गुहाष्टकम्
श्रीगणेशाय नमः ।
शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं
ज्ञातृज्ञाननिरन्तरलोकगुणातीतं गुरुणातीतम् ।
वल्लीवत्सलभृङ्गारण्यकतारुण्यं वरकारुण्यं
सेनासारमुदारं प्रणमत देवेशं गुहमावेशम् ॥ १॥
विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं
भावाभावजगत्त्रयरूपमथारूपं जितसारूपम् ।
नानाभुवनसमाधेयं विनुताधेयं वरराधेयं
केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम् ॥ २॥
स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं
ज्योतिःस्तोमनिरन्तररम्यमहस्साम्यं मनसायाम्यम् ।
मायाशृङ्खलबन्धविहीनमनादीनं परमादीनं
शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम् ॥ ३॥
व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं
ज्योतिश्चक्रसमर्पितकायमनाकायव्ययमाकायम् ।
भक्तत्राणनशक्त्या युक्तमनुद्युक्तं प्रणयासक्तं
सुब्रह्मण्यमरण्यं प्रणमत देवेशं गुहमावेशम् ॥ ४॥
श्रीमत्सुन्दरकायं शिष्टजनासेव्यं सुजटासेव्यं
सेवातुष्टसमर्पितसूत्रमहासत्रं निजषड्वक्त्रम् ।
प्रत्यर्त्थ्यानतपादसरोरुहमावाहं भवभीदाहं
नानायोनिमयोनिं प्रणमत देवेशं गुहमावेशम् ॥ ५॥
मान्यं मुनिभिरमान्यं मञ्जुजटासर्पं जितकन्दर्पं
आकल्पामृततरलतरङ्गमनासङ्गं सकलासङ्गम् ।
भासा ह्यधरितभास्वन्तं भविकस्वान्तं जितभीस्वान्तं
कामं कामनिकामं प्रणमत देवेशं गुहमावेशम् ॥ ६॥
शिष्टं शिवजनतुष्टं बुधहृदयाकृष्टं हृतपापिष्ठं
नादान्तद्युतिमेकमनेकमनासङ्गं सकलासङ्गम् ।
दानविनिर्जितनिर्जरदारुमहाभीरुं तिमिराभीरुं
कालाकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ७॥
नित्यं नियमिहृदिस्थं सत्यमनागारं भुवनागारं
बन्धूकारुणललितशरीरमुरोहारं महिमाहारम् ।
कौमारीकरपीडितपादपयोजातं दिवि भूजातं
कण्ठेकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ८॥
इति श्रीनारायणगुरुविरचितं गुहाष्टकं सम्पूर्णम् ।
Encoded by Shankara and P. S. Ramachandran
Proofread by Shankara, PSA Easwaran