वीरेश्वरस्तुतिः - ४

वीरेश्वरस्तुतिः - ४

॥ वीरेश्वरस्तुतिः - ४ - त्र्यक्षाक्षोभ्यापराधहरणार्थ निवेदनम् ॥ श्रीकाशीनाथ काशीपुररुचिरकथाकर्णनेन प्रवृत्तं चित्तं मत्तं कथं वा कथमपि न तयोर्वर्णने वा प्रवीणम् । कर्ण शीर्णं न पुण्यं क्षणमपि निपुणं प्राणिनां प्रीणनं वा त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैकसिन्धो ॥ १॥ पुण्यारण्यप्रकीर्णप्रणतसुरतरुश्रीयुतानन्दसङ्ग- व्यासङ्गाभङ्गगङ्गोज्वलमिलिततलश्रीफलश्रीलमूले । तुङ्गं लिङ्गं निरङ्गं निगममनुगतं प्रोक्षितं दीक्षितं वा त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैकसिन्धो ॥ २॥ स्नात्वा न ब्रह्मनाले सितभसितकृतोद्धूलनश्रीत्रिपुण्ड्र श्रीरुद्राक्षावृताङ्गः कृतनियमविधिः स्वर्धुनीपूरतीरे । श्रीरुद्राध्यायवर्णप्रवणनिपुणधीर्न स्मरामि स्मरारिं त्र्यक्षाक्षोभ्यापराधान् हर हर करुणापूरसारैकसिन्धो ॥ ३॥ संसारापारघोरज्वरकरख दिराङ्गारपूरप्रसार- व्यापारा नेक शोकव्यतिकरनिकरव्याकुलो बाललीलः । काले कालेऽनुवेलप्रलयभयभयं न श्रयामो महेशं त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैकसिन्धो ॥ ४॥ अश्रान्तानन्तचिन्ताहृदविततमतिः स्वान्तपद्मासनस्थं स्वच्छं शान्तं नितान्तं नतममरगणैः संस्तुतं वेदसङ्घैः । अस्ताविद्याविलासव्यसनमतिमतं साधु नारोपयामः त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैकसिन्धो ॥ ५॥ भस्माभ्यङ्गक्षणार्धप्रतिहतविमुखानङ्गमङ्गीकृताङ्ग शाङ्गं गङ्गातरङ्गं प्रतिभटविलसद्भोगिभोगोत्तमाङ्गम् । तुङ्गोत्सङ्गाङ्गसङ्गप्रमुदितगिरिजालिङ्गिताङ्गं च नेडे त्र्यक्षाक्षोभ्यापराधान् हर हर करुणापारपूरैकसिन्धो ॥ ६॥ मत्वा पापानुतापं पुनरपि जननक्लेशकोशावकाशं श्रुत्वा काशीमशेषश्रुतिशिखरमतानन्दपीयूषराशिम् । श्रुत्वा प्याशातिपाशप्रशमनशमितं (शमनं) न श्रयामो नितान्तं त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैकसिन्धो ॥ ७॥ वारं वारं स्मरामि स्मरहरचरणौ नादरेण क्षणेन क्षीणप्राणप्रयाणक्षणकरणरणप्रेक्षणादक्षिणोऽपि । प्राणप्राणाग्निहोत्रव्रतहितनियमः कामकामप्रकामं त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासार पूरैकसिन्धो ॥ ८॥ स्मृत्वा स्मृत्वाऽपि कालज्वलदनलकुलस्तम्भसम्भारभार- व्यापारारम्भभीतिं यमभटघटनाट्टाट्टहासोपहासान् । भीतो भीतोऽपि भूतप्रतिभटविषयैर्नार्चयामो यमारिं त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैकसिन्धो ॥ ९॥ सानन्दं वेदवन्द्यं स्मरहरचरणाराधनध्यानदान- व्यक्तासक्तस्वकर्मप्रतिभुवमभवं मोक्षदाने भव त्वाम् । न त्यक्ष्ये लक्षशोऽपि क्षणमपि मरणेऽप्यङ्घ्रिपद्मं तवेश त्र्यक्षाक्षोभ्यापराधान् हर हर करुणापारपूरैकसिन्धो ॥ १०॥ नग्नो गौरीसहायस्स्मृतिजनितनिजानन्दसन्दोहमग्नो लग्नस्वर्गापवर्गप्रदद मघहरापारलिङ्गार्चनेऽपि । नोद्विग्नः पापकोपप्रचुरविषयजापारदुःखाम्बुराशेः त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैकसिन्धो ॥ ११॥ गर्भाविर्भावभोगव्यपगमसुगमोपायशीतांशुकाय- श्रीपादाम्भोजपूजाजितनिजजननव्याजजातद्विजश्रीः । विज्ञाभिज्ञोनभिज्ञच्युतविततमतिर्नामृतं त्वां भजामि त्र्यक्षाक्षोभ्यापराधान् हर हर करुणासारपूरैक सिन्धो ॥ १२॥ त्र्यक्ष स्वाश्रितरक्षकादिभवनाध्यक्षाधुना रक्ष मां रक्ष्यं रक्ष्यमुपेक्षसे किमिति मां दक्षोऽपि मद्रक्षणे । भालाक्षाक्षरवीक्षणाक्षयमहाविक्षेपदाक्षायणी- वक्षोजस्फुरदक्षविक्षयकृपालक्ष्यं परीक्ष्य क्षणम् ॥ १३॥ ॥ इति शिवरहस्यान्तर्गते वीरेश्वरस्तुतिः - ४ - त्र्यक्षाक्षोभ्यापराधहरणार्थ निवेदनं सम्पूर्णम् ॥ बृहस्पतिशतानन्दसंवादे वीरेश्वरस्तुतिवर्णनं - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४७। ९१-१०३ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 47. 91-103 .. Proofread by Ruma Dewan
% Text title            : Vireshvara Stuti - 4
% File name             : vIreshvarastutiH4.itx
% itxtitle              : vIreshvarastutiH 4 tryakShAkShobhyAparAdhaharaNArtha nivedanaM (bRihaspatishatAnandasaMvAde shivarahasyAntargatA)
% engtitle              : vIreshvarastutiH 4
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 47| 91-103 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org