श्रीषण्मुखध्यानम्
ॐ श्रीगणेशाय नमः ।
षडाननं त्रिषण्णेत्रं विद्रुमाभं द्विपादकम् ।
खड्गाभयगदाशक्तिखेटं दक्षिणबाहुभिः ॥ १॥
वरपद्मधनुःशूलवज्रान् वामेन धारिणम् ।
वज्रप्रवाळवैडूर्यप्रत्युप्तमकुटान्वितम् ॥ २॥
पीताम्बरविभूषाढ्यं दिव्यगन्धानुलेपनम् ।
रत्नाद्याभरणैर्युक्तं प्रसन्नवदनान्वितम् ॥ ३॥
मयूरेशसमासीनं सर्वाभरणभूषितम् ।
गुहं षोडशवेतानं षण्मुखं च विभावयेत् ॥ ४॥
पूर्वमुखध्यानं
वचद्भुवं शशाङ्काभं एकवक्त्रं त्रिलोचनम् ।
चतुर्भुजसमायुक्तं वराभयसमन्वितम् ॥
स्वये चान्ये दण्डयुतं ऊरूहस्तं च वामके ।
रुद्राक्षमालाभरणं भस्मपुण्ड्राङ्गितं क्रमात् ॥
पुरश्चूडासमायुक्तं मौञ्जीकौपीनधारिणम् ।
अक्षमालासमायुक्तं पादुकाद्वयभूषितम् ॥
काषायवस्त्रसंयुक्तं वचद्भुवं विभावयेत् ॥
दक्षिणमुखध्यानम् ।
जगद्भूतं भृङ्गवर्णं एकवक्त्रं वराभयम् ।
शक्तिशूलसमायुक्तं करण्डमकुटान्वितम् ॥
मयुरेशसमासीनं भावये च विशेषतः ॥
नैरृतिमुखध्यानम्
विश्वभुवं च रक्ताभं एकवक्त्रं त्रिलोचनम् ।
वराभयकरोपेतं खड्गकेटकसम्युतम् ॥
मयूरवाहनारूढं भावयेत्सततं मुदा ॥
पश्चिममुखध्यानम् ।
शुक्लवर्णं ब्रह्मभुवं एकवक्त्रं त्रिलोचनम् ।
वराभयसमायुक्तं घण्डानादसमन्वितम् ॥
मयूरेशसमासीनं भावये च विशेषतः ॥
उत्तरमुखध्यानम् ।
हेमवर्णञ्चाग्निभुवं त्रिनेत्रं चैकवक्त्रकम् ।
वराभयसमायुक्तं गदाध्वजसमन्वितम् ॥
मयूरवाहनारूढं भावयेद्वह्निसम्भवम् ॥
ईशानमुखध्यानम् ।
बृहद्भुवं च स्फटिकवर्णाभं चैकवक्त्रकम् ।
वराभयसमायुक्तं त्रिनेत्रं यज्ञसूत्रकम् ॥
मयूरेशसमासीनं बृहद्भुवं विभावयेत् ॥
ॐ नमो भगवते सुब्रह्मण्याय ।
Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan, PSA Easwaran psaeaswaran at gmail.com