अगस्त्यकृतवेदपादस्तवः

अगस्त्यकृतवेदपादस्तवः

अगस्त्यः - भर्गो देवस्य सवितुर्वरेण्यमिह धीमहि । स भर्गो भगवान् शम्भुः धियो यो नः प्रचोदयात् ॥ ४॥ गणगणपतये नमो नमः सुरगणपतये नमो नमः । अगपतिपतये नमो नमः पशुपतिपतये नमो नमः ॥ ५॥ नमस्तेऽस्तु गणेशाय महादेवसुताय ते । विघ्नान्धकारसूर्याय ब्रह्मणां ब्रह्मणस्पते ॥ ६॥ नमामि ढुण्ढिं मदसिक्तगण्डं कृपाघषण्डं विधृतार्धमुण्डम् । स्वभक्तविघ्नार्तिहरप्रचण्डं परात्परं यन्महतो महान्तम् ॥ ७॥ गणाधिपं गण्डतलालिकोटिकिरीट कोटिध्वजनिर्जिताम्बुधेः । संसेविताङ्घ्रि प्रणमामि सर्वदा कविं कवीनामुपमश्रवस्तमम् ॥ ८॥ सिद्धिं दातुं बुद्धिं वृद्धिं शक्तं नित्यं गौरीपुत्रम् । स्कन्दं वन्दे वन्द्यं वेदैः सुब्रह्मण्यों सुब्रह्मण्यम् ॥ तारकासुरसंहारं विहारचतुरं परम् । वन्दे वन्दारुमन्दारं कुमारं पुष्करस्रजम् ॥ १०॥ अकस्मादस्मदीयेन भाग्येन सुखदेव मे । स्मरारातिस्मृतिस्तावदभ्रात् वृष्टिरिवाजनि ॥ ११॥ ये वैदिकस्मार्तविधिप्रयुक्तक्रियाजलक्षालनपूतचित्ताः । विभूतिरुद्राक्षविभूषणास्ते शमेन शान्ताः शिवमाचरन्ति ॥ १२॥ सुरापारशिरोरत्नप्रभानीराजिताय ते । महादेवाय शर्वाय सदसस्पतये नमः ॥ १३॥ भूतजातसमुत्पत्तिहेतुभूताय सर्वदा । सर्वदेवाभिवन्द्याय भूतानां पतये नमः ॥ १४॥ सर्वामराधिदेवाय वेदाराध्यपदाय ते । देवोत्तमोत्तमायाशु पशूनां पतये नमः ॥ १५॥ कालान्तकाय शर्वाय महामृत्युञ्जयाय च । भूतस्वर्गापवर्गाय जगतां पतये नमः ॥ १६॥ नमस्त्रिलोकनाथाय नमः परतराय ते । नमः शान्ताय भगवन् अन्नान्नां पतये नमः ॥ १७॥ आर्यचित्तप्रविष्टाय प्रहृष्टाय सुरेष्वपि । प्रकृष्टायातिपुष्टाय पुष्टानां पतये नमः ॥ १८॥ महाभूताधिपतये भूतभीतिप्रदाय च । भूतिप्रदप्रभूताय दिशां च पतये नमः ॥ १९॥ विश्वमायाविदूराय विश्वविश्वप्रियाय च । विश्वेश्वराय सोमाय विश्वरूपाय वै नमः ॥ २०॥ घोर तत्पुरुषेशान वामदेव सदाशिव । अविद्याध्वान्तसूर्याय सद्योजाताय वै नमः ॥ २१॥ नमो भर्गाय भीमाय भगनेत्रहराय ते । देवतासार्वभौमाय नमो रुद्राय मीढुषे ॥ २२॥ सहस्रशिरसे तुभ्यं सहस्रचरणाय च । नमः सहस्रहस्ताय सहस्राक्षाय मीढुषे ॥ २३॥ भालभासुरनेत्राग्निसन्दग्धत्रिपुराय ते । नमः सुन्दररूपाय सुमृडीकाय मीढुषे ॥ २४॥ संसारघोररोगार्तिनिवारणकराय ते । नमस्तुभ्यमषाढाय सहमानाय मीढुषे ॥ २५॥ समस्त वेदवेदान्तवन्दिवन्दितमव्ययम् । भव्वस्वरूपं तं वन्दे सदसस्पतिमद्भुतम् ॥ २६॥ सुरासुरगणाराध्यं दुराराध्यं दुरात्मनाम् । परमानन्ददं वन्दे सुगन्धिं पुष्टिवर्धनम् ॥ २७॥ तमेव भक्त्या हृदि भावयामो भवं भवानीरमणं भजामः । भवादिनामानि मुदा वदामो यतः प्रसूता जगतः प्रसूती ॥ २८॥ गौरी विहारप्रवरप्रजातस्वेदोदकामोदविजृम्भितेन । उमासहायः समयः स भूयः तोयेन जीवान् व्यचसर्ज भूम्याम् ॥ २९॥ य एव तावद्भिरिराजकन्या विन्यस्तहस्तस्तनमस्तहस्तः । स एव तावव्द्यचसर्ज तस्यां यदोषधीभिः पुरुषान् पशूंश्च ॥ ३०॥ प्रदोषकालीनशिवार्चनेन यः सर्वदोषापहरो हरो मे । गौरीविहारादरतः ससर्ज यदेष भूतानि चराचराणि ॥ ३१॥ भालाक्षं दक्षयज्ञादिशिक्षादक्षाभिलक्षितम् । वन्दे देवं विरूपाक्षमक्षरं परमं पदम् ॥ ३२॥ शिवप्रभावश्रवणोत्सुकाय शिवार्चनानन्दविजृम्भिताय । शिवस्तवाख्यानविवर्धनाय शिव प्रजायै शिवमस्तु मह्यम् ॥ ३३॥ महाप्रभुः शम्भुरुमासहायो दयामयो भूतिमयो मयोऽपि । माता पिता मे स हितप्रदाता धाता विधाता परमोत सन्दृक् ॥ ३४॥ मङ्गलालङ्कृतार्धाङ्गमर्धेन्दुललितालकम् । अर्धनारीश्वरं वन्दे पुरुषं कृष्णपिङ्गलम् ॥ ३५॥ जगन्निर्माणचातुर्यमर्यादासेतुसेवितम् । वन्दे शान्तमुमाकान्तं जगतस्तस्थुषस्पतिम् ॥ ३६॥ पुरादिकामरारातिसंहारचतुरं परम् । परात् परतरं वन्दे जेतारमपराजितम् ॥ ३७॥ तं वन्दे सच्चिदानन्दमद्वैतमतिसुन्दरम् । लीलया विदधे योयमिमानि त्रीणि विष्टपा ॥ ३८॥ तं वन्दे नित्यसर्वज्ञं नित्यविज्ञानसागरम् । यतो यजूंषि जातानि ऋचः सामानि जज्ञिरे ॥ ३९॥ भवन्तमेव सततं भगवन्तमुमापतिम् । स्मृत्वा तरति संसारं यो विश्वाऽभिविपश्यति ॥ ४०॥ सर्वामरनियन्तारं शङ्करं लोकशङ्करम् । भज यस्य प्रसादेन व्याप्य नारायणः स्थितः ॥ ४१॥ तमेव वन्दे देवेशं महेशं शरणं गतः । यदाज्ञया जगद् धाता यथापूर्वमकल्पयत् ॥ ४२॥ स्मरारिं तमहं वन्दे यल्लिङ्गं मङ्गलप्रदम् । पूजयन्ति प्रसूनाद्यैरिन्द्रज्येष्ठा मरुद्गणाः ॥ ४३॥ नमामि तमुमार्धाङ्गं शङ्गं मङ्गलदायकम् । यमाराध्य सुखं प्रापुः देवासः पूषरातयः ॥ ४४॥ नमामि तं महारुद्रं शाम्भवाश्चिद्धनं परम् । सततं वेदवेदान्तेः सञ्जानाना उपासते ॥ ४५॥ नमामि तां परां गौरीं कुचकुङ्कुमरूधिताम् । स्मृत्याप्यानन्ददामाशु या ते रुद्र शिवा तनूः ॥ ४६॥ नमस्ते करुणापारसागराय स्मराय च । नमः शान्तिरसायापि नमस्ते रुद्रमन्यवे ॥ ४७॥ महाप्रलयकालाग्निनिभशूलाय ते नमः । नमः परशवे तावत् उतोत इषवे नमः ॥ ४८॥ फणिराजमहाकायज्याज्योत्स्नामण्डिताय च । महामेरुस्वरूपाय नमस्ते अस्तु धन्वने ॥ ४९॥ रक्तकङ्कणभाभारभासुराभ्यां भव प्रभो । भक्ताभीष्टप्रदाभ्यां च बाहुभ्यामुत ते नमः ॥ ५०॥ सुरासुरादिकापारसंहारकरणान्यपि । घोराण्यपाररूपाणि तस्मात्तेभ्योऽकरं नमः ॥ ५१॥ मां मामकधिया दीनं तावकं करुणाकर । कुरु शङ्कर सम्पन्नं दरिद्रन्नीललोहित ॥ ५२॥ शाङ्कराग्रेसराराध्यं शिवाराधनसाधनम् । रक्ष रक्ष विरूपाक्ष नान्यं विन्दामि राधसे ॥ ५३॥ दाराणां मम पुत्राणां पौत्रादीनां विशेषतः । त्वत्पादुकाराधकानामस्माकमविता भव ॥ ५४॥ अतः परमुमाकान्त दुर्दशां न सहामहे । तां दुर्दशां हरास्माकं भूरिदां भूरि देहि नः ॥ ५५॥ शिवपूजनसक्तेभ्यः शाम्भवेभ्यः प्रतिक्षणम् । पवित्रं गात्रमस्मभ्यं वसु स्वार्हं तदाभर ॥ ५६॥ भावेभ्यो भवभीरुभ्यो भस्माङ्गेभ्यः प्रयत्नतः । भवानीरमण स्वामिन् इषंस्तोतृभ्य आभर ॥ ५७॥ सर्व मोहविनाशाय सर्वाभीष्टद शङ्कर । प्रयच्छ शाङ्करीं विद्यां राया विश्वपुषा सह ॥ ५८॥ शिवपूजासाधनानां बिल्वानामार्जनाय च । तथा शिवप्रणामार्थं बलं धेहि तनूषु नः ॥ ५९॥ शिवपूजनसामग्रीविरहादेव दुःखिनः । हृद्रोगं मम सूर्येश हरिमाणं च नाशय ॥ ६०॥ शिवद्रोहरता एव शिवभक्तपरराङ्मुखाः । तान् शिवाचाररहितान् विबाधस्व महाम्भसि ॥ ६१॥ अनन्यशरणानस्मान् त्र्यक्ष दाक्षायणीप्रिय । कटाक्षेण विरूपाक्ष रक्ष णो ब्रह्मणस्पते ॥ ६२॥ गौरीपते पिता माता दाता त्राता विशेषतः । त्वमस्माकं धनं भाग्यमुत भ्रातोऽत नः सखा ॥ ६३॥ स्तन्यपानादिसमये न कृतं शिवपूजनम् । अन्यच्च तत् क्षमस्वेश यन्मया दुष्कृतं कृतम् ॥ ६४॥ कर्पूरपूरनीहार गिरिसुन्दर विग्रहम् । गिरिजानुग्रहानुग्रं गाये त्वां मनसा गिरा ॥ ६५॥ सोऽयं देयो वरोऽस्मभ्यं वयं लिङ्गं समर्पितम् । बिल्वादिसाधनैर्दिव्यैः पश्येम शरदः शतम् ॥ ६६॥ शिवलिङ्गार्चनोद्योगमहोत्सव समन्विताः । सर्वसौभाग्यसम्पन्ना जीवेम शरदः शतम् ॥ ६७॥ गौरीविहारश्रीपुञ्ज मञ्जुशिञ्जितमञ्जुलम् । श्रीकालकालमालोक्य नन्दाम शरदः शतम् ॥ ६८॥ उमासहायं सदयं प्रसन्नहृदयं हृदि । आनन्दं मुहुरालोक्य मोदाम शरदः शतम् ॥ ६९॥ प्रसीद भगवन् शम्भो भवत्करुणया वयम् । निर्भयाः शाम्भवा एव भवाम शरदः शतम् ॥ ७०॥ हारापारकथामेव संसारातिभयक्षयम् । कर्तुमत्युद्यताः श‍ृणवाम शरदः शतम् ॥ ७१॥ शिव शङ्कर गौरीश महादेवान्तकान्तक । शूलिन् इत्यादिनामानि प्रब्रवाम शरदः शतम् ॥ ७२॥ अपमृत्यु महामृत्यु महारोग कुलैरपि । आधिभिर्व्याधिभिः नित्यमजीताः स्याम शरदः शतम् ॥ ७३॥ गौरीकुचगिरिस्फारकाश्मीररसरूषितम् । सदा चाङ्गेषु पश्यामि युवानं विश्पतिं कविम् ॥ ७४॥ गौरीमनोहरस्मेरविलोकनविशारदम् । दृष्ट्वा हृष्टोऽस्मि तं साम्बं सुभासं शुक्रशोचिषम् ॥ ७५॥ अपारासारसंसाररोगभोगविनाशकः । स्मृतः स्मरहरः शूरो नीलग्रीवो विलोहितः ॥ ७६॥ स्मृतः स्तुतः श्रुतो ध्यातः पूजितो वा सकृन्मुदा । मुक्तिप्रदो महादेवः तुविग्रीवो अनामयः ॥ ७७॥ रुद्रवीणागानलोललीलया सामकल्पकः । सामगानप्रियः सोऽयमुपास्मै गायता नरः ॥ ७८॥ रुद्रसूक्तप्रियो देवो रुद्राध्यायप्रियः शिवः । अतस्तैरखिलर्नूनमेष विरप्रैरभिष्टुतः ॥ ७९॥ शिवार्चनादयो धर्माः चित्त शङ्करकल्पिताः । अतो भज विरूपाक्षमध्यक्षं धर्मणामिमम् ॥ ८०॥ प्रणमन्ति सुराः सर्वे प्रणतं शिवसन्निधौ । अतः कुर्मो नमस्कारान् रुद्राय स्थिरधन्वने ॥ ८१॥ रुद्राध्यायादिभिर्या या नमस्या प्रतिपादिता । सा पिनाकिनमायाति नमस्या कल्मलीकिनम् ॥ ८२॥ नेत्राम्भोरुह ते कृत्यं हितमद्याधुनोच्यते । पश्य मामक पश्येशं भ्राजमानं हिरण्मयम् ॥ ८३॥ शिवनामसुधाधारां घोरसंसारहारिणीम् । अन्तःकरणपात्रेण पातं गौराविवेरिणी ॥ ८४॥ शिवनिर्माल्यमाल्यानि सम्यगाघ्रायनासिके । शाम्भवेभ्योऽधुना नित्यमस्मभ्यं शर्म यच्छतम् ॥ ८५॥ रसने मधुरापाररसास्वादनतत्परे । शिवनारसं ब्रूहि जयतामिवदुन्दुभिः ॥ ८६॥ रे रे चित्तचकोर त्वं जहि दुःखमतः परम् । शिवनामसुधाधारां गेरो न तृषितः पिब ॥ ८७॥ रे रे मनश्चञ्चरीक शिवपादाम्बुजं मुहुः । गाढमालिङ्ग मच्चित्तं योषा जारमिव प्रियम् ॥ ८८॥ महार्हरत्नाकरचारुमेरुभूरिप्रभाभासुरभूषणाय । महेश्वरायातिमनोहराय महो महीं सुष्ठुतिमीरयामि ॥ ८९॥ महेश्वरातिदुःसहामितातिगर्भवेदना समाकुलानपारपापसङ्घसङ्कुलानिमान् । अवाव मामवाव मामुमासहाय कालहन् अदूषणोव सोम हे मृशस्व शूर राधसे ॥ ९०॥ भजेम कामदं मुदा हृदि प्रविष्टमष्टधा निरन्तरायमन्तरायनाशहेतुसाधकम् । अनर्गलप्रवाहसृष्टिकारणं सभापतिः स नो ददातु तं रयिं रयिं पिशङ्गसन्दृशम् ॥ ९१॥ नमोऽन्धकासुरादि सर्वशत्रु नाशहेतवे सुराधिकाय चित्तमेतदिन्दुखण्डमौलये । भयापहाय देयमेव बिल्वपल्लवामलं न यस्य दृश्यते सखा न हीयते कदाचन ॥ ९२॥ अहो महादेव महानुभाव शुभस्वभावानुपमप्रभाव । भवोद्भवानुद्भव भव्यभाव भवे भवे नातिभवे भवस्व माम् ॥ ९३॥ महाघकोटिकूटकोटिदावपावकानलान् अपारकामवञ्चितानुदारकामलोलुपान् । अनाथनाथ विश्वनाथ तानवाव तावकान् अदूषणोऽव सोमहन् मृशस्व शूर राधसे ॥ ९४॥ मन्दारकुन्दादिमरन्दधारासक्तालिमालाकुलमालिकाभिः । समर्चयामि स्तुतिभिर्गिरीशमषाढमुग्रं सहमानमाभिः ॥ ९५॥ नमो नमस्ते गिरिराजराजकुमारिकासुन्दरकामुकाय । नमो नमस्तेऽस्तु पुनर्नमस्ते नमो जघन्याय च बुध्नियाय ॥ ९६॥ तस्मै नमः सर्वगुणार्णवाय सर्वामराराधितपादुकाय । गौरीसमेताय बहुप्रजेयं यतः प्रसूता जगतः प्रसूती ॥ ९७॥ तस्मै नमो मङ्गलमङ्गलाय श्रीमङ्गलालङ्कृतविग्रहाय । वेदान्तसङ्घातसमाश्रयाय यस्मात् परं नापरमस्ति किञ्चित् ॥ ९८॥ सुधाकरापारकरप्रसारविहारताराकरहारभार । नमो नमस्तेऽस्तु नमो नमस्ते यस्मिन्निदं सञ्च विचैति सर्वम् ॥ ९९॥ हिरण्यरूपं च हिरण्यबाहुं हिरण्यनाथं च हिरण्यवर्णम् । नमामि भालस्फुरदग्निजालं हिरण्यदं तं शुचिवर्णमारात् ॥ १००॥ सूक्ष्मातिसूक्ष्माद्भुतविग्रहाय महोन्नतात्युन्नतसन्नुताय । नमो नमस्ते श्रुतिसन्नुत त्वमणोरणीयान् महतो महीयान् ॥ १०१॥ न केवलं पर्वतमस्तकेषु न केवलं पर्वतमध्यभागे । न केवलं तद्गिरिमूलभागे अधःस्विदासीत् उपरिस्विदासीत् ॥ १०२॥ न केवलं पूर्वदिगाश्रयोऽयं न केवलं तिष्ठति दक्षिणायाम् । न पश्चिमायामयमुत्तरस्यां व्याप्तः स सर्वाः प्रदिशो दिशश्च ॥ १०३॥ संसाररोगादिकरोगजालं श्रीकालकालाखिललोकपालम् । दूरीकुरु त्वं त्वरया दयाब्धे भिषक्तमं त्वां भिषजां श‍ृणोमि ॥ १०४॥ पश्याधुना पश्य भवत्पदाब्जपूजारतं भस्मविभूषिताङ्गम् । रुद्राक्षमालाभरणं महेश पश्चात् पुरस्तादधरादुदक्तात् ॥ १०५॥ दयासुधासागरधीरधारातरङ्गसङ्गत्वदपाङ्गसङ्गात् । वयं महापापकुलस्वरूपाः त्वत्पादनावा दुरितं तरेम ॥ १०६॥ दैन्याम्बुधाराधरधीरधार पुरापकाराकरमादरेण । मां पालयाभीष्टविशिष्टमिष्टमोजिष्ठया दक्षिण एव रातिम् ॥ १०७॥ महेश्वराराधनसाधनानामासादनेनैव नयामि कालम् । न कालभीर्देहि ममामितायुः यदि क्षितायुः यदि वा परेतः ॥ १०८॥ कदा मुदा सुन्दरमन्दहासपुरःसरं मां स्मरवैरिरारात् । भस्माङ्गमालिङ्गति सोत्तमाङ्गैः स्थिरेभिरङ्गैः पुरुरूप उग्रः ॥ ११०॥ कदा त्रिपुण्ड्राङ्कितभालभागं रुद्राक्षमालाभरणप्रियं च । लिङ्गार्चकं द्रक्ष्यति रक्षणाय हिरण्यरूपः स हिरण्यसन्दृक् ॥ १११॥ बिल्वादिसम्पूजितलिङ्गमध्यात् विनिर्गतं बिल्वदलाङ्किताङ्गम् । शङ्गं प्रपश्यामि मुहुर्मुदाऽहमादित्यवर्ग तमसः परस्तात् ॥ ११२॥ तमेव देवोत्तममिन्दुमौलिं भजामि भक्त्या भगवन्तमेकम् । भवं भवानीपतिमामनन्ति वेदान्तविज्ञानसुनिश्चितार्थाः ॥ ११३॥ तमेव साम्बं सततं भजामि यल्लिङ्गपूजासमवाप्तभाग्यः । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ॥ ११४॥ तमेव विश्वेश्वरमाश्रयामि यो देवदेवो जगदेकनाथः । यद्दृष्टिमात्रं श्रियमातनोति श्रीणामुदारो धरुणो रयीणाम् ॥ ११५॥ सुपुत्रपौत्रादिसमृद्धिकामाः कामारिमेकं शरणं प्रपन्नाः । यतः समस्तेप्सितदानलोलः हिरण्यगर्भः समवर्तताग्रे ॥ ११६॥ महेश्वरादेव समस्तमेतत् कल्पावसाने पुनरेव जातम् । आदावुमालिङ्गितसुन्दराङ्गात् दिवा च नक्तं परितो युवाऽजनि ॥ ११७॥ भो लोचनोरुभ्रमरप्रकृष्टमन्दारकुन्दादिमरन्दधाराम् । विहाय गौरीपतिमाश्रिताय स्वादुः किलायं मधुमामुतायम् ॥ ११८॥ क्षीरं घृत शर्करया समेतं गृहाण जिह्वे मधुरप्रिये त्वम् । फलानि रम्याणि पुनर्गृहाण स्तुहि श्रुतं गर्तसदं युवानम् ॥ ११९॥ अतः परं कालभयं न मे स्यात् न गर्भवासादिभयानि नूनम् । यतो जलैः बिल्वदलैः प्रगेषु यक्ष्वामहे सौमनसाय रुद्रम् ॥ १२०॥ श्रीमन्महादेव दयासमुद्र श्रीमन्महारुद्र ममापराधान् । दूरीकुरु त्वं कृपया त्वमीश पितेव पुत्रान् प्रति नो जुषस्व ॥ १२१॥ मामव्यक्तव्यक्तसर्वापराधागाधाम्भोधिक्रूरनक्रादिदष्टम् । दृष्ट्वाऽरिष्टानिष्टनाशाय भूयो देवस्त्राता त्रायतामप्रयुच्छन् ॥ १२२॥ यत्पादाब्जं योगिर्भिर्नैव दृष्टं ब्रह्माद्यैर्वा सिद्धसङ्घैरनेकैः । यस्य ध्यानात् सर्वदा सर्वसिद्धिः तत्त्वायामि ब्रह्मणा वन्दमानः ॥ १२३॥ नमामि दुण्ढिं मदसिक्तगण्डं हताघषण्डं विधृतोर्ध्वशुण्डम् । स्वभक्तविघ्नार्तिहरप्रचण्डं परात्परं यन्महतो महान्तम् ॥ १२४॥ गणाधिपं गण्डतलालिकोटिभिः किरीटकोटिध्वजनिर्जिताम्बुदैः । संसेविताङ्घ्रि प्रणमामि सर्वदा कविं कवीनामुपमश्रवस्तमम् ॥ १२५॥ नमो भवान्यै भवतापभीरु स्वभक्तसंरक्षणतत्परायै । आनन्ददा हारविहारदा या चतुष्कपर्दा युवतिः सुपेशाः ॥ १२६॥ ताराभिरामामरहारहीरप्रसारधारानिकरोपकाराम् । चिराय धीरां भज चित्त गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ १२७॥ नमामि तामेव जगज्जनित्रीं करोति काश्मीररसप्रसारैः । आरक्तवर्णी गिरिजा कुचौ या प्रियं सखायं परिषस्वजाना ॥ १२८॥ तामेव वन्दे गिरिराजकन्यां यत्पादुकाराधनतः सुखानि । महेश्वराङ्कस्थलसन्निविष्टा विश्वानि देवी भुवनानि चष्ट्या ॥ १२९॥ मन्दारादिस्रग्विशेषालिवृन्दामन्दध्वानाकर्णनासक्तचित्ताम् । वन्दे मन्दं भक्तसंरक्षणार्थं वन्दे देवं राधसे चोदयन्तीम् ॥ १३०॥ वन्दे भूयो मन्दुहासोपहासव्यासक्तास्यानन्दसिन्धुं महेशम् । क्रीडालोलं कर्तुमभ्युद्यतां तामेषा नेत्री राधसः सूनुतानाम् ॥ १३१॥ भवानि मातस्त्रिजगज्जनित्रि त्वमम्ब बिम्बाधररागभागैः । श्रियं प्रदेहि त्वरया प्रियान्नो ययाऽति विश्वा दुरिता तरेम ॥ १३२॥ कस्ते स्तुतिं कर्तुमिहास्ति शक्तः यामिन्दिरा सुन्दरचन्दनाद्यैः । समर्चयामास सरस्वती च सरस्वती वा सुभगा ददिर्वसु ॥ १३३॥ फलं - इति स्तुतो महादेवो वरान् दत्वा तदीप्सितान् । पुनर्वरान्तरं दातुमुवाच वचनं मुदा ॥ १३४॥ त्वया कृतं स्तोत्रशिखामणि यः कण्ठे लुठन्तं कुरुतेऽतिभक्त्या । तमाशु सम्पञ्जलराशयस्ताः परिष्वजन्ते जनयो यथा पतिम् ॥ १३५॥ इमं स्तवं यः पठति प्रभाते मध्याह्नकालेऽपि महाप्रदोषे । तस्य प्रयान्ति प्रहता इवाशु भियं दधाना हृदयेषु शत्रवः ॥ १३६॥ लभन्ते जपन्तः श्रियं कीर्तिकामाः लभन्ते धनं धान्यमश्वादिकं च । लभन्ते तथाऽऽयुः प्रवृद्धं प्रवृद्धाः लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥ १३७॥ इति दत्वा वरांस्तस्मै तत्रैव गिरिजापतिः । अन्तर्दधे गणेशाद्यैः सह लिङ्गे शिवात्मके ॥ १३८॥ श्रीशैलेश्वरलिङ्गतुल्यममलं लिङ्गं न भूमण्डले ब्रह्माण्डप्रलयेऽपि तस्य विलयो नास्तीति वेदोक्तयः । तस्मात् तद्भजनेन मुक्तिरखिलैः प्राप्या न सा दुर्लभा तत्पूजानिरतस्य दुर्लभतमं किं वा जगन्मण्डले ॥ १३९॥ ॥ इति शिवरहस्यान्तर्गते अगस्त्यकृतवेदपादस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३५। ४-१३९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 35. 4-139 .. Proofread by Ruma Dewan
% Text title            : Agastyakrita Vedapada Stava
% File name             : vedapAdastavaHagastyakRRita.itx
% itxtitle              : vedapAdastavaH agastyakRitaH (shivarahasyAntargataH)
% engtitle              : vedapAdastavaH agastyakRita
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 35| 4-139 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org