सुदर्शनप्रोक्तं शिवैकपञ्चाशत्नामानि
विश्वेश्वराविमुक्तेशौ वीरेशं च त्रिलोचनम् ॥ ५०.४॥
कृत्तिवासं वृद्धकाले केदारं शूलटङ्ककम् ।
रत्नेशं भारभूतेशं चन्द्रेशं सिद्धकेश्वरम् ॥ ५०.५॥
घण्टाकर्णेश्वरं चैव नारदेशं यमेश्वरम् ।
पुलस्तिपुलहेशं च विकर्णेशं फलेश्वरम् ॥ ५०.६॥
कद्रुद्रेशमखण्डेशं केतुमालिं गभस्तिकम् ।
यमुनेशं वर्णकेशं भद्रेशं ज्येष्ठशङ्करम् ॥ ५०.७॥
नन्दिकेशं च रामेशं करमर्देश्वरं तथा ।
आवर्देशं मतङ्गेशं वासुकीशं द्रुतीश्वरम् ॥ ५०.८॥
सूर्येशमर्यमेशं च तूणीशं गालवेश्वरम् ।
कण्वकात्यायनेशं च चन्द्रचूडेश्वरं तथा ॥ ५०.९॥
उदावर्तेश्वरं चैव तृणज्योतीश्वरं सदा ।
कङ्कणेशं तङ्कणेशं स्कन्देशं तारकेश्वरम् ॥ ५०.१०॥
जम्बुकेशं च ज्ञानेशं नन्दीशं गणपेश्वरम् । ५०।११(१)
॥ इति शिवरहस्यान्तर्गते सुदर्शनप्रोक्तं शिवैकपञ्चाशत्नामानि समाप्ता ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ५०। ४-११॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 50. 4-11..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from the text are presented here.
Proofread by Ruma Dewan