सुदर्शनविष्णूकृता शिवस्तुतिः
भज भज भसितानलोज्वलाक्षं भुजगाभोगभुजङ्गसङ्गहस्तम् ।
भवभीममहोग्ररुद्रमीड्यं भवभर्जकतर्जकं महैनसाम् ॥ ४९.४२॥
वेदघोषभटखाटकावधृग्देहदाहदहनामल काल ।
जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥ ४९.४३॥
शम्बराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह ।
वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥ ४९.४४॥
मदगजवरकृत्तिवास शम्भो मधुमदनाक्षिसरोरुहार्च्यपाद ।
यममददमनान्धशिक्ष शम्भो पुरहर पाहि दयाकटाक्षसारैः ॥ ४९.४५॥
अपां पुष्पं मौलौ हिमभयहरः भालनयनः
जटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः ।
गरं कण्ठे यस्य त्रिभुवनगुरोः शम्बरहर
मतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥ ४९.४६॥
श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गं
बिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या ।
स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्ग
राजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥ ४९.४७॥
यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छाम्भवो भक्तो जन्मपरम्परासु तु
भवेन्मुक्तोऽथ मुक्त्यङ्गनाकान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः ।
विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्ताङ्घ्रिपङ्केरुह-
ध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥ ४९.४८॥
कामारातिपदाम्बुजार्चनरतः पापानुतापाधिक-
व्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि ।
नो दूयेत विशेषसन्ततिमहासारानुकारादरा-
दाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥ ४९.४९॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवक्षेत्राणां महिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४९। ४२-४९॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 49. 42-49..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Proofread by Ruma Dewan