विष्णुप्रोक्तं शङ्करार्चनमहिमवर्णनम्
(सुदर्शनविष्णुसंवादे)
मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् ।
मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ ४९.११॥
तदर्चनेन सम्प्राप्तं मया पूर्वं सुदर्शनम् ।
सहस्रारं दैत्यहन्तृ साक्षात्त्र्यक्षप्रपूजया ॥ ४९.१२॥
तमाराधय यत्नेन भस्मधारणपूर्वकम् ।
अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्ड्रकैः ॥ ४९.१३॥
रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः ।
शिवलिङ्गं बिल्वपत्रैः पूजयंज्ञानवान्भव ॥ ४९.१४॥
वसन्क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे ।
अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥ ४९.१५॥
बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम ।
यस्य भालतलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितम् ॥ ४९.१६॥
ब्रह्मेन्द्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतम् ।
पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥ ४९.१७॥
पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः ।
त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥ ४९.१८॥
कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः ।
पूजयत्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥ ४९.१९॥
मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः ।
नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ ४९.२०॥
ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् ।
तस्मात्त्वमपि भक्त्यैव समाराधय शङ्करम् ॥ ४९.२१॥
पशवो विष्णुविधयस्तथान्ये मुनयः सुराः ।
सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ ४९.२२॥
प्रसादजनकं तस्य भस्मधारणमेव हि ।
प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥ ४९.२३॥
प्रसादजनकस्तस्य रुद्राध्यायजपः सदा ।
प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥ ४९.२४॥
प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् ।
प्रसादे शाम्भवे जाते भुक्तिमुक्ती करे स्थिते ॥ ४९.२५॥
तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः ।
तस्य प्रीतिकरं साक्षाद्बिल्वैर्लिङ्गस्य पूजनम् ॥ ४९.२६॥
तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् ।
तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ ४९.२७॥
तस्य प्रीतिकरं साक्षाद्भस्मरुद्राक्षधारणम् ।
तस्य प्रीतिकरं साक्षात्प्रदोषे शिवपूजनम् ॥ ४९.२८॥
तस्य प्रीतिकरं साक्षाद्र्रुद्रपञ्चाक्षरावृतिः ।
तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ ४९.२९॥
तस्य प्रीतिकरं साक्षात्सोमे सायन्तनार्चनम् ।
तस्य प्रीतिकरं साक्षात्तन्निर्माल्यैकभोजनम् ॥ ४९.३०॥
तस्य प्रीतिकरं साक्षादष्टमीष्वर्चनं निशि ।
तस्य प्रीतिकरं साक्षाच्चतुर्दश्यर्चनं निशि ॥ ४९.३१॥
तस्य प्रीतिकरं साक्षात्तन्नाम्नां स्मृतिरेव हि ।
एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ ४९.३२॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शङ्करार्चनमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४९। ११-३२॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 49. 11-32..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Proofread by Ruma Dewan