वीरभद्रसप्तविंशतिनामावलिः
ॐ । वीरभद्रेश्वराय नमः । वीरनाथाय । वीरप्रभावकाय ।
उग्राय । रथवहाय । त्रिणेत्राय । त्रैलोक्यवासकाय । देवदेवाय ।
देवरक्षित्रे । योगभद्राय । पार्वतीप्रियपुत्राय । पङ्कजप्रियाय ।
रौद्ररूपाय । भक्तरक्षकाय । शरभाय । शङ्खचक्रधराय ।
धनुर्भृते । खड्गहस्ताय । सर्वेश्वराय । सर्पाभरणाय ।
रक्तकेशाय । यागहन्त्रे । वीणानादाय । सिंहासनाय । नन्दिगणाय ।
नारसिंहसंहाराय । वीरभद्राय नमः । (२७)
इति वीरभद्रसप्तविंशतिनामावलिः समाप्ता ।
Proofread by Aruna Narayanan