विष्णुप्रोक्ता शिवभक्तियाचना
विष्णुरुवाच -
वरोत्तमं वरं देहि वरदोत्तम शङ्कर ।
अचञ्चला शिवे भक्तिर्ममास्त्विति पुनः पुनः ॥ ५७३॥
अक्षमेण मया देव स्वल्पमेव तपः कृतम् ।
प्रसन्नोऽसि कथं शम्भो करुणाकर शङ्कर ॥ ५७४॥
दीनबन्धो दयासिन्धो प्रसन्नोऽसि कथं मम ।
मया पूजाविधिः सम्यक् तव न ज्ञायते शिव ॥ ५७५॥
तव स्वरूपं न ज्ञातं तत्त्वतोऽमेयविक्रम ।
तादृशस्य ममाद्य त्वं प्रसन्नः कथमीश्वरः ॥ ५७६॥
वेदैरपि न ते तत्त्वं ज्ञातमस्ति महेश्वर ।
तादृशं शिवतत्त्वं ते कथं ज्ञेयं मयाधुना ॥ ४७७॥
त्वदन्यः करुणासिन्धुर्लोके नास्त्येव सर्वथा ।
यदल्पेनापि तपसा प्रीतोऽसि भगवन्शिव ॥ ५७८॥
त्वदन्यच्छरणं नास्ति त्वमेव शरणं मम ।
रक्ष रक्ष महादेव रक्ष रक्ष शिवापते ॥ ५७९॥
त्वदीयं पादकमलं निधेहि मम मूर्धनि ।
येन धन्यो भवाम्यद्य धन्यं मां कुरु शङ्कर ॥ ५८०॥
त्वदीयं पादकमलं दृढं बद्धं मया शिव ।
धन्योऽस्मि कृतकृत्योऽस्मि मत्तो धन्यो न विद्यते ॥ ५८१॥
यन्न वेदपुराणाद्यैर्दृष्टंयत्पाद पङ्कजम् ।
तदेवाद्य मया दृष्टं भाग्यस्यान्तो न मे शिव ॥ ५८२॥
यन्न सिद्धैर्मुनिवरैः कपिलाद्यैर्निरीक्षितम् ।
तादृशं शङ्करस्यैतद् दृष्टं पादाम्बुजं मया ॥ ५८३॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्ता शिवभक्तियाचना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । ५७३-५८३॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 573-583..
Proofread by Ruma Dewan