श्रीवीरभद्ररनक्षत्रनामावलिः
वीरभद्ररसप्तविंशति नामावलिः
ॐ श्रीगणेशाय नमः ।
श्रीवीरभद्ररनक्षत्रनामावलिः
(तिरुनेल्वेलि जिलान्तर्गते (तमिल् नाडु) तेर्किळन्दैकुळं
श्रीअघोरवीरभद्रस्वामिमन्दिरे नित्यपूजनार्थं प्रयुक्तम् ।)
Used in terkiLandai kuLam Shri Aghora Virabhadra Swamy Temple,
in Tirunelveli District).
ॐ श्री गणेशाय नमः ।
अथ श्रीवीरभद्ररनक्षत्रनामावलिः ।
ध्यानम् ।
ॐ गोक्षीराभं दधानं परशुडमरुकौ खड्गकेटौ कपालं
शूलं चाभीतिदाने त्रिनयनलसितं व्याघ्रचर्माम्बराढ्यम् ।
वेतालाऽरूढमुग्रं कपिशतरजडाबद्धशीतांशुखण्डं
ध्यायेद्भोगीन्द्रभूषं निजगणसहितं सन्ततं वीरभद्रम् ।
ॐ वीरभद्रेश्वराय नमः ।
ॐ वीरनाथाय नमः ।
ॐ वीरप्रभावकाय नमः । ३
ॐ उग्राय नमः ।
ॐ रथवाहनाय नमः ।
ॐ त्रिनेत्राय नमः । ६
ॐ त्रैलोक्यवासकाय नमः ।
ॐ देवदेवाय नमः ।
ॐ देवरक्षिणे नमः । ९
ॐ योगभद्राय नमः ।
ॐ पार्वतीप्रियपुत्राय नमः ।
ॐ पङ्कजप्रियाय नमः । १२
ॐ रौद्ररूपाय नमः ।
ॐ भक्तरक्षकाय नमः ।
ॐ शरभाय नमः । १५
ॐ शङ्खचक्रधराय नमः ।
ॐ धनुभृते नमः ।
ॐ खड्गहस्ताय नमः । १८
ॐ सर्वेश्वराय नमः ।
ॐ सर्पाभरणाय नमः ।
ॐ रक्तकेशाय नमः । २१
ॐ यागहन्त्रे नमः ।
ॐ वीणानाथाय नमः ।
ॐ सिंहासनाय नमः । २४
ॐ नन्दिगणाय नमः ।
ॐ नृसिंहसंहाराय नमः ।
ॐ श्रीवीरभद्राय नमः । २७
॥ॐ श्रीवीरभद्रस्वामिने नमः ॥
नानाविध परिमलपुष्पाणि समर्पयामि ॥
Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan, PSA Easwaran