षडाननाष्टकम्
ॐ श्रीगणेशाय नमः ।
नमोऽस्तु वृन्दारकवृन्दवन्द्य-
पादारविन्दाय सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥ १॥
नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे
कर्त्रे समस्तस्य मनोरथानाम् ।
दात्रे रतानां परतारकस्य
हन्त्रे प्रचण्डासुरतारकस्य ॥ २॥
अमूर्तमूर्ताय सहस्रमूर्तये
गुणाय गुण्याय परात्पराय ।
आपारपारयपारपराय
नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३॥
नमोऽस्तु ते ब्रह्मविदां वराय
दिगम्बरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवे
नमो हिरण्याय हिरण्यरेतसे ॥ ४॥
तपःस्वरूपाय तपोधनाय
तपःफलानां प्रतिपादकाय ।
सदाकुमाराय हि मारमारिणे
तृणीकृतैश्वर्यविरागिणे नमः ॥ ५॥
नमोऽस्तु तुभ्यं शरजन्मने विभो
प्रभातसूर्यारुणदन्तपङ्क्तये ।
बालाय चापारपराक्रमाय
षाण्मातुरायालमनातुराय ॥ ६॥
मीढुष्ठमायोत्तरमीढुषे नमो
नमो गणानां पतये गणाय ।
नमोऽस्तु ते जन्मजरादिकाय
नमो विशाखाय सुशक्तिपाणये ॥ ७॥
सर्वस्य नाथस्य कुमारकाय
क्रौञ्चारये तारकमारकाय ।
स्वाहेय गाङ्गेय च कार्तिकेय
शैलेय तुभ्यं सततन्नमोऽस्तु ॥ ८॥
इति स्कान्दपुराणान्तर्गतं अगस्त्यप्रोक्तं षडाननाष्टकं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran