विष्णुप्रोक्तं शिवमन्त्रमहिमावर्णनम्
वेदोपगीतो बहुधा यश्च शैवः षडक्षरः ।
स एव सर्वथा जप्यः शिवमन्त्रो मुमुक्षुभिः ॥ ४५५॥
शिवमन्त्रजपासक्ता मुक्ताः पूर्वं मुनीश्वराः ।
न शैवमन्त्रादपरो मन्त्रो मुक्तिप्रदायकः ॥ ४५६॥
शैवं मन्त्रं विहायान्यं मन्त्रं यः समुपासते (?) ।
स मणिं करगं त्यक्त्वा काचार्थं यतते ध्रुवम् ॥ ४५७॥
प्रभावः शैवमन्त्राणां ज्ञायते न मया ध्रुवम् ।
तत्त्वं तु शिवमन्त्राणां जानाति शिव एव हि ॥ ४५८॥
मृतिकालीनविश्वेशस्मरणान्मोक्षमाययुः ।
नृणां मरणकाले तु शिव इत्यक्षरद्वयम् ॥ ५०६॥
न याति सहसा(स्मरणं) नूनं शङ्करानुग्रहं विना ।
शिवनामस्मृतिफलं वक्तुमेव न शक्यते ॥ ५०७॥
मादृशैरस्थिरस्वान्तैः शङ्करेण विना ध्रुवम् ।
अतः पञ्चाक्षरः शैवो जपनीयस्त्वया सदा ॥ ५०८॥
शैवः पञ्चाक्षरो भव्यो मुक्तिदो जप्यते मया ।
शैवः पञ्चाक्षरो मन्त्रः शिवरूपः शिवप्रदः ॥ ५०९॥
काश्यामन्तर्गृहे स्थित्वा जपनीयः प्रयत्नतः ।
न काशीसदृशं क्षेत्रं तत्राप्यन्तर्गृहं वरम् ॥ ५१०॥
तत्रापि चोत्तमं ज्ञेयं ज्ञानवापीतटं शुभम् ।
तत्र जप्तो महामन्त्रः शैवोऽयं मोक्षदायकः ॥ ५११॥
तस्मान्मन्त्रवरः शैवः तत्र जप्यो मनुः सदा ।
पञ्चवक्त्रोदशभुजः सर्वदेवोत्तमः प्रभुः ॥ ५१२॥
वेदोपगीतः सर्वज्ञः सोमसूर्याग्निलोचनः ।
गौरीभूषितवामाङ्गः कल्याणगुणसागरः ॥ ५१३॥
सर्वलोकपतिः श्रीमान् सर्वदेवान्वितो विभुः ।
निष्कलो निर्गुणो नित्यो निर्लिप्तो निरुपाधिकः ॥ ५१४॥
निरञ्जनो निराकारो निरवद्यो निरामयः ।
ज्योतिःस्वरूपो विमलश्चिद्घनः सकलात्मनः(कः) ॥ ५१५॥
एकः पूर्णः शिवः शान्तो मायातीतोऽक्षरः परः ।
इति ध्येयः सदा शम्भुरप्रमत्तैरहर्निशम् ॥ ५१६॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवमन्त्रमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . vAvRRittashlokAH ..
Notes:
Viṣṇu विष्णु expresses the merits of Japa जप of Śiva Ṣaḍakṣara Mantra शिव षडक्षर मन्त्र and Śiva Pañcākṣara Mantra शिव पञ्चाक्षर मन्त्र. He opines that though the two syllabled name Śiva शिव spoken at the time of death can result in liberation, even that can come about only with the Grace of Śaṅkara शङ्कर (Śaṅkarānugraha शङ्करानुग्रह).
Proofread by Ruma Dewan