श्रीत्रिगुणेश्वरशिवस्तोत्रम्

श्रीत्रिगुणेश्वरशिवस्तोत्रम्

आदर्श चिक्कण-कपोलतलं सुनासं चञ्चत्बृहच्छवयुगं स्वलिनीलकण्ठम् । भोगोपमप्रथितसुन्दरदीर्घबाहुं पद्मासने समुपविष्टमहं स्वतुष्टम् ॥ १॥ शान्तं त्रिनेत्रमलिकेब्जकलां वहन्तं नागेन्द्रचर्मवसनं भुजगोपवीतम् । अन्तर्बहिश्च रमणीयतमस्वरूपं विद्याऽमृताऽभयवराऽऽश्रयदानदक्षम् ॥ २॥ गौरीं गणेशसहितां दधतं निजाङ्गे गौरं प्रसन्नमुखमम्बुजलचनाढ्यम् । गङ्गां स्वमूर्धनि जटापटले दधानं ध्यायामि तं हृदि शिवं त्रिगुणेश्वर स्वम् ॥ ३॥ ब्रह्मा हरिर्हर इति त्रिगुणीमतीत्य यस्तन्मयो वरकलो जयति त्रिलोक्याम् । विश्वप्रपञ्चरचनाचतुराय मह्यं तस्मै नमो भगवते त्रिगुणेश्वराय ॥ ४॥ यं वैद्यनाथ इति वन्द्यजना वदन्ति मृत्युञ्जय यमिह मर्त्यजनाः स्तुवन्ति । शं काङ्क्षिणः स्वमिह शङ्करमामनन्ति तस्मै नमो भगवते त्रिगुणेश्वराय ॥ ५॥ वाचो बृहस्पतिमम निगदन्ति तिस्रो वेदत्रयो सततमेन मिह स्तवीति । अग्नित्रयी ज्वलति यं श्रितवत्यजस्रं तस्मै नमो भगवते त्रिगुणेश्वराय ॥ ६॥ धामयत्री परमधामनि साऽपि यस्मिन् विश्रान्तिमेति परनिर्वृतिभावरम्ये । स्वेभ्यो ददाति कृपया तदपि प्रसन्न- स्तस्मै नमो भगवते त्रिगुणेश्वराय ॥ ७॥ शक्तित्रयो घनतपाऽश्रयते यतोऽमुं तुर्योऽपि पञ्चतनुते सततं कृतीः स्वाः । पञ्चाननः सुरनराऽसुरसङ्घपूज्य- स्तस्मै नमो भगवते त्रिगुणेश्वराय ॥ ८॥ वैभूत्यवांस्त्रिदिवसेवितपादपोऽद्य नाकार्थिनां विजयते सुखदः परोऽर्थम् । वह्नीन्दुसूर्यनयनः परमार्थसार- कल्पःश्रियेऽस्तु स सतां त्रिगुणेशलीलः ॥ ९॥ स्वनिर्मितेन स्तोत्रेण प्रीण यँस्त्रिगुणेश्वरं शमिच्छति समस्तानामार्चामृतवार्भवः ॥ १०॥ इति आचार्याऽमृतवाग्भवपादाः विरचितं श्रीत्रिगुणेश्वरशिवस्तोत्रं सम्पूर्णम् । Encoded and proofread by Aaditya Kalyanaraman aadityakalyaan at gmail.com
% Text title            : Triguneshvara Shivastotram
% File name             : triguNeshvarashivastotram.itx
% itxtitle              : shivastotram triguNeshvarashiva
% engtitle              : triguNeshvarashivastotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman aadityakalyaan at gmail.com
% Proofread by          : Aaditya Kalyanaraman aadityakalyaan at gmail.com, NA
% Indexextra            : (Scan)
% Latest update         : December 8, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org