विष्णुप्रोक्तं शिवक्षेत्राणां महिमवर्णनम्
(सुदर्शनविष्णुसंवादे)
अन्यदभ्युदयं विप्र श्रुतिस्मृतिषु कीर्तितम् ।
धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥ ४९.३३॥
अविमुक्ते विशेषेण शिवो नित्यं प्रकाशते ।
तस्मात्काशीति तत्प्रोक्तं यतो हीशः प्रकाशते ॥ ४९.३४॥
तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः ।
तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥ ४९.३५॥
तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं सम्प्रयच्छति ।
तत्रास्ति मणिकर्णाख्यं मणिकुण्डं विनिर्मितम् ॥ ४९.३६॥
ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः ।
तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥ ४९.३७॥
तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि ।
इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयम् ॥ ४९.३८॥
स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः ।
तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥ ४९.३९॥
धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् ।
पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥ ४९.४०॥
बिल्वैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः ।
तुष्टाव प्रणिपत्यैवं स द्विजो मधुसूदनः ॥ ४९.४१॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवक्षेत्राणां महिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४९। ३३-४१॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 49. 33-41..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Proofread by Ruma Dewan