गुहपञ्चरत्नम्
ओङ्कार-नगरस्थं तं निगमान्त-वनेश्वरम् ।
नित्यमेकं शिवं शान्तं वन्दे गुहं उमासुतम् ॥ १॥
वाचामगोचरं स्कन्दं चिदुद्यान-विहारिणम् ।
गुरुमूर्तिं महेशानं वन्दे गुहं उमासुतम् ॥ २॥
सच्चिदानन्दरूपेशं संसार-ध्वान्त-दीपकम् ।
(ॐ श्री) सुब्रह्मण्यं अनाद्यन्तं वन्दे गुहं उमासुतम् ॥ ३॥
स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् ।
निष्कलङ्कं गुणातीतं वन्दे गुहं उमासुतम् ॥ ४॥
निराकारं निराधारं निर्विकारं निरामयम् ।
निर्द्वन्द्वं च निरालम्बं वन्दे गुहं उमासुतम् ॥ ५॥
॥ इति गुहपञ्चरत्नम् ॥
Encoded and proofread by N.Balasubramanian bbalu@satyam.net.in