श्रीषण्मुखमानसपूजा २
ॐ श्रीगणेशाय नमः ।
ध्यायेत्षण्मुखपादपद्मयुगळं हृत्पद्ममध्ये स्थितं
भक्त्योदकेन पाद्यञ्च ज्ञानार्घ्यं च समर्पितम् ।
वैराग्यगङ्गातीर्थेन शुद्धाचमनमर्पितं
बाष्पवारिधिपुण्योदकस्नानं
शुद्धहृदयश्वेताम्बरं स्वीगुरु ॥ १॥
तापत्रयोपवीतं च गन्धान् सुमनसेव च ।
पुष्पमालां तव स्तुतिकदम्बौ आशापाशधूपमर्पितं
पञ्चेन्द्रियदिव्यदीपं भक्ष्यभोज्यमात्मनिवेदनं
स्वयम्प्रकाशकर्पूरेण नीराजनं दर्शितम् ॥ २॥
शरीरसञ्चारकृत्यसकलप्रदक्शिण
नमस्कारान् विभो पुष्पाञ्जलिं मम
हृदयकमलं पूजयमि सदा प्रभो
अन्यथा शरणं नास्ति त्वमेव मे गतिर्गुह
ममापराधसहस्रं क्षमस्व करुणनिधे ॥ ३॥
इति आण्डवन्पिच्चैअम्माळ् कृता श्रीषण्मुखमानसपूजा समाप्ता ।
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran