श्रीवेमुलवाडराजराजेश्वरसुप्रभातस्तोत्रम्

श्रीवेमुलवाडराजराजेश्वरसुप्रभातस्तोत्रम्

वेमुलवाड लेम्बालवाटिक । जागृहि त्वं महादेव जागृहि त्वं वृषध्वज । जागृहि त्वमुमानाथ जगतां मङ्गलं कुरु ॥ १॥ श्रीनाथपद्मभवजिष्णुमुखामरेन्द्राः सेवाविनम्रशिरसः परितो ह्यतिष्ठन् । वाग्देवता पठति पूर्मथनादिगाथां बालेन्दुशेखर विभो तव सुप्रभातम् ॥ २॥ शेफालिकावकुलवञ्जुलकुन्दजाती\- पुन्नागचम्पककदम्बसरोजगन्धैः । रावाति शीतलपयःकणपूतवातः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ३॥ वीणामृदङ्गमुरलीमुखविप्रभिन्न सङ्गीतसङ्ग्रथितवाद्यसमेतगीतीः । गायन्त्यनल्पमलकाकलकण्ठकण्ठ्यं लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ४॥ श्रीमन्नतेष्टफलदायक दीनबन्धो श्रीकण्ठ श्रीदसख श्रीकर प्रेमसिन्धो । श्रीपार्वतीप्रणयकेलिकलानिशान्त लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ५॥ श्रीमानसह्रदनिमग्नविनिर्मलाङ्गाः बद्धाञ्जलि हित्रप्रणतोत्तमाङ्गाः । द्वारे वसन्ति विबुधा मुदितान्तरङ्गाः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ६॥ केदारश्रीगिरिचिदम्बरसेतुबन्ध\- वाराणसीपशुपतीश्वरधेनुकर्ण । तीर्थेषु मोदमनवाप्य त्वमागतोऽत्र लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ७॥ कूजन्ति वृक्षशिखरेषु मुदा विहङ्गाः नन्दन्ति केलिसरसीषु मरालसङ्घाः । गुञ्जन्ति सन्दलिततामरसेषु भृङ्गाः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ८॥ नृत्यन्ति सान्द्रतरुभूमिषु नीलकण्ठाः क्रीडन्ति शाद्वलतलेषु शशाः कुरङ्गाः । जल्पन्ति पञ्जरशुकाः प्रहसन्ति कोकाः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ९॥ पश्यन्ति यात्रिकजनास्तव गोपुराग्र\- मायान्ति भूसुरगणास्तव धर्मकुण्डम् । ध्यायन्ति तापसवरा स्तव मन्त्रमूर्तिं लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १०॥ गङ्गा नगेन्द्रतनयाहृदयाधिराज सङ्गीतलोल शरणागतकल्पभूज । श्रीदारुकावनमुनीन्द्रसतीमनोज लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ११॥ कैलासवास करुणाञ्चितमन्दहास कर्पूरकुन्दकलहंसतनूविकास । कल्याणपूर्णगुणमानस चिद्विलास लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १२॥ सारङ्गनाभ घनसारविमिश्रितोद\- कुम्भैर्घुमंघुमदपूर्वसुगन्धिगन्धैः । पुष्पैस्सुधूपनिकरैः फलबिल्वपत्रैः प्रातस्समर्चनविधिं परिकल्पयन्ति । लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १४॥ एलालवङ्गयुगपत्रकनागवल्ली- खर्जूरपूगकदलीपनसादिरम्य- । माराममर्चयितुमाह्वयतीव भाति लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १५॥ प्रसार्य सूर्यस्समुदेति हस्तान् नदीनदास्सिन्धुमनुव्रजन्ति । प्राचीमुखं प्राञ्जलिमादधानः सन्ध्यामुपास्ते द्विजसञ्चयोऽयं लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १६॥ धृत्वा गले यदि मुदा विहरेत्पुमान् यः स प्राप्नुयात्सुखमनङ्गकलाविलासम् । आयुश्श्रियं धियमधीतिसुवर्णमाशु लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १७॥ इति वेमुलवाड लेम्बालवाटिकसुप्रभातं समाप्तम् । श्रीराजराजेश्वरसुप्रभातं Proofread by PSA Easwaran
% Text title            : Vemulavada Rajarajeshvara Suprabhata Stotram
% File name             : vemulavADarAjarAjeshvarasuprabhAtastotram.itx
% itxtitle              : vemulavADarAjarAjeshvarasuprabhAtastotram
% engtitle              : vemulavADarAjarAjeshvarasuprabhAtastotram
% Category              : shiva, suprabhAta
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : suprabhAta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org