श्रीदण्डायुधपाण्यष्टकम्

श्रीदण्डायुधपाण्यष्टकम्

यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बासुरे- णानीते फलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः । आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत् श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ १॥ श्रीमत्पुष्यरथोत्सवेऽन्नमधुदुग्धाद्यैः पदार्थोत्तमैः नानादेशसमागतैरगणितैर्यः कावडीसम्भृतैः । भक्तौघैरभिषेचितो बहुवरांस्तेभ्यो ददात्यादरात् श्रीदण्डायुधपाणिरात्तकरुणः पायादपायत्स माम् ॥ २॥ नानादिग्भ्य उपागता निजमहावेशान्विताः सुन्दरीः तासामेत्य निशासु यः सुमशरानन्दानुभूतिच्छलात् । गोपीनां यदुनाथवन्निजपरानन्दं तनोति स्फुटं श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ३॥ दुष्टानामिह भूतभाविभवतां दुर्मार्गसञ्चारिणां कष्टाहङ्कृतिजन्यकिल्बिषवशाच्छिष्टप्रविध्वंसिनाम् । शिक्षार्थं निजपाणिनोद्वहति यो दण्डाभिधानायुधं श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ४॥ पूर्वं तारकसंज्ञक दितिसुतं यः शूरपद्मासुरं सिंहास्यं च निहत्य वासवमुखान् देवान् जुगोपाखिलान् । श्रीवल्ल्या सहितश्च निस्तुलयशाः श्रीदेवसेन्या युतः श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ५॥ यस्याङ्गस्थितरोमकूपनिकरे ब्रह्माण्डकोटिच्छटाः सौधाग्रस्थगवाक्षरन्ध्रविचरत्पीलूपमा एव ताः । लक्ष्यन्ते यमिदृग्भिरात्मनि तथाभूतस्वविश्वाकृतिः श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ६॥ सद्योजातमुखैश्च पञ्चवदनैः शम्भोः सहैकं मुखं पार्वत्या मिलितं विभाति सततं यद्वक्त्रषट्कात्मना । तत्तादृक् च्छिवशक्त्यभेदविषयव्यक्त्युज्ज्वलाङ्गं वहन् श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ७॥ सत्यं ज्ञानमनन्तमद्वयमिति श्रुत्यन्तवाक्योदितं यद् ब्रह्मास्ति तदेव यस्य च विभोर्मूर्तेः स्वरूपं विदुः । योगीन्द्रा विमलाशया हृदि निजानन्दानुभूत्युन्नताः श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ८॥ इदं श्रीफलिनीदण्डायुधपाण्यष्टकस्तवम् । पठतामाशु सिध्यन्ति निखिलाश्च मनोरथाः ॥ ९॥ ॥ इति श्रीदण्डायुधपाण्यष्टकं सम्पूर्णम् ॥ Proofread by Sreenivasa Rao Bhagavatula
% Text title            : DandayudhapAni Ashtakam
% File name             : daNDAyudhapANyaShTakam.itx
% itxtitle              : daNDAyudhapANyaShTakam
% engtitle              : daNDAyudhapANyaShTakam
% Category              : subrahmanya, aShTaka
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sreenivasa Rao Bhagavatula
% Description-comments  : From stotrArNavaH 07-06
% Indexextra            : (Scan)
% Latest update         : February 11, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org