः सीमा गिरामपि सितासितमामनन्ति ॥ १६॥ मन्मूर्धानं सुरभयतु तत्पार्वतीहस्तलाल्यं त्वद्दिव्यश्रीचरणकमलद्वन्द्वमर्धेन्दुमौळे । वाणीलक्ष्मीसरभसवशीकारधुर्याः श्रुतिस्री- सीमन्तालङ्कृतिविरचनातत्परा यत्परागाः ॥ १७॥ कार्तान्तकिङ्करगणाः क्रमतात्र किं वा किं वा कृतान्त भवतोऽपि च कृत्यमत्र । पादाम्बुजं भगवतो भवदीयगर्व- सर्वस्वहारि सततं हृदि नश्चकास्ति ॥ १८॥ चूडाज्योत्स्नालहरिभिरपाकुर्वति ध्वान्तमन्तः तापं सद्यश्शमति वमति स्वैरमानन्दधाराम् । साम्बे तस्मिन्महसि रहसि श्रीगिरां प्राक्तनीनां आस्तामस्तापरविपरिवृत्त्यन्तरायोऽन्तरात्मा ॥ १९॥ क्रीणात्यन्तःकरणममरोदारकोटीरहीर- स्मेरज्योत्स्नास्नपितचरणश्रीरुमालङ्कृताङ्का । सा विश्वाढ्यङ्करणकरुणाबिन्दुरिन्दुप्रसन्ना नेत्रोदन्यां हरतु हर ते दिव्यमूर्तिर्मदीयाम् ॥ २०॥ किं पचान इव किं विविधाशा- लम्पटोऽस्मि शिव किन्त्विदमीहे । लुम्पतादिदमहम्पदवाच्यं त्वं परिस्फुर सुखं परमेश ॥ २१॥ मघवदादिनिलिम्पपरम्परा- मणिकिरीटमयूखमयाङ्घ्रिणि । मकुटकन्दळितेन्दुनि लीयतां महसि मे हृदयं शितिकन्धरे ॥ २२॥ संवित्सुखपरिपाकं साम्बं कन्दर्पसुन्दरं कमपि । शशिशकलघटितचूडं शान्तं करवाण्यहं धियश्शरणम् ॥ २३॥ अर्धेन्दूत्तंसितमगसुतावामवामाङ्कसीमं कारुण्याब्धे शिव तव चिदानन्दरूपस्वरूपम् । स्मेरं गौरं भवजलनिधेः पारमाराद्धुमिच्छन् तद्धीधारोल्लसितकुसुमैरर्चये सार्थयेदम् ॥ २४॥ उद्वेलानन्दधुचिदभिधे केलिसिन्धौ कदा वा देव्या दीव्यन्नचलसुतया सार्धमर्धेन्दुमौळे । तद्वीचीनां प्रियसहचरैस्तापमुन्मूलयन् मे वर्तेथास्त्वं नयनवलनैर्वत्सलैरक्षिसीम्नि ॥ २५॥ क्रीडन्तं खल्वचलसुतया स्वे सुखानन्दसिन्धौ चूडालं त्वां शशिकलिकया द्रष्टुमभ्यागतोऽस्मि । तत्कल्लोलैरनवधिभिराच्छादिताशेषगात्रो न त्वामीक्षे न च शशिकलां नाम्बिकां वा पुरारे ॥ २६॥ पापौघौकस्यहह शिव मे यद्वराकस्य चित्ते त्वत्पादाम्भोरुहममृतनिष्यन्दि योगीन्द्रगम्यम् । धत्से तत्त्वं किमपि कृपयाऽऽलिङ्गितः पारवश्यं नीतस्सेयं जयति भगवन् जीविकामादृशानाम् ॥ २७॥ कल्युन्मीलज्ज्वलनवलयिन्यन्तरङ्गेऽर्पितं मे गौरीश त्वच्चरणमरुणं भाति कारुण्यमूर्ते । सोढा ग्लानिस्त्वमसि निखिलग्लानिहारी ममैवं क्रीतस्सोऽयं तव किमपरं तन्मदीयान्तरात्मा ॥ २८॥ कारङ्कारं कमपि कमपि स्वैरमायस्यताऽदः खेदच्छेदि स्मरहर मया त्वत्पदं खल्ववाप्यम् । भ्रामम्भ्रामं क्लमभरजुषा स्तन्यमन्विच्छता न- न्वभ्येतव्यं भवति शिशुना मातुरेवोपकण्ठम् ॥ २९॥ अग्रे गौरी सकुतुकदिशद्दृक्प्रभामेचकात्मा शोणच्छायाऽधरपरिसरे चन्द्रचूडस्मित श्रीः । ज्योत्स्नेवाभ्युल्लसति मुकुरे गण्डभागे तवास्यां मज्जत्वस्मिन्मतिरिनसुता शोणगङ्गासमष्टौ ॥ ३०॥ श्रीमत्पादाम्बुजममृतनिष्यन्दि ते चन्द्रचूड! प्रेम्णा देव्यास्तदवमृशता पाणिपद्मेन साकम् । आधत्स्वैतन्मम दृशि विभो तद्व्यपैतु ज्वरोऽस्याः भावत्कासेचनकवपुषाऽऽपाद्यतां पारणा च ॥ ३१॥ यत्पादाब्जं हृदि विनिहितं मामके तावकीनं तद्धन्योऽहं त्रिभुवनगुरो भाग्यमन्यत् किमातः । आसीनो वा क्वचन विचरन्विश्वसन्नेव सत्यं नाहं जह्यामिदमिदमुमाकान्त वाञ्छामि भूयः ॥ ३२॥ तनुद्योतैरुद्यद्दिनकरपरार्ध्य स्मयधुरा- निरासं तन्वद्भिर्विदधदविभिन्नं त्रिभुवनम् । पुरो धावन्तीभिश्शतधृतिमुखाभिर्दिविषदां चमूभिस्त्वं साम्बः पुरहर पुरोऽस्याविरभवः ॥ ३३॥ निगमलतामकुटीनां भासां अरविन्दरिपुकलामकुटीनाम् । ताराजालसितानां दासोऽहं शिरसि जह्नुजालसितानाम् ॥ ३४॥ यावद्धावयतः श्रवस्सुखधुरालुण्टाकघण्टाकटु- क्काणैरन्तकसैरिभस्य पुरतः पातोऽस्य मे त्रस्यतः । तावत्तावकतुङ्गपुङ्गवखुरध्वानैर्निधानैर्मुदां देवाविर्भविषीष्ट तूर्णमिदमाधासीष्ट धृष्टं मनः ॥ ३५॥ मन्दस्मितैर्मकुटकन्दळितेन्दुरेखैः गौरीसखैः स्फटिकगौरमनोहराङ्गैः । त्वद्विग्रहैरविरतं परितः स्फुरद्भिः चेतोऽस्तु मे कवचितं शिव ते प्रसादात् ॥ ३६॥ सर्वात्मकस्त्वमसि सर्वगयाऽपि मूर्त्या तन्मे तनोषि तनयेऽप्यखिलाञ्च शिक्षाम् । आवेद्मि नैष तदनुग्रहयाळुतां ते तच्चाज्ञ एष इति तस्य दयां प्रसूताम् ॥ ३७॥ तमसश्शमनं त्वदीयरूपं शरदिन्दुद्युति शैलजा सहायम् । नयनाध्वनि नव्यचन्द्रचूडं चरमे मे समये चकास्तु शम्भो ॥ ३८॥ परिमळभराचान्ताशान्ते परिस्फुटमल्लिका- वकुळसदने मन्दप्रस्पन्दिमारुतसेविते । सह गिरिजया नन्दन् कन्दर्पसुन्दरविग्रहो हरतु नयनोदन्यां धन्यात्मनां पुरशासनः ॥ ३९॥ कलाधरकलाधरे कलिनिरासदत्तादरे नगेन्द्रतनयासखे नयनितार्कचन्द्रानले । करात्तहरिणे स्थितिं कलय चित्त किं चिन्तया दयारसघने धराधरशरासने तेजसि ॥ ४०॥ यस्मै नमः श्रुतिरियं नतिशेषितां त्व- द्भावग्रहे वदति लिङ्गतया पुरारे । त्वन्नापरं स्पृशतु तन्नतिशेषितेयं लिङ्गं भवेन्नखलु साध्यवदन्यगामि ॥ ४१॥ नमोऽस्तु ते शङ्कर शश्वदर्थये समर्थयेदं करुणानिधे विभो । दरस्मितोल्लासिमुखो हृदिस्स्फुरन् दुरस्मितां मे कुरु भस्मितामिमाम् ॥ ४२॥ करतलकलितकुरङ्गं करुणारसपूरपूरितापाङ्गम् । कल्पितरतिपतिभङ्गं कञ्चन कलयामि कीर्तिभरतुङ्गम् ॥ ४३॥ कठोरकुचमण्डलाकलितपादपङ्केरुहः कराग्रधृततत्करं गिरिसुतामुपर्युद्धरन् । स्मिताञ्चितमुखाम्बुजः स्मितमुखं पिबन्नीक्षणैः करोतु जयमङ्गळं कनकमञ्चशायी शिवः ॥ ४४॥ निजसायकितमुकुन्दं नीहाराचलसुताकुतुककन्दम् । किङ्करदनिमिषवृन्दं शङ्करमुपयामि सच्चिदानन्दम् ॥ ४५॥ भवतं मयि वत्सलावुभा- ववतं मां वितरौ शिवौ युवाम् । नियतं भवदेकतानतां नयतं मामिदमस्तु वां नमः ॥ ४६॥ ममेश तन्वन्तु मुदं दयासुधाझरी- चयास्तावकदृङ्मरीचयः । सहासते यैर्दरहासचन्द्रिकाः नमस्यदच्छेद्यतमस्यदच्छिदः ॥ ४७॥ ज्ञानानन्दोन्नतिविहृतयो मूर्तयश्शर्व सर्वाः तां तामाराधयति भगवन् यो यथा तत्तथा त्वम् । ताभिः प्रोद्भासयति भवतस्सन्निधानात् सुधीस्तां आराध्नोमीत्यहमिति च यस्तस्य तासान्न पारम् ॥ ४८॥ त्वं तस्कराणां पतिरिन्दुमौळे न मन्मनस्तस्करता कथं ते । हन्ता नमो हन्त्र इति श्रुतेस्त्वं कथं न हन्ता मदघच्छटानाम् ॥ ४९॥ मालिन्यशालिन्यपि मानसे मे विश प्रभो तच्च विधेहि शुद्धम् । दीपो गृहे किं तिमिरोपरुद्धे नायाति तत् किन्न परिष्करोति ॥ ५०॥ प्रपन्ने सर्वस्वप्रद इति विपन्नार्तिहर इ- त्यघौघच्छिन्नामेत्यखिलतनुभाजां सुहृदिति । यशश्शाली त्वं त्वामहमनपनोद्यार्तिरभिधा- वदस्ते प्राप्तो मां शिव धिगयशस्ते विदधतम् ॥ ५१॥ गिरिजास्तनभरपरिमळपिशुने शिशुनेन्दुनाऽवतंसवति । परिमिळतु श्रुतिकबरीपरिमळ- गरिमणि मनोमदीयमिदम् ॥ ५२॥ अनीक्षमाणो मुखमन्यदीयं असंस्मरन् जात्वपि चान्यधर्मम् । अन्तस्स्मरन्नन्तकशासन त्वां कदा त्वदाख्यां कथयन् सुखी स्याम् ॥ ५३॥ केयं दुर्नीतिरेषा वद भवति कदा वास्ति किन्नौ विभागो दैवादैश्वर्यमाप्तं निरवधि भवता किन्न तद्भोक्तृता मे । तत्कुर्वेतन्न कुर्वित्यपि वदसि समं पश्य मामीश नो चेत् कूटस्थे त्वां निवेद्य स्थिरमपि भवदैश्वर्यमुन्मूलयामि ॥ ५४॥ विलसद्धनपुष्पपुष्पपुष्पं विरहस्त्रीजनमारमारमारम् । विनतामरराजराजराजं विषमाक्षं भज कालकालकालम् ॥ ५५॥ इन्दीवरलळितप्रभ- मिन्दुस्मयहारि वदनवारिरुहम् । नन्दयशोदानन्दथुक- न्दळमापिब सुखेन सखि दृष्टे ॥ ५६॥ शिवे यस्मिन् रज्जावहिमिव विमोहादुपनतं गृणन्तीमं वेदा जगदुदयमुद्दामरचनम् । समुत्तुङ्गस्थेयस्सुखसुलभतायै स भगवान् प्रबोधानन्दात्मा जयति शिवनामात्मकतया ॥ ५७॥ अयन्ते विश्रान्तिं निगमनिकरा यत्र परमां यदानन्दोदन्वत्पृषतलवतुष्टा विधिमुखाः । महेशो जिह्वायाः क्षणमपि स नैवोज्झितुमलं ननु त्वां रामाख्ये तव मधुरतां वर्णयतु कः ॥ ५८॥ श्रीमद्गौरीरमणवपुषा श्रीशरूपेण चैकः सत्यज्ञानामलसुखतनुस्सञ्चकास्तीश्वरो यः । तस्यै तस्याखिलजगदधिष्ठानभूतस्य नाम्ना- माम्नायोक्तिप्रविततिरियं वक्ति मुक्तिप्रदत्वम् ॥ ५९॥ जिज्ञासा हि भवत्पदे बहुजनुर्यज्ञादिसाध्योदया क्व ज्ञानं ननु दुर्लभोऽसि सुलभो विज्ञायसे चान्यतः । किन्नामात्र निवेदये रसनया त्वन्नाम चेत् गृह्यते हा हन्त भ्रमणैरलं हर करग्राहं तदा गृह्यसे ॥ ६०॥ येऽनन्यास्समुपासतेऽस्मि दुरितात् गोप्तेति चाहं तव त्रायस्वेति सकृत् प्रपत्तुरखिलत्रासं हराणीति च । सत्यं प्रत्यश‍ृणोर्ददासि तु भवन्नामाक्षरग्राहिणे सर्वस्वं शिव तावतैव जयति त्वामन्धयन्ती दया ॥ ६१॥ अप्राप्यमीक्षणमपि श्रवणं यदीय- मन्यैस्सुरर्षिभिरपीन्द्ववतंस तस्याः । मुक्तिश्रियः कबरिकाऽस्य कराग्रलग्ना मुग्धोऽपि यो रसनया स्पृशति त्वदाख्याम् ॥ ६२॥ जाग्रत्युमेश तव नाम्नि पुरस्सुरद्रौ त्यक्त्वैतदाप्तुमनसोऽन्यत इष्टसिद्धीः । क्षिप्त्वाऽमृतं करगतं नियतं यतन्ते भूपांसुभिर्गमयितुं प्रशमं पिपासाम् ॥ ६३॥ एकैकमेव शुभमर्पयितुं क्षमाणि हेत्वन्तराण्यपि च येन विना न तानि । श्रेयोऽखिलं दिशति यत्त्वितरानपेक्षं तस्मिन् सतीश तव नामनि किं भयं मे ॥ ६४॥ आर्तोऽस्मीतीरणमकरुणारोपणाय त्वयि स्यात् दासोऽस्मीति ह्यनुपधिपरित्रातृतापह्नवाय । सागस्कोऽस्मीत्यपि तव दुराराधतापादकं स्याद् आतस्त्वत् संस्मृतिरलमुमाकान्त गोपायितुं नः ॥ ६५॥ महेशस्सर्वज्ञः पुरहर महादेव इति च त्वदाख्यानामर्थं निपुणतरमासां विमृशतः । उपास्यः कस्यान्तः स्फुरति न भवान् देव भुवने गृहीतं चेन्नेदं हृदयमदयं नास्तिकतया ॥ ६६॥ दोषग्रहः स्वविषये गुणधीः परत्र चान्यत्र चेश्वरदृशिः(मतिः) प्रियभाषणञ्च । त्वद्रागिता विजनवृत्तिरितीश षड्भिः सेवाक्रमैः कलय साधु भवत्परं माम् ॥ ६७॥ कैलासशिखरिधाम्नः कलिमलविध्वंसहेतुनिजनाम्नः । फणिचारुहारदाम्नो भक्ता वयमद्भुतस्य सुमहिम्नः ॥ ६८॥ केचित् पुष्पं दळमपि जनाः क्षिप्तवन्तः प्रति त्वां सङ्क्रीडन्ते सुरतरुभराक्रीडसीमासु धन्याः । कीर्णं नीरं किमपि शिव यैस्ते सुधासिन्धुकेळी- स्वच्छन्दा भान्त्यपि तु न भजाम्येष जाल्मो भवन्तम् ॥ ६९॥ त्वत्सम्पूजास्वपि करयुगं पादयुग्मं तथा त्वत्- प्रादक्षिण्यक्रमणविधिषु त्वत्प्रशंसासु वाचम् । चेतस्त्वत्संस्मृतिषु भुवि ये कुर्वते शर्व तेऽमी धन्याः कुर्वन्त्यपि निजदृगध्वन्यमन्यञ्च धन्यम् ॥ ७०॥ चन्द्रार्धशेखर भवच्चरणारविन्द- सन्दर्शनादहमपास्त समस्त खेदः । आस्तामिदं मदवलोकनभाजनानां अप्येनसा परिभवो दुरवाप एव ॥ ७१॥ यस्त्वत्पादाम्बुरुहकलनस्पृष्टजन्मा स मेऽस्तु त्राता दाता गुरुरपि सखा वा नु बन्ध्वन्तरं वा । शम्भो यस्त्वय्यहह विमुखो मा स मे तस्य माऽहं मह्यं द्रुह्यन्नपि भवति हि त्वां श्रितो वल्लभो मे ॥ ७२॥ प्रेयानेकस्त्वमसि परमानन्दरूपः स्मरारे प्रेयांसस्ते भजनकृतिनो दृष्टमात्रात् पुनन्तः । तच्च प्रेयस्तदुपकरणीभावमालम्बते यत् नान्यत् प्रेयस्तव हि करुणाभाजनानां जनानाम् ॥ ७३॥ रुष्टे हरेऽवति गुरुर्जगतीत्यनेन न्यायेन मां भगवतोज्झितमीश्वरेण । आर्तं बलादवत भागवता नमो वः कारुण्यवारि निधयो गुरवश्च यूयम् ॥ ७४॥ वदने शिवदिव्यनामधेयं महिमानः पुनराशये तदीयाः । वसतिस्सह तत्परत्वधन्यैरतिवेलं किल भाग्यवैभवं नः ॥ ७५॥ ईशेन यं प्रति सकृन्निजनामधेय- सङ्कीर्तनस्य सकलाघ निवर्तकत्वम् । साक्षादभण्यत जगद्गुरुमाश्रये तं गोविन्दसंयमिवरं मम भागधेयम् ॥ ७६॥ आत्मा शम्भो भवसि खलु नस्सच्चिदानन्दरूपः त्वय्येतस्मिन् किमिति न भवेज्जानतां प्रेमबन्धः । आत्मत्वेनाभिमतमतदित्यप्रियं तत्प्रसङ्गात् अन्यच्चेदं पदमनुपदं यत् किलोपप्लुतानाम् ॥ ७७॥ माता तातस्त्वमसि भवसि त्वं हि मित्रं कळत्रं पुत्रश्चान्यस्त्वमसि बत का दुर्मनीषा ममैषा । निस्सीमार्तिप्रणयि तदिदं किन्न सर्वापरोक्षं तन्मे त्वं त्वं गिरिश भगवन् सच्चिदानन्दमूर्ते ॥ ७८॥ आत्मानं खल्वनिदमुदयास्त्वां गिरस्सङ्गिरन्ते सन्त्रातारं गिरिश जगतामीशितारं वदन्त्यः । आर्तिश्रान्तेश्शरणवरणस्यास्पदं कः कथं वे- त्यन्तर्ग्लानिर्मम पुनरसावाश्वसित्यन्तरात्मा ॥ ७९॥ भावं बध्नन्त्यकृतकगिरस्त्वय्यनन्याशयिन्यो रागोन्मादादपि मुनिधियो धावनैरापतन्ति । रूपायास्मै निरुपमितये सुन्दरायेन्दुरेखा- चूडालाय स्पृहयति विभो वृत्तिरप्यान्तरी मे ॥ ८०॥ त्वादृशं मे किमपि दयितं वस्तु नैवास्ति शम्भो मादृक्षास्ते शतमनुपदं त्वर्थिनो बाधितारः । एकोऽप्यस्मिन् जगति कुमुदस्यास्ति चन्द्रायमाणो नैतादृश्यः कति सुमनसस्सन्ति चन्द्रस्य तस्य ॥ ८१॥ तद्दोषापक्षतिमुपकृतिं स व्यधादार्तिकृद्यः कः कोपार्हस्तदवमृशतां तत्तु यत् किञ्चिदस्तु । न्यक्कारस्तु स्मरहर भवद्भक्तिभाजा कृतो यः सोऽयं त्वद्भक्त्यमृतमधुरीभावितो रोचते मे ॥ ८२॥ मा मे स्वप्नोऽप्यहह सहते यस्त्वदन्यं वदान्यं कामं वाञ्छत्वितर इतरोपासनायासदैन्यम् । तस्योपास्यो विधिहरिहरेष्वस्तु कोऽपीश सोऽपि त्वद्भ्रूवल्लीस्फुरणशरणः स्पन्दने विन्दनेऽपि ॥ ८३॥ ब्रह्मप्रष्ठा हर किमपरं भ्रूलताकिङ्करास्ते भावत्काज्ञां भवति न विना लभ्यसामान्यलाभः । ऐदम्पर्यादितरविषयादन्यथागत्यभावात् अन्तर्यामिन्नखिलभजनश्रान्तिरन्वेति तत्त्वाम् ॥ ८४॥ प्राप्याणां त्वं महदमहतां प्रापकोऽन्यस्त्वशक्तः सर्वप्रेप्सुस्त्वमतिसदृशस्त्वां तदेवोपरुन्धे । तन्नाक्षेप्यं निरुपमचिदानन्दसाम्राज्यलक्ष्मी- काङ्क्षी यस्त्वां शिव कलयते तत्त्वदव्यस्स धन्यः ॥ ८५॥ एतादृक्षोर्मिळविषयसक्त्यन्धकारान्तराळात् मुक्तो भक्तप्रकरदिविषत्पादपं पादपद्मम् । किं भावत्कं गिरिश परमानन्दधानं दधानः तक्षत्याधीन्न यदपि मनोऽनन्तरानन्तरात्मा ॥ ८६॥ कल्याणी ते गिरिश करुणाकल्पवल्लीमतल्ली गीर्वाणाग्रेसरचितसमुद्दृष्टिपाताङ्कुरश्रीः । दारुप्रायं परिसरगतं तावदालम्बतां मां अस्या हानिर्न पुनरियता धन्यतै तस्य तु स्यात् ॥ ८७॥ श्रीकान्ताद्या विबुधतिलकाः श्रीमतीमर्थयन्ते यां ते दृष्टिं स्पृहयति जनस्सैष तस्यै किलास्यै । अव्यावृत्ता गतिरियमये नाथ तेषामतेषां अप्यातस्ते समुचितमुमाकान्त मन्तुं न मन्तुम् ॥ ८८॥ सम्वित्तत्तद्विषयविशदीकारधीरा गिरस्त्वां व्याकुर्वाणा गुणसमुदयैर्लोभनीयाश्च तास्ताः । श्लाघार्थानां परमपि तथा भूतये विश्वमूर्ते व्यञ्जन्ति त्वां शिव पुनरमूस्तत्र वन्द्योऽपि च त्वम् ॥ ८९॥ मय्यत्र दोषकथनं बहुभिः किमुक्तैः सिद्धार्थसाधनमसत्यवचो गुणोक्तैः । अस्मिन् वराकतिलकेऽप्यहहानुकम्पा सम्भाव्यते शिव तवैव दयाम्बुराशेः ॥ ९०॥ आप्यायनाय च निवर्त्य निवर्तनाय त्वय्याश्रिते शिव न तत् किमपि प्रतीमः । त्वं शिष्यसे पुनरखण्डसुखात्मकस्तत् किं प्राभवं कृतधियो न जहत्यपि त्वाम् ॥ ९१॥ महिम्नामाम्नायः स्तुतिषु तव नालं पशुपते तदस्मिन्नर्थेऽलं तनितुमधरस्पन्दमपि कः । तदप्याशा मेऽन्तर्वलति यदयुक्तास्फुटवचो- निगुम्भो डिम्भोऽपि प्रदिशति मुदं चेतसि पितुः ॥ ९२॥ गौरीवल्लभ दुर्लभस्सहि लवः कारुण्यसिन्धून्मिषत्- कल्लोलप्रसरैरभिन्नवपुषो मामस्पृशत् त्वद्दृशः । नो चेत् क्वायमहं क्व तावदमृतस्यन्दी भृशं दीनतो- च्छेदी फल्ग्वितरत् भवान्मम परित्रातेत्ययं प्रत्ययः ॥ ९३॥ अर्धोन्मीलन्नयनमसकृन्निर्गलद्बाष्पधारं प्रादुर्भूताविरळपुळकं पर्युदस्तापवर्गम् । वामाङ्कालङ्करणगिरिजां दिव्यमूर्तिं त्वदीयां ध्यायन्ध्यायं प्रमदजलधौ नाथ लीनः कदास्याम् ॥ ९४॥ साम्ब स्वामिन् भवदनुगुणा त्वत्प्रसादेन लब्धा त्वत्तोऽन्यस्मिन्निह विनिहिता चापलात् केवलान्नः । शोभेतेयं न खलु भणितिस्सौरभास्फारभङ्गी- क्रान्ताशान्ता कुणप इव हारोपिता पुष्पमाला ॥ ९५॥ त्वामाप्तानां भवति भगवन्नष्टधा वर्ष्म भिन्नं ग्रीवां क्ष्वेलः स्थगयति शिरः किञ्च सिन्धुर्निरुन्धे । एषा तावत् भवदुपकृतिप्रक्रिया विश्रुतैव प्रेक्षावन्तस्त्वयि तु बलवत् प्रेम बध्नन्ति चित्रम् ॥ ९६॥ या जातु स्वे पथि कथमपि प्रेक्षितं नो जहाति ग्लानीश्चास्य क्षपयति भवद्वल्लभत्वञ्च धत्ते । कल्याणी सा जयति जननी त्वत्पदाम्भोजभक्तिः चेतश्चैतद् गिरिश तदवष्टम्भधृष्टं भवेत्किम् ॥ ९७॥ जातु भ्रूलतिकानिदेशसरणिं यां ते समुल्लङ्घितुं नालं पद्मभवो न वा हरिहरौ कुत्रेन्द्रचन्द्रादयः । सेयं भूतिरपि त्वदीयपरमैश्वर्याम्बुधेश्शीकरः सौलभ्यं कियदस्य ते शिव भवस्यात्मैव तत्पश्यताम् ॥ ९८॥ न हि पतितो जीवेयं जनसङ्घाङ्गारघोरवाहिन्याम् । त्वत्पदकमलामृतरससरसि विशन् शिव कदा नु निर्वृणुयाम् ॥ ९९॥ शिव शिव शिव शङ्करेति तारं विपिनतले विजने सदैव जल्पन् । अविरळविगळद्दृगम्बुरुद्यत् पुळकभरोऽस्तभरः कदा सुखी स्याम् ॥ १००॥ धत्से दयां मयि न चेत् क्व नु तद्यशः स्यात् यत्प्रागनेकपरिपालन सम्भवं ते । शम्भो कुलालचिरनिर्मित कुम्भभङ्गो दण्डेन किं न भवति क्षणमात्रभावी ॥ १०१॥ आस्ते भवानस्म्यहमिन्दुमौळे दया तवास्ते मम दैन्यमस्ति । गोप्तासि गोप्योऽस्मि किमन्यदत्र विज्ञापनीयं तव साम्बमूर्ते ॥ १०२॥ दयोपमन्यौ या शम्भो या मृकण्डुसुते च ते । साम्बमूर्ते दयामूर्ते मय्यार्ते कुरु तां दयाम् ॥ १०३॥ ध्रुवमिव कमलाधवो दयालु- श्शिशुमुपमन्युमिव त्वमिन्दुमौळे । अव सकरुणमार्तमर्भकं मां शिव न विळम्बितुमर्हसि प्रसीद ॥ १०४॥ अस्तस्पृहोऽहमभिजातदयोऽखिलेषु पश्यन् भवन्तमपि चैषु नमश्च कुर्वन् । ऊर्जस्वलां त्वयि वहन् रतिमुज्झितोपतापः कदेश विचराणि तव प्रसादात् ॥ १०५॥ नमो वां रोदस्यौ भवतु भवतीभ्यश्च ककुभो नमो वां चन्द्रार्कौ भवतु च नमो विश्व भवते । रतिर्मे युष्माभिर्भगवति शिवे शैलतनया- सहाये दातव्या मयि रचयितव्या ननु दया ॥ १०६॥ दुश्चेष्टिताघपरुषेऽपि सुतेऽतिबाले माता यथा बत तथा गिरिश त्वदीया । द्वेष्ये जनेऽपि विचकास्ति हि साऽनुकम्पा पारे गिरां मधुरिमा भवदीयतायाः ॥ १०७॥ मा तावदन्तकरिपो मयि तेऽनुकम्पा स्याच्चेदलं त्वयि सकृन्मम भावयोगः । कीनाशकिङ्करदुरारभटीभराणां किं तावता न भविता सहसोपमर्दः ॥ १०८॥ वेहाय गौरीश भवत्पदाम्बुजं विहारयन् दुर्विषयेष्विदं मनः । जिघांसुहस्ते स्वशिरः प्रयत्नतः समर्पयन्नस्म्यसमर्थशेखरः ॥ १०९॥ कियत् पाराङ्मुखं त्वयि सुखचिदात्मन्यहह मे कियत्यन्यत्रैषा रतिरगतिकोऽपीश तदहम् । हतात्मा न ग्राह्यस्तव तु करुणाऽनन्यशरणं न जह्यात् कल्याणी स्वयमवगुणापह्नवगुणा ॥ ११०॥ पापीयसो मम भवेद्भवदीयसेवा नीचस्य विप्रनिकटस्थितिवद्दुरापा । कालं कियन्तमिव हा मम दुर्दशेयं केयं विभो विमुखता मयि ते प्रपन्ने ॥ १११॥ त्वद्भक्तिसम्पदनुरूपगुणैरुदारैः दूरोज्झितो जगति नीच इव द्विजेन्द्रैः । आसे कियच्चिरममङ्गळवृत्तिमेतां आधून्वती शिव दया मयि ते कदा स्यात् ॥ ११२॥ भक्तिर्हि त्वं शरणमितरत् तुच्छमित्यर्थतन्त्रा- बुद्धिस्सेयं प्रमितिकरणस्तोमसंरम्भपात्रम् । नैनामाप्नोम्यमतिरियता नन्वतृप्तोऽस्मि चोपा- लम्भी शम्भो तव तु सकलज्ञस्य भर्तुर्विनोदः ॥ ११३॥ सम्राण्निःस्वादपृथगपृथक् सर्वविद्गाढमूढाद् या नो चेद्या पुनरनुचरत् ब्रह्म शक्रादिभूतिः । शम्भो त्वं मे शरणमिति सम्प्रत्ययानन्यरूपां त्वद्भक्तिं तामहह सुलभां नाथ नाप्नोमि धिङ्माम् ॥ ११४॥ कृतान्तविध्वंस नृशंसतास्पदं त्रिविक्रमस्वापसुखास्पदाङ्गदम् । पदारविन्दं तदुदारमीश ते कदा नु पश्यामि मुदाऽनया दृशा ॥ ११५॥ लीलोपात्ता शिव तव तनुर्या शरच्चन्द्रगौरी गौरीमङ्काभरणितवती चित्सुखैकस्वभावा । चन्द्रोत्तंसा विधिहरिहरैर्भक्तिनम्रैरुपास्या तस्यामस्यामचरमतनोश्चित्तवृत्तिः कुतः स्यात् ॥ ११६॥ सोऽहं देहेन्द्रियमुखमहादुःखसिन्धौ निमज्जा- म्यस्तस्वात्मा हर किमपरं तत्त्वतो न त्वदन्यः । भुङ्क्षे तु त्वं सुखचिदनघप्राज्यसाम्राज्यलक्ष्मीं दूरीकुर्याः कियदिव चिरं मामये त्वामयेऽहम् ॥ ११७॥ तवैश्वर्यं शम्भो निरवधि कृपामप्यनुपधिं ममापीदं दैन्यं शरणलवशून्यं ननु विदन् । प्रपद्ये यन्न त्वामहह तदिदं मे विमृशतो न जाने को हेतुर्दळति शतधा यन्न हृदयम् ॥ ११८॥ त्वद्भक्त्यलाभदवपावकदह्यमान- स्तामार्तिमप्ययि न वेद्मि तमोऽभिभूतः । तज्जानतः स्फुटमुमेश तव ह्युपेक्षा नाथ त्वदेकगतिके मयि नानुरूपा ॥ ११९॥ शम्भो भवद्भुवनमङ्गळदिव्यरूपे शान्तं मनो यदि निषीदति निर्वृतिस्सा । तां रुन्धतीह सकले किल दुःखरूपे तां यन्ति हन्त सुखदुःखविभागमोहात् ॥ १२०॥ यत्ते रूपं त्रिनयनमुमाकान्तमर्धेन्दुचूडं तन्मे हातुं क्षणमपि न सम्मन्यते नाथ चित्तम् । तत्प्रत्यूहा विषयविषमग्रावपातार्तिधाराः बाधन्ते मां तव तु करुणा स्यात् कदा वा न जाने ॥ १२१॥ आरोपिताऽपि मम ध्रीर्भवदङ्घ्रिमस्मात् आप्लुत्य दिव्यमणिपीठतटाच्छुनीव । तुच्छेष्वियं पतति दोषमिमं धियोऽस्याः भङ्क्त्वेश यच्छ सुदृढां भवदङ्घ्रि निष्ठाम् ॥ १२२॥ दुष्कूपगः श्वहतकोऽतिदुरासदोऽपि किन्नु प्रसह्य दययोद्धियते न कैश्चित् । एवं हि मूर्खतम एष शिव प्रसह्य पाल्यस्तवास्मि भगवन् परमानुकम्प्यः ॥ १२३॥ द्राक्षावनी ननु खरैरिव मेऽवसादं अक्षाळिरेति विषयैरियमक्षनेतः । अस्याश्शिवङ्करममुं त्वयि भक्तियोगं आकल्पयोर्जितमये गिरिश प्रसीद ॥ १२४॥ कालं कियन्तमहह त्वदयोगखेदो नालं किमीश वद सोऽयमिदं चिरं मे । त्वत्पादपङ्करुह किङ्करवृत्तिमेकां उत्पादयाशु मम सङ्क्षपयार्तिमेताम् ॥ १२५॥ तुच्छः किलायमिति चेद्दयसे न मे त्वं तुच्छो जनस्तव न चेद्दयया गृहीतः । न त्वद्दया यदि विना त्वयि भक्तियोगं सोऽयं घटेत कथमीश दयां विना ते ॥ १२६॥ बन्धुक्षयादिविपदि स्थितवानतज्ज्ञो बालो यथा शिव तथैव हसन् हसद्भिः । त्वद्भक्त्यलाभपरमापदि हास्म्यखिन्नः त्वं तद्विदन्मम न किं दयसे दयाब्धे ॥ १२७॥ असूयेर्ष्यालोभस्मरदुरभिमानस्मयतमः प्रमादक्रोधादिर्मदवगुणवर्गो निरवधिः । कदाऽस्मादुत्तीर्णः कथय निरयादन्तकरिपो पतेयं देव त्वत्पदकमलयोरार्तिहरयोः ॥ १२८॥ अस्यन्तमात्महितमन्तिकमाश्रयन्तं बालं प्रसूः किमु न पालयतीश्वरैवम् । जातुप्रपत्तिकलनाज्जनितानुबन्धं हातुं न मूर्खमपि मां दययाऽर्हसि त्वम् ॥ १२९॥ चिन्तयन्मम दुरात्मतां यदि त्वं तनोषि न दयां मयि श्रिते । अन्तकान्तक गतिर्विना त्वया नान्तकान्तिक गतान्तरस्य मे ॥ १३०॥ शठो लुब्धः क्रुद्धश्चलमतिरसूयैकवसतिः जडो मूर्खः स्तब्धः कुमतिरतिसन्धानरसिकः । अघानामाधारः पुनरहमथापि स्मररिपो दयाळो देव त्वच्चरणशरणोऽनन्यशरणः ॥ १३१॥ सद्रूपं न स्फुरति न हि ते शर्व कुर्वे किमेषा नान्तश्शान्तिं तिरयति दुरध्यासपर्याकुला धीः । दोषस्तोमोन्मिषितवपुषा प्रीतिमत्प्रत्ययेन ग्रस्ताऽऽशैव क्षपयति परिस्फूर्तिरस्फूर्ति खेदम् ॥ १३२॥ शक्नोष्यार्तिं क्षणमपि न नस्सोढुमीदृक् दया क्व क्वैनश्चक्रक्रमविरमसापेक्षता रक्षितुं ते । ईश क्षाम्य त्वमखिलविदस्येकमत्युच्यतेऽदः सिष्णासुः किं प्रहसनपदं नोर्मिमालिन्यनूर्मौ ॥ १३३॥ अन्ते हितेऽपि विदिते तदनुत्सुकोऽयं रुग्णो यथा त्वयि तथाऽवधृते शरण्ये । हा केन वास्मि कृत एवमनुत्सुकोऽहं हार्या त्वयैव कृपयेश ममेयमार्तिः ॥ १३४॥ त्वद्भक्त्याख्यं पदमनुपमोत्तुङ्गमस्पृष्टभङ्गं वेलोल्लङ्घिप्रतनसुकृतश्रेणि निश्रेणिगम्यम् । आरोढुं द्रागहमनिपुणस्त्वत्कृपापाङ्गभङ्गी- दाम्ना तावद् गिरिश भवतैवायमारोपणीयः ॥ १३५॥ उन्मादयन्ति मुदितानि यदिन्द्रियाणि खिन्नानि चेद्विपदुदन्वति मज्जयन्ति । इत्येवमाकुलित ईश्वर नात्मनीने दक्षोऽस्म्यनन्यशरणश्शरणं गतस्त्वाम् ॥ १३६॥ त्वत्पादपद्मविमुखस्य दुरात्मनो मे दाहोऽन्यदुर्विषयसक्तिदवानलेन । अर्हस्स एष हर किन्तु दयाम्बुधे मद्- दौरात्म्यहान्यकरणं तव नानुरूपम् ॥ १३७॥ अजिघ्रतार्थान्तरमाशयेन श्रीशम्भुचिन्तामृतशीतलेन । स्यां किं सुखी तिष्ठतु तद्ब्रुवे किं मनोरथोऽप्येष सुदुर्लभो मे ॥ १३८॥ त्वद्भक्त्यलाभविपदार्ति निदह्यमानः सोऽहं तदार्तिमनलेन विदह्यमानः । वृक्षस्तदार्तिमिव नालमुपैतुमेतत् मद्दौस्थ्यमीश तव किन्न दयां प्रसूते ॥ १३९॥ सभाहृद्या विद्या निरुपहतयो भूतिततयो गुणोदारा दारा इति ह विषयेष्वप्यभिरतिः । अयं तावद्धावत्यमृतरसनिष्यन्दिनि विभो न यावद्भावत्के हर चरणपद्मे परिचयः ॥ १४०॥ हितार्थी नन्वस्यादिशसि सुखसिन्धौ त्वयि रतिं विपत्त्युद्गारिभ्यो विषयविसरेभ्यश्च विरतिम् । दयां ते सोपाधिं नियतमियताऽहं निगमया- म्यहो मूर्खः पाल्यश्शिव तव कृपाळोरुपनतः ॥ १४१॥ आत्मानं त्वां निरवधिसुखाम्भोनिधिं पर्युदस्यन् नात्राप्येतेष्वतिविसदृशेष्वप्यदश्शीकराणून् । शम्भो मज्जन्नयमनलमुन्मस्तमातोऽपहास्यः क्रीडापात्रं मिळित इति किं नोद्धरस्यञ्जसा माम् ॥ १४२॥ जगदीश ममागसां गणैः करुणाब्धे किमिति प्रकम्पसे । रुषमुद्वहते पदाहतैर्गुरुरुत्सङ्गचरस्य किं शिशोः ॥ १४३॥ न कुतो दयते विभो भवानपराधाननुचिन्तयन् मम । प्रहरन्नपि किन्न फल्गुनो भवताऽरक्षि दयापयोनिधे ॥ १४४॥ अपराधिषु नैव मे समः क्षमया गोप्तृषु नैव ते समः । तदुपैषि किमित्युदासिकां अनुकम्पां कुरु शङ्कर प्रभो ॥ १४५॥ सदसच्च जनस्समं तनोत्यनुशिष्टो भवताऽन्तरात्मना । अपराधकथा कथं नु तन्मयि कारुण्यनिधे महेशितुः ॥ १४६॥ भगवन् विरळा गुणा नृणां अपराधास्तु शतं पदे पदे । यदि पालनकीर्तिकामना भवतस्तद्भवतूत्तरोऽधरः ॥ १४७॥ सकलज्ञ विभो विपद्द्रुतं किमु गोप्ता यदि किङ्करं न माम् । न हि दुष्पथगामिनं पशुं पशुनाथः प्रतियन्नुपेक्षते ॥ १४८॥ परावज्ञानिष्ठा परुषवचनानां प्रसवभूः स्वदोषाणां गोप्ता स्वरसगतिरेनस्स्वहमिदम् । कराळं हि ध्वान्तं कथमिव तराणीश्वर कदा चराणि स्वैरं त्वच्चरणनखचन्द्र प्रमुदितः ॥ १४९॥ अपराधिधुरोर्जितं भव- त्यपि तन्वन्नपराधमन्वहम् । करुणाकर शङ्कर त्वया परिपाल्योऽयमतोऽनुबन्धतः ॥ १५०॥ त्वच्चिन्तनादिषु तदुत्थसुखे च नाहं योग्योऽस्मि तत्तदनुचिन्तनजान्तरायाः । हा क्रन्दनेऽपि कति मे मयि तेऽनुरूपा नाथ त्वदेकगतिके किमिवात्युपेक्षा ॥ १५१॥ अपि मनुष्यजनुष्यजनीह चेत् मम न शङ्करकिङ्करतासुखम् । अहह कं प्रति किं प्रतिपादये मम हि पङ्कमशङ्कमनङ्कुशम् ॥ १५२॥ प्रियमप्रियमप्रियं प्रियं विदधत्या भवदीय मायया । परमार्थगतिर्दवीयसी क्रियते नाथ कृपा कदाऽस्तु ते ॥ १५३॥ शम्भो पदाब्जकटकं तव योऽधिशेते देवस्य तस्य चरणाम्बु दयाम्बुधे त्वम् । मौळी वहन् प्रथयसि श्रितवत्सलत्वं तं त्वामसावहमहो न भजामि धिङ्माम् ॥ १५४॥ त्वत्पादपद्मरसिकेष्वहमप्युमेश कश्चिद् भवेयमिति मेऽनुचितापि काङ्क्षा । ऐन्द्रे पदे शुन इवेयमहो भृशं मां अन्तस्तुदत्यजहती शिव किं करोमि ॥ १५५॥ गास्त्रातवान् सखितयाऽऽदृतवान् कपींस्त्वं भूषात्मनाऽहिचयमाप्ततया पिशाचान् । गृह्णास्यमीषु यदि मामपि कञ्चिदीश का हानिरस्य भवतः कृपया तु भाव्यम् ॥ १५६॥ भवत्पदाम्बुजे भक्तिं भवरोगविनाशिनीम् । देहि मे पाहि मां शम्भो देवदेव दयानिधे ॥ १५७॥ अविवेकनिधिर्निराश्रयो न रुषां तेऽस्मि पदं दयस्व मे । कथय द्रुहिणास्त्रभाजनं भुवने किं कलविङ्कपोतकः ॥ १५८॥ अति संहत एष दस्युभिस्सुचिरादन्तरवस्थितैः प्रभो । किमिवाकरवं न वेद्मि तन्मयि मन्तुं न हि मन्तुमर्हसि ॥ १५९॥ विषयाभिनिवेशदुर्विषग्लपितं दुस्सहमोहरूषितम् । शिव मा स्म भवानुदास्त मां परिपुष्णातु दयासुधारसैः ॥ १६०॥ उद्यत्कृतान्तसविधेऽस्मि पदे पदेऽहं वध्यो वधस्थलमिव प्रतिनीयमानः । त्वामन्तकान्तकमसौ न भजामि धिङ्मां अस्मीश ते किमपरं प्रसभानुकम्प्यः ॥ १६१॥ रुन्धन्ति मामिह षडम्बुधयः स्मराद्याः पारं परं त्वमधिगत्य विभासि चैषाम् । साम्ब प्रभो भवदपाङ्गलवप्लवे स- त्येतांस्तराणि विहराणि च सन्निधौ ते ॥ १६२॥ देहात्मताख्यनरके स्थितमेतदुत्थ- श्रेयस्तदन्यसमवाप्त्यपनोदनिष्ठम् । दावानलस्थमदसीयसुगन्धिधूमा- धूमान्तराप्तिविगमाभिरतं प्रतीमः ॥ १६३॥ अहन्ते हन्ताहं तव कितववृत्त्या विषभरं किरन्त्या दूनस्स्यां कियदिव चिरं वीतशरणः । प्रसीदातः शातक्रतवमपि वा वैधसमपि त्वयाऽस्माकं मा भूत्पदमपि भवत्यै नम इदम् ॥ १६४॥ तृणगणिताखिलजगतामपि करकलितत्रयीरहस्यानाम् । श्लाघावारवधूटीघटदासत्वं तु दुर्निरसम् ॥ १६५॥ संविल्लेशद्रविणकणिकासन्निकर्षप्रसूतैः दर्पैः क्रान्ता विधिहरिमुखोदासिकादेशिकैर्ये । त्वय्यप्येषां शिव न गणना का कथाऽन्येषु तेषां दुस्साध्यो हि त्वमसि शरणं मादृशानां कृशानाम् ॥ १६६॥ क्व वा शमसुधोर्मिळाः क्व परमार्थधीनिश्चलाः कदा ननु भजेम तानिति परिभ्रमामो वयम् । निमित्तलव निस्पृहानवधिकोपधूपायितान् उपासितुमपासितुं बत वृथा वयो नेश्महे ॥ १६७॥ आरोपयद्भिरपरं महिमानमन्यैः आकृष्टधीरननुसन्दधदात्मनैच्यम् । नष्टोऽस्मि दुष्टदुरहङ्क्रियया हतस्त्वां नैवास्मरं शिव कथं मयि ते दया स्यात् ॥ १६८॥ वेद्यं न किञ्चिदपि वेद्म्यखिलज्ञताऽभि- मानस्तु मेऽनवधिरीश न चात्मनीनम् । कुर्वे किमप्यथ महान् कृतकृत्यताभि- मानः कथं नु मयि मूर्खतमे दयेथाः ॥ १६९॥ परमधने पुरमथने करमथने ये स्मृतेऽन्यगामिन्या । कामनया कां अनया नाम नयापेतया श्रियं यायाम् ॥ १७०॥ प्रपन्नं नागोप्तुं प्रभवसि महेशोऽसि जगतां शिव त्वं सर्वज्ञो न हि तव गुणान् वेदितुमलम् । प्रपत्तिश्च त्राता त्वमिति धिषणा त्वां हि करुणा नियच्छत्येवं तन्मम तरणतर्कोपकरणम् ॥ १७१॥ साम्राज्यं वा करकलितमस्त्वस्तु वाऽकिञ्चनत्वं सार्वश्यं वा भवतु भवतून्मस्तकं वापि मौढ्यम् । एतत् त्वीहे कुरु शिव कृपामेतु मा च प्रहासीत् एकः क्षेमङ्करकुलगुरुर्मां भवद्भक्तियोगः ॥ १७२॥ यत्त्वा हित्वा स्फुरति यदपि त्वां विनाऽहं समस्तं प्रत्येतुं तद्गिरिश न मया पार्यते नापरैर्वा । सङ्गोप्ता मे सकलविधया जागरूकस्समन्ताद् एवं तावद्भवसि भगवन् तद्भयस्योद्भवः कः ॥ १७३॥ यदात्मनीनं तदवेत्य वाञ्छितुं न हि क्षमोऽस्मीह तदप्यवाञ्छितुम् । विमूढमेतादृशमिन्दुचूड मां यदीशिषे गोप्तुमये तदीशिषे ॥ १७४॥ सद्वाऽसद्वाप्यकृतमकृतं यत्कृतं तत्कृतं तत् खेदं मोदं न पुनरुपयात्यन्तरात्मा स एषः । ज्ञातं तत्त्वं शिव तव कृपा विग्रहाद्देशिकेन्द्रात् प्रारब्धं तत्क्षपयितुमसावस्ति कालप्रतीक्षा ॥ १७५॥ निधिं निरवधिं धुतव्यवधि चन्द्रचूडाभिधं सुखं न खलु मन्यसेऽलसतयाऽत्र हा हन्यसे । अवस्तुनि सुखानुकारिणि विपद्गणोद्गारिणि प्रधावसि वृथाऽवसीदसि किमर्थमित्थं मनः ॥ १७६॥ अन्यस्य दृष्टिसरणावपतन् स्वदोष- चिन्ताभ्रशान्तदुरहङ्कृतिचण्डतापः । तस्मिन् भवद्गुणवितत्यमृताम्बुराशौ मज्जन् कदा मदनसूदन निर्वृतः स्याम् ॥ १७७॥ दुःखानि मे खलु दिशन् दुरितप्रवृत्ति- भङ्गाय दर्शयसि भर्ग दयाम्बुधे त्वम् । पुत्रे पितेव शुभबुद्धिकृते प्रहर्ता तन्नैष वेद्मि कुमतिस्तदये दयेथाः ॥ १७८॥ तुष्यन्तु केऽपि मयि दोषमुदाहरन्तः सन्तं विदन्ति यदि चेत् स हितोपदेशः । चेदन्यथा पुनरयं भ्रमजः प्रलापः कौतूहलाय घटते किमितीह कोपः ॥ १७९॥ सर्वं भवान् गिरिश तत्सकलस्य चास्य कार्याऽमुनाऽपचितिरेष करोमि नैताम् । हा तत्र तत्र कलयेऽवमतिञ्च धिङ्मां दौःस्थ्यं त्विदं मम कदेश धुनन् दयेथाः ॥ १८०॥ संरक्षति त्वयि समस्तमिदं प्रपञ्चं तद्भारमात्मनि तमोविवशोऽधिरोप्य । सम्बम्भ्रमीति तनुभृत् सकलं तदेतत् पश्यन् हसन्विहरसि प्रमथप्रभो त्वम् ॥ १८१॥ कातर्यं समुदेति किञ्चिदपि न भ्रातर्यमात् किन्नु ते चेतस्साधु विचिन्तय स्मरभिदा त्रातः प्रपन्नो नरः । एतावन्ति जनूंषि हन्त विषयैरेव प्रविध्वंसिता- न्येकं जन्म शिवार्पणं यदि करोष्यतेन का ते हतिः ॥ १८२॥ जनश्चिदानन्दसमस्तविग्रहं जहत् भवन्तं प्रभवन्तमीश यः । दुरीशमन्विष्यति तुष्यति स्वयं परं धनायैष्यति मुग्धधीर्जनः । शिव एव समायाति शिवङ्करकृपाङ्कुरः । तत्रैक विप्रताबुद्धिः कथं सञ्जायते तव ॥ १८४॥ ऐन्द्रब्रह्मादिमपदलसद्बुद्बुदात्यद्भुतानां विध्यण्डाक्रान्त्यनुपमयशः फेनषण्डोद्धतानाम् । भावत्कानां गिरिश करुणास्रोतसां किं नवीनं मादृङ्नीचप्रवणसरणिष्वानुरूप्यं निरूप्यम् ॥ १८५॥ स्वच्छन्दं सुरधेनवोऽङ्कणतटीमञ्चन्तु मुञ्चन्तु वा- र्हैमं वाऽम्बुमुचो रमा च वहतु भूवश्यतां दृश्यताम् । कन्दर्पायुतसुन्दरस्य भवतश्शम्भो मुखाम्भोरुहा- लोकेनैव भवन् भवेन्मम न तैरामोदभूमोदयः ॥ १८६॥ निर्धूय दुःखनिवहं निखिलं पुरारे संसेविनां वितरति त्वयि मोदलक्ष्मीम् । अन्नं दिशेति वसनं वितरेति भोगान् देहीति मन्दमतयो वयमीरयामः ॥ १८७॥ स्वामिन् पदं शिवपदं त्वकुतोभयं तु त्वय्यात्मकृत् प्रणमनादपि साम्बमूर्ते । हासास्पदं भवति कुत्सितलिप्सुरेषः कौपीनकाम इव कल्पतरुं प्रपन्नः ॥ १८८॥ सुत इति सुदतीति द्रव्यमित्येषु मग्नो- ऽसुखदमिदमशेषं सौख्यदं वेत्ति मर्त्यः । मलकलुषजलान्तर्मज्जनोन्मज्जनाद्यैः किटिरिव मनुते स्वं केवलानन्दरूपम् ॥ १८९॥ सेवन्ते किमिति प्रभूननुपदं हा दृप्यतः कुप्यतस्तु एतावत्युपसर्पणे च जठरापूर्याप्तिधूर्यापिणः । स्मर्तुर्जाग्रति चन्द्रचूड भवति स्वात्मानमेवं दद- त्यैश्वर्येण कृतास्पदं जगदलङ्कर्मीणदृक्कोटिना ॥ १९०॥ वैवस्वताननगतस्य तथाविधेन किं मे परेण किमु वास्य मया सतीत्थम् । अस्म्यन्यभाग हह दौस्थ्यमिदं विधून्वन् तन्वन्रतिं त्वयि ममेश कदा दयेथाः ॥ १९१॥ इत्थं ममेयमरतिर्भवतीतरत्र चेत्थं रतिर्बत किटेरिव कुत्सितेऽर्थे । धिङ्मां परं त्वधमवृत्तिरुपाश्रितस्य त्वां मे यदीत्थमयशस्करमीश तत्ते ॥ १९२॥ वधूपुत्रकादीन् प्रति प्रस्तुतोऽयं बलीवर्दभावः कदा मेऽपयातु । भवत्पादपद्मामृतास्वादधन्या दशा सा भवित्री कदा साम्बमूर्ते ॥ १९३॥ कियदिव दुरवाप्य प्रान्तवक्रान् कदाचित् ननु धनिकवराकान् नित्यमाराधयामः । सकृदवनतवश्यं साम्बमूर्तिं कदा वा सकलजगदधीशं त्वामुपासीमहीमे ॥ १९४॥ उत्तरङ्गितवृथाकुतूहलो यत्तरङ्गचपलेष्वमीष्वहम् । श्वक्रमन्तमिममुद्धरेः कदा वक्रमन्तकरिपो दयानिधे ॥ १९५॥ श्रीमन् वृश्चिक सन्दश द्विरसन त्वं चुम्ब शार्दूल न- न्वासन्नोऽनुगृहाण ऋक्षवरदोरुल्लासमुल्लासय । तांस्तानित्थमनर्गळादरभरेणाभ्यर्थितैर्यद्भवेत् क्लान्तिर्यद्भवता जिता बत सखे तद्भुङ्क्ष्व दिव्यं सुखम् ॥ १९६॥ विभोऽमुष्मिन्नस्य स्वजननिवहस्य प्रणयिता स्वघातायोन्मीलत्यधिगृहकिटि स्वामिन इव । स्वघातोदर्कं तत् कुमतिरविदन्नत्र मुदमे- त्यसौ हित्वा विगळतु कदा मे विपदियम् ॥ १९७॥ प्रथमसुजनाय तुभ्यं मह्यमपि प्रथमदुर्जनाय नमः । सर्वं हतः कृतौ यौ सकृदुपकारापकाराभ्याम् ॥ १९८॥ धीरितरं भूरितरं दूरितरम्यगुणमेत्य किं लभताम् । खेदहरं वेद हरं चेदहरन्तस्सहर्षचन्द्रमसम् ॥ १९९॥ मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाऽप्यधायि बहुधा रम्भाऽधरः खण्डितः । सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता रामेत्यक्षरयोरये मधुरिमोद्गारः क्व वाऽऽस्वादितः ॥ २००॥ आबिभ्रत्या तरुणतरुणीश्रीमदस्तेनमङ्गं देव्या स्मेराननकमलयाऽलङ्कृतोत्सङ्गसीमम् । चूडाऽऽपीडस्फुरितशशभृत्कन्दळं मन्दलक्ष्य- श्रीमद्दन्ताङ्कुरदरहसं तन्महः स्तात्पुरस्तात् ॥ २०१॥ परिधावत भो यमस्य दूताः निकटे धूर्जटिरागतस्स एषः । परितो धवळं निपश्यतैत- न्मकुटीचन्द्रकलामयूखपुञ्जैः ॥ २०३॥ विलग्नं कोटीरे किमपि कुसुमं ते विजयते निलिम्पक्षुद्दैन्यप्रशमनयशो वैभवपदम् । तुलाकोटीकोटिः स्फुरति धृतविश्वम्भरतया विभो विश्वत्राणं न खलु तव संरम्भविषयः ॥ २०३॥ नमत्सुरपरम्परामणिकिरीटकोटिस्फुरन्- मणीकिरणधोरणीमहित पादपङ्केरुहम् । जगज्जननरक्षणक्षपणदक्षशिक्षाक्रमं विषादहरमाश्रये विषहरेश्वरं शङ्करम् ॥ २०४॥ प्रसूनगृहशोभितं प्रसवचापकोटिप्रभं मनोहरहिरामणीगणविभूषणालङ्कृतम् । सुगन्धिचिकुरावृतं सुकृतिलोकनेत्रामृतं विलोचनसुखं पिबाविहति मातृभूतेश्वरम् ॥ २०५॥ अन्तक दुरहन्ते ते माभूदन्तश्चकास्ति पुरहन्ता । चिन्तय मनसि पतन्तं दक्षमखान्ते च ते पितुर्दन्तम् ॥ २०६॥ त्वत्पादाब्जे तनुभृति तदालम्बिते वा मनोवाक्- कायोपायस्सजतु गिरिजाकान्त हेतोः कुतोऽपि । तत्सौभाग्यं ननु परिणतं नाथ तेषां नतिर्नः तापानेतान् दळयितुमलं धातुमभ्युन्नतिं वा ॥ २०७॥ अन्तर्यामिन् शिव तव चिदानन्दसाम्राज्यभर्तुः यद्धामान्तःकरणमुचितोद्बोधवैधुर्यधुर्यः । वर्ते तुच्छैरहह विषयैः कीर्णयन् दुर्णयं तं वात्सल्यान्मा गणय तदसम्भूतये शाधि चाग्रे ॥ २०८॥ कोपस्तेऽयं खल इति मयि स्याद्यदि स्यान्निरोद्धा को वा किं वाऽननुगुणमिदं त्वं पिताऽहं सुतोऽस्मि । अन्यत् किं मामकलुषमनेनाभ्युपैतुं त्वमर्ह- स्यात्मानं त्वत्पदकमलयोरर्पयामीन्दुमौळे ॥ २०९॥ स्थाने धन्याः कतिचिदिह यत्प्रेरणा वारणा वा श्रौतीः स्मार्तीरपि पुनरनुल्लङ्घयन्तस्त्वदाज्ञाः । आशासानाश्शिव भवदनुग्राह्यतामासतेऽस्यां अस्याशा मे परमनुपधित्वत्कृपैकावलम्बा ॥ २१०॥ मन्दात्मासौ मननजरठस्तावकाज्ञाः श्रुतिस्मृ- त्यादेशाख्या बत परिभवत्येव सर्वस्तथापि । स्पन्दोऽपि त्वन्नियमनविनाभाव्यभावी यदेषा भावत्काज्ञानुसृतिरियता मे दयाळो दयेथाः ॥ २११॥ सकृदपि शिव पाहीत्येतदाकर्ण्य दूरात् सरभसमुपयान्त्योस्त्वत्कृपावीक्षयोः किम् । मदवनविधिकेळ्यां मातृभूतेश्वरासीत् अहमहमिकयाऽऽजिस्तेन मन्ये विळम्बम् ॥ २१२॥ हा हन्त तात शिव का तव मय्युपेक्षा कष्टां दशां उपगतेऽपि मखान्तकारे । छेत्तुर्विधातृशिरसः किमु तल्लिपीनां उन्मार्जनादुपहतिः किमु दुष्करा ते ॥ २१३॥ तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककन्धराय गिरिजासङ्गैकश‍ृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥ २१४॥ आर्तः क्वानवलम्बनः क्व विपदोऽमुष्यापनेष्ये कदे- त्यश्रान्तोत्कलिकार्तमिन्दुकलिकाचूडाल विश्वप्रभुम् । आपं त्वां दुरवापमित्यहमतो हृष्टोऽथ दृष्टोऽसि चेत् अस्पृश्यो विपदामहो शिव भवस्यात्मैव यत्पश्यताम् ॥ २१५॥ स्त्यायत्तृष्णा विषयविसरद्दुस्सहोष्मण्यदभ्रे मोहश्वभ्रे विषयदृषदां पातनैरेभिरेवम् । रूक्षैरक्षैरहमिह न हा पारयाम्यस्यमानः स्वामिन्मामुद्धर हर कृपापाङ्गहस्तार्पणेन ॥ २१६॥ कामं कामप्रभृतय इमे निस्सपत्नास्सपत्नाः मामस्यन्ति स्वपरिकरपारम्परी सम्परीताः । किं सान्द्रापद्भृशकबळिते किङ्करे शङ्करेदं रूक्षोपेक्षाव्रतमिह तवाद्यापि नोद्यापनीयम् ॥ २१७॥ यत्संसर्गाच्चितमपि सुखं व्यञ्जती चित्तवृत्तिः व्यङ्गं स्वान्तं शिव विदधती सच्चिदानन्दमूर्ते । तुभ्यं द्रुह्यत्यहह कलया चैनया तैः खलैर- प्यर्थैस्सङ्गादहमिह महामन्तुकारी तवास्मि ॥ २१८॥ अन्यद्दैन्यं कथय किमितो यत्समीहासहस्रा- जस्राकृष्टं हृदयमितरास्त्वापदो नोपदेश्याः । संसृत्यूर्मिष्वलमलममीष्वाभिराघूर्णनाभिः विश्रान्तिं मे वितर गिरिश श्राम्यतस्त्वं दयेथाः ॥ २१९॥ त्वन्मूर्त्यालोकनसुखभरे मज्जयन्नेत्रयुग्मं निध्यानाध्वन्यपि विवशयन् स्वान्तमत्यन्तशान्तम् । त्वत्पूजायां वपुरपि कुरु त्वत्कथायाञ्च वाचं त्वच्चिन्तायां हृदयमहह स्वैरचारी हतोऽहम् ॥ २२०॥ गात्रोत्कम्पः करणपटलीविप्रकारोऽन्तरात्म- स्थेमध्वंसोऽशरणशरणत्वानुसन्धानजन्मा । नाभिव्यञ्जन्त्यहह किममी नाथ मे दुर्दशां तत् मा भैषीरित्यभयवचसा मामुमेशाद्रियेथाः ॥ २२१॥ कामं गळग्राहिणि शत्रुवर्गे का मङ्गळप्रार्थनया नयाप्तिः । मज्जन्मनः शम्भुपदेऽर्थवत्वं मज्जन् मनस्साधय हृष्य च त्वम् ॥ २२२॥ विष्वङ्मूर्च्छद्विषयगरळापन्नमुज्जीवय त्वद्- दिव्यापाङ्गव्यतिकरसुधाधारया मां पुरारे । अस्मिन् दोषग्रहणमुचितं हा किमस्यां दशायां तत्त्वं किं त्वां तुदति न कृपैतादृशामीक्षमाणम् ॥ २२३॥ त्वं कोटीरे सह समदधाः किं किरातस्य शम्भो गण्डूषं न त्रिदशसरितोपानहञ्चेन्दुना वा । भक्त्या क्रीतो भवसि भगवन् सा च भावप्रभेदः तस्यामस्यां मम विमुखतैतावती हन्त धिङ्माम् ॥ २२४॥ ब्रूते जन्मनि यश्शिवेत्यपि सकृन्नाम प्रमादेन वा मद्भक्तैरुदितं श‍ृणोति यदि वा रुद्राक्षभस्माङ्कितैः । तस्यात्युत्कटमृत्युमन्तसमये हन्मीति कारुण्यतः किञ्चित् कुञ्चितकोमलैकचरणं चित्ते शिवं कुर्महे ॥ २२५॥ संसाराख्यविशालनाटकगृहे सर्वाणि रूपाण्यहो धृत्वाऽधोमुखयोनिकायवनिकां निर्हृत्य निर्गत्य च । सर्वज्ञस्य दयापरस्य तव देवाग्रे चिरं नृत्यतः श्रान्तस्यापि ममालमित्युचितवागेवास्तु विश्राणनम् ॥ २२६॥ मेधे तवास्ति यदि मन्मथशासनाख्ये गाधेतरामृतसरस्वति खेलनेच्छा । बाधेत को नु भवतीं रसनामपास्त- बाधे तरङ्गय सुखं गिरिशाभिधाने ॥ २२७॥ प्रसवशररिपो त्वत्पादपद्मानुसन्धा- तृणितवलभिदम्भोजोद्भवादिश्रियां नः । स्वजनकभृतये न त्वय्यपीहार्थिमुद्रा- विहृतिरलमुदेतुं का कथान्यत्र तस्याः ॥ २२८॥ इति श्रीश्रीधरवेङ्कटशार्य विरचिता स्तुतिपद्धतिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Stutipaddhatih
% File name             : stutipaddhatiH.itx
% itxtitle              : stutipaddhatiH
% engtitle              : stutipaddhatiH
% Category              : shiva, shrIdhara-venkaTesha, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sri Sridhara Venkatesa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : shrIdharastutimaNimAlA dvitIyo bhAgaH stutimaNimAlA
% Indexextra            : (Scan, Info)
% Latest update         : November 20, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org