श्रीत्यागेशस्तुतिः
यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १॥
शासनात् पावको यस्य सर्वेषामन्तरा स्थितः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २॥
बडबामुखवह्निश्च ज्वलत्यब्धौ यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ३॥
भूतान्यपि विरुद्धानि मिलितानि यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ४॥
कलमन्वेति कर्तारं कर्मणां यस्य शासनात ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ५॥
विनाधारं जगद्येन साधारमिव निश्चलम् ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ६॥
औषधे वा मणौ मन्त्रे भाति शक्तिर्यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ७॥
नात्येति समयं ज्योतिः सिन्धुः कालश्च यद्भयात् ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ८॥
ब्रह्माच्युताद्यविदितं च शिरः पदं ते
नासा शिलाविहित ? ? सुहृत् प्रियायाः ।
तस्मै नमोऽस्तु भवते प्रणतार्तिहन्त्रे
त्यागेश्वराय मयि देहि दयावलोकम् ॥ ९॥
इति श्रीत्यागेशस्तुतिः सम्पूर्णा ।
Proofread by Gopalakrishnan