तञ्जापुरीशस्तुतिः
शिवाभ्यां नमः ।
अस्तु ते नतिरियं शशिमौले निस्तुलं हृदि विभातु मदीये ।
स्कन्दशैलतनयासखमीशानन्दवल्ल्यधिपते तव रूपम् ॥ १॥
स्थास्नुजङ्गमगणेपु भवान्तर्यामिभावमवलम्ब्य समस्तम् ।
निर्वहन् विहरसे तव को वा वैभव प्रभवतु प्रतिपत्तुम् ॥ २॥
विश्रुता भुवननिर्मितिपोषप्लोषणप्रतिभुवस्त्वयि तिस्रः ।
मूर्तयः स्मरहराविरभूवन् निस्समं त्वमसि धाम तुरीयम् ॥ ३॥
सुन्दरेण शशिकन्दलमौले तावकेन पदतामरसेन ।
कृत्रिमेतरगिरः कुतुकिन्यः कुर्वते सुरभिलं कुरलं स्वम् ॥ ४॥
ईशतामविदितावधिगन्धां प्रव्यनक्ति परमेश पदं ते ।
साशयश्च निगमो विवृणीते कः परं भजतु नाथ विना त्वाम् ॥ ५॥
सा मतिस्तव पदं मनुते या तद्वचो वदति यद्विभवं ते ।
सा तनुस्सृजति या तव पूजां त्वत्परः किल नरः किमु जल्पैः ॥ ६॥
कालकूटकवलीकृतिकालोद्दामदर्पदलनादिभिरन्यः ।
कर्मभिश्शिव भवानिव विश्वं शश्वदेतदविता भविता कः ॥ ७॥
रुक्मिणीपतिमृकण्डुसुतादिष्विन्दुचूड भवतः प्रसृता या ।
सा दयाझरसुधारसधारावर्मिता मयि दृगस्तु नमस्ते ॥ ८॥
इति श्रीश्रीधरवेङ्कटशार्यविरचिता तञ्जापुरीशस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan