श्रीविश्वमङ्गलं श्रीवामदेवकवचम्
ॐ श्रीगणेशाय नमः ।
ॐ श्रीदेव्यै सदासुफलदायिन्यै नमः ।
श्रीभैरव उवाच -
अथ वक्ष्यामि देवेशि कवचं मन्त्रगर्भकम् ।
मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ १॥
सर्वसम्पत्प्रदं चैव वामदेवस्य पार्वति ।
गुह्यातिगुह्यं परमं मूलविद्यामयं ध्रुवम् ॥ २॥
परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।
महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ ३॥
कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः ।
अनुष्टुप्छन्द इत्युक्तं वामदेवश्च देवता ॥ ४॥
इन्द्रो बीजं पराशक्तिः तारं कीलकमीरितम् ।
धर्मार्थकाममोक्षार्थविनियोग इतीरितः ॥ ५॥
अस्य श्रीवामदेवकवचस्य भैरवऋषिः, अनुष्टुप्छन्दः, श्रीवामदेवोदेवता ।
इन्द्रो बीजं, पराशक्तिः, तारं कीलकृम्म् ।
धर्मार्थकाममोक्षार्थे कवचपाठे विनियोगः ।
भैरवऋषये नमः - शिरसि । अनुष्टुप्छन्दसे नमः - मुखे ।
श्रीवामदेवदेवतायै नमः - हॄदि । इन्द्रो बीजाय नमो - गुह्ये ।
पराशक्तये नमः - पादयोः । तारं कीलकाय नमः - नाभौ ।
कवचपाठे विनियोगः - सर्वाङ्गे ।
अथ ध्यानम् ।
वरक्षमालाऽभयढक्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पयादुदीच्यां दिशि वामदेवः ॥
ॐ वां शिरः पातु मे देवो ललाटं ह्रीं सदा मम ।
वामदेवः प्रदेशं मे बीजद्वयस्वरूपिणम् ॥ १॥
हुं पातु लोचनद्वन्द्वं मुखं ह्रीं बीजरूपिणम् ।
ह्रीङ्कारो कण्ठदेलं ह्रीं पातु स्कन्धयोर्मम ॥ २॥
वामदेवो सदा पातु भुजौ सव्येतरौ मम ।
ह्रीङ्कारो हृदयं पातु ह्रीं सोऽव्यादुदरं मम ॥ ३॥
ह्रीं नाभौ पातु सततं देवो ह्रिङ्काररूपकः ।
अव्यान्मे लिङ्गदेशं च ह्रिं रक्षेद्गुददेशके ॥ ४॥
चन्द्रबीजं पातु पादौ नमः पादतलं मम ।
दशाक्षरः पातु नित्यं सर्वाङ्गं मम सर्वदा ॥ ५॥
अन्तर्बहिश्च मां पातु वामदेवश्च भैरवः ।
भगलिङ्गामृतप्रीतो सर्वसन्धिषु रक्षतु ॥ ६॥
शङ्करो मां सदा पातु ममेन्द्रियसमानकम् ।
शिवो ममेन्द्रियार्थेषु रक्षयेदखिलेष्वपि ॥ ७॥
वामदेवःपश्चिमेऽव्यादक्षिणे देवदत्तकः ।
भगलिङ्गामृतप्रीतो भगलिङ्गस्वरूपकः ॥ ८॥
उदीच्यामूर्ध्वगः पातु पूर्वे संहारभैरवः ।
दिगम्बरः श्मशानस्थः पातु दिक्षु विदिक्षु च ॥ ९॥
घोररावाट्टाट्टहासो मे शिवो त्वं सुशोभितः ।
पातु विघ्नेषु घोरेषु जगद्रुधिरभक्षकः ॥ १०॥
करालवदनो घोरः प्रेतकोलाहलप्रियः ।
मुक्तकेशः सुकेशश्च मदिरोन्मत्तभैरवः ॥ ११॥
देवदत्तो महोग्रश्च सदाश्मशानगः परः ।
शिरसः पादपर्यन्तं देवदत्तोऽवतात्सदा ॥ १२॥
इतीदं कवचं दिव्यं साधकानां सुदुर्लभम् ।
मन्त्रसिद्धिकरं साक्षान्महादेवस्य भाषितम् ॥ १३॥
इदं कवचमज्ञात्वा योजयेद्वामदेवकः ।
शतलक्षप्रजप्तोऽपि तस्य देवो न सिद्ध्यते ॥ १४॥
स शस्त्रघातमाप्नोति सोऽचिरन्मृतुमाप्नुयात् ।
मन्त्रेण म्रियते योगी रक्षयेत् कवचं परम् ॥ १५॥
त्रिसन्ध्यं पठनादस्य कवचस्य तु पार्वति ।
सिद्धयोऽष्टौ करे तस्य महेश इव चापरः ॥ १६॥
रूपेण स्मरतुल्योऽसौ कामिनीनां प्रियो भवेत् ।
तस्मादेतत्सुकवचं न देयं यस्यकस्यचित् ।
भक्तियुक्ताय शान्ताय दानशीलाय धीमते ॥ १७॥
यो ददाति सुशिष्येभ्यस्तस्य वश्यं जगद्भवेत् ।
गुह्याद्गुह्यतरं गुह्यं महारुद्रेण भाषितम् ॥ १८॥
यस्य कण्ठगतं तस्य करस्थाः सर्वसिद्धयः ।
श्रीविश्वमङ्गलं नाम कवचं न प्रकाशयेत् ।
रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥ १९॥
इति श्रीरुद्रयामलेतन्त्रे श्रीविश्वमङ्गलं नाम वामदेवकवचं सम्पूर्णम् ॥
Encoded by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan, PSA Easwaran