यमकृता शिवप्रार्थना
सोमसामजकलावरकृत्तिधृक् भूधरोरुशिखराश्रय शम्भो ।
पारदोत्तमसुबीज सदारापारभारकलितान् परिपाहि ॥ २०॥
सर्गरक्षण विधानदीक्षित ध्वान्तशिक्षक गदार्तिविनाश ।
देहि मोक्षपदवीमदवीयो वेदमौलिविहिते मृगयेऽहम् ॥ २१॥
परिहर पुरहर शम्भो मुरहरसायक दरहास ।
गुरु भवरुग्घर (भवरुग्वर) घोरभवार्णवदुःखमपाकुरु शशिचूड ॥ २२॥
सुमशरखरशरदूषितहृत्तटं खपट वरोत्तम शिव पाहि ।
अकपटवचसां शिखासखं ते पदयुगमाशु भजामि साम्ब शम्भो ॥ २३॥
ताराराजकलाधरं पुरहरं श्रीराजराजार्चितं
वैराजध्वनितोषितं भज शिवं श्रीशादिहाराचिन्तम् ।
भूभृद्राजकुमारिकासहचरं त्वां देवराजार्चितं
राजद्राजनहिङ्कृतिप्रियतमं राजानमोझं मुखे ॥ २४॥
स्वाराज्यं सुलभं लभेत सुकृतैस्त्वत्पादपद्मार्चकः
त्वामेवाशु भजामि साम्ब मनसा मन्तुं सहस्वाद्य मे ॥ २५॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये यमकृता शिवप्रार्थना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १७ । २०-२५॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 17 . 20-25..
Proofread by Ruma Dewan